सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति। आदेशविधानादेव लिडपि तद्विषयो ऽनुमीयते। उपसेदिवान् कौत्सः पाणिनिम्। तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति। उपासदत्। उपासीदत्। उपससाद। अनूषीवान् कौत्सः पाणिनिम्। अन्ववात्सीत्। अन्ववसत्। अनूवास। उपशुश्रुवान् कौत्सः पाणिनिम्। उपाश्रौषीत्। उपाशृणोत्। उपशुश्राव। लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर् भवति।
ननु चेह प्रकरणे भूतसामान्ये लिड् विहितः, तेनासौ भाषायां नास्त्येव, तदसतस्तस्य कथं क्तसुरादेशः शक्यते विज्ञातुमित्याह-- "आदेशविधानादेव" इत्यादि। यदेतद्भाषायां लिटः क्वसोरादेशविधानमत एव विज्ञानाद् भूतसामान्ये भाषायां लिडित्वनुमीयते; अन्यथा ह्रादेशविधानमनर्थकं स्यात्। न ह्रविद्यमानस्य स्थानिन आदेश उपपद्यते।
यदि तह्र्रादेशविधानाल्लिड्? भाषायामनुमीयते, ततश्च सदादिभ्यो भाषायां नित्यं लिट् प्राप्नोति, तस्य "विभाषा क्वसुः" इति पक्षे तिङः श्रवणं प्रसज्येत, लुङादेशश्च स्वविषये पाक्षिको न स्यात्,
नित्यत्वाल्लिटः? नैष दोषः;आदेशेन हि लिङ्गेन लिडनुमीयते, तेन यदादेशो नास्ति तदा तदनुमानमपि नास्त्येव। तदसत्त्वे लिटः कुत आदेशा येषां श्रवणं प्रसज्येत ! यत्र पक्षे लिट् नास्ति तत्र स्वविषये लुङादयो भवन्तः केन निवार्यन्ते ! "उपसेदिवान्" इति। "षद्()लृ विशरणे" (धा।पा।८५४)। "अत एकहल्मध्ये"
६।४।१२० इत्यादिनैत्वाभ्यासलोपौ, "वस्वेकाजाद्धसाम्"
७।२।६७ इतीट्, नुम्, "सान्तमहतः संयोगस्य"
६।४।१० इति दीर्घः, हल्ङ्यादि
६।१।६६ संयोगान्तलोपौ
८।२।२३। "उपासदत्" इति। वाग्रहणाद्यस्मिन् पक्षे लिड् नास्ति तस्मिन् पक्षे भूतसामान्ये लुङ्, तिप्, "इतश्च"
३।४।१०० इतीकारलोपः, पुषादिना
३।१।५५ च्लेरङ्। "उपासीदत्" इति। "अनद्यतने लङ्"
३।२।१११, प्राघ्रादिसूत्रेण
७।३।७८ सीदादेशः। "उपससाद" इति। "परोक्षे लिट्"
३।२।११५, तिप्, णल्, "अत उपधायाः"
७।२।११६ इति वृद्धिः। "अनूविषान्" इति। "वस निवासे" (धा।पा।१००५), लिटः क्वसूर्द्विर्वचनम्, वच्यादिसूत्रेण
६।१।१५ सम्प्रसारणम्। "लिट()भ्यासस्योभयेषाम्"
६।१।१७ इत्यभ्यासस्य सम्प्रसारणम्, "शासिवसिघसीनाञ्च"
८।३।६० इति षत्वम्, "अकः सवर्णे दीर्घः"
६।१।९७ अनुशब्देन सह पुनर्दीर्घः। "अन्ववात्सीत्िति। लुङ्, "अस्तिसिचोऽपृक्ते"
७।३।९६ इतीट्, "एकाचः"
७।२।१० इतीट्प्रतिषेधः, "सः स्याद्र्धधातुके"
७।४।४९ इति तत्वम्, "वदव्रज"
७।२।३ इत्यादिना वृद्धिः। "अन्ववसत्" इति। लङ्। "अनूवास" इति। लिट, पूर्ववत् सम्प्रसारणादिकार्यम्। "उपशुश्रुवान्" इति। "श्रु श्रवणे" (धा।पा।९४२), लिटः क्वसुः, द्विर्वचनम्। "उपाश्रौषीत्" इति। लुङ् "सिचि वृद्धिः परस्मैपदेषु"
७।२।१ इति वृद्धिः, पूर्ववदिट्()प्रतिषेधः, "अस्तिसिचोऽपृक्ते"
७।३।९६ इतीट्, उपसर्गेण "अकः सवर्णे दीर्घः"
६।१।९७। "उपाशृणोत्" इति। लङ्, "श्रुवः शृ च"
३।१।७४ इति श्नुप्रत्ययः, शृभावश्च, "सार्वधातुकार्थधातुकयोः"
७।३।८४ इति गुणः। "उपशुश्राव" इति। लिट्, तिप्, णल्, "अचो ञ्णिति"
७।२।११५ इति वृद्धिः, आवादेशः। इहानेन सूत्रेण यत्कार्यं विधीयते तद्भूतसामान्ये। "{इयं पंक्तिर्मुद्रिते नास्ति} लुङ्"
३।२।११० इत्यनेन लुङ्। "अनद्यतने लुङ्"
३।२।१११ इत्यनेन लङ्, "परोक्षे लिट्"
३।२।११५ इत्यनेन लिट्, भूतानद्यतनपरोक्षे परौ च लङिलिटौ भवतः। विशेषविहितत्वाच्च लङलिटोरस्य सदादिकार्यस्य बाधकौ प्राप्नुतः। तस्य कार्यस्य भूतसामान्यमवकाशः; लङलिटोः सदादिभ्योऽन्येभ्यो धातुभ्यः, सदादिभ्यो भूतविशेषे भूतानद्यतनपरोक्षे; भूतानद्यतने चोभयप्राप्तौ यथोक्तकारणद्वयात् लङलिटौ स्याताम्।
न चैतत् सूत्रविहितं कार्यमपीति यश्चोदयेत्, तं प्रत्याह-- "लुङलङविषयेऽपि" इत्यादि। लिड्()ग्रहणस्य वाग्रहणस्य चास्य सूत्रस्य पुरस्तात् "अनद्यतने लङ"
३।२।१११ , "परोक्षे लिट्"
३।२।११५ इत्यत्र चानुवृत्तिः क्रियते। तत्र चानुवृत्तिसामथ्र्यात् लङ्यप्येतत् भवति। अत्रैवं सम्बन्धः कत्र्तव्यः-- अनद्यतने लङ भवति, सदादिभ्यो वा लिट्, लिटश्च क्वसुरादेशो नित्यमिति।
परोक्षे लिड्? भवति, सदादिभ्यो वा, लिटः क्वसुरिष्यते, सूत्रान्तरविहितश्चायम्॥
भाषायाम्। सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी। पुंस्त्वमेकवचनं चार्षम्। तस्य च नित्यं क्वसुरिति। वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम्। पक्षे लुङ्, तसय् भूतसामान्ये विहितत्वात्। वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात्, सरूपत्वात्। अस्य च भूतसामान्ये लिटो न तिङ्, अस्य क्वसोस्तदपवादत्वात्। वासरूपविधिस्तु लोदेशेषु नेति "लिटः कानज्वे"त्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः। निषेदुषीमिति। निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, "अत एकहल्मध्ये" इत्येत्वाभ्यासलोपौष वसोः संप्रसारणं, पूर्वरूपं, षत्वम्। अध्यूषुष इति। अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम्। पूर्वरूपम्। उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः। शसि वसोः संप्रसारणं, पूर्वरूपम्()। शुश्रुवानिति। श्रुधातोर्लिटः क्वसुः। द्वित्वम्।