सूत्रम्
कुषिरजोः प्राचां श्यन् परस्मैपदं च॥ ३।१।९०
काशिका-वृत्तिः
कुषिरजोः प्राचां श्यन् परस्मैपदं च ३।१।९०
कुष निष्कर्षे, रञ्ज रागे, अनयोर् धात्वोः कर्मकर्तरि प्राचाम् आचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च। यगात्मनेपदयोरपवादौ। कुष्यति पादः स्वयम् एव। रज्यति वस्त्रं स्वयम् एव। प्राचां ग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। व्यवस्थितविभाषा च इयम्। तेन लिट्लिङोः स्यादिविषये च न भवतः। चुकुषे पादः स्वयम् एव। ररञ्जे वस्त्रं स्वयम् एव। कोषिषीष्ट पादः स्वयम् एव। रङ्क्षीष्ट वस्त्रं स्वयम् एव। कोषिष्यते पादः स्वयम् एव। रङ्क्ष्यते वस्त्रं स्वयम् एव। अकोषि पादः स्वयम् एव। अरञ्जि वस्त्रं स्वयम् एव।
न्यासः
कृषिरजोः प्राचां श्यन्परस्मैपदं च। , ३।१।९०
रञ्जेः कृतानुनासिकलोपनिर्देशो लाघवार्थः। "यगात्मनेपदयोरपवादौ" इति। श्यन् यकोऽपवादः; परस्मैपदं त्वात्मनेपदस्य। "रज्यति" इति। "अनिदिताम्"
६।४।२४ इत्यनुनासिकलोपः। "प्राचां ग्रहणं विकल्पार्थम्" इति। एतेन पूजार्थतामपनयति। पूजार्थे तस्मिन् विकल्पो न लभ्येत। "कुष्यते" इत्यादिना विकल्पार्थे प्राग्ग्रहणे यदिष्टं सिध्यति तद्दर्शयति। "स्यादिविषये च" इत्यादि। आदिशब्देन तासिप्रभृतीनां ग्रहणम्। "चुकुषे, ररञ्जे" इति। लिट्, आत्मनेपदम्, तप्रत्ययः, तस्यैशादेशः। "कोषिषीष्ट" इति। आशिषि लिङ, सीयुट्, "सुट् तिथोः"
३।४।१०७ इति सुट्, लघूपधगुणः, षत्वम्, ष्टुत्वञ्च। "रङक्षीष्ट" इति। "एकाचः"
७।२।१० इतीट्प्रतिषेधः, "चोः कुः"
८।३।३० इति कुत्वम्-- गकारः। "खरि च"
८।४।५४ इति चत्र्वम्--ककारः। "अकोषि, अरञ्जि" इति। लुङ,चिण्॥
बाल-मनोरमा
कुषिरञ्जोः प्राचां श्यन्परस्मैपदं च ६४९, ३।१।९०
कुषिरञ्जोः। अनयोरिति। "कुष निष्कर्षे" "रञ्ज रागे"इत्यनयोरित्यर्थः। कर्मकर्तरीति। "अचः कर्मकर्तरी" त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। "न दुहस्नुनमा"मित्यतो नेति, यगिति चानुवर्तते। तदाह-- न यगिति। किंतु श्यन्निति। यग्विषये इत्यर्थः। एवं च यग्विषयादन्यत्र न श्यः प्रवृत्तिः। "न य"गित्यनुक्ताव श्यनो विधाने तु यग्विषयादन्यत्राद्र्धधातुकेऽपि श्यन् स्यादिति भावः। "प्राचां"ग्रहणाद्विकल्पः। तदाह--कुष्यति कुष्यते वा पाद इति। "स्वयमेवे"ति शेषः। कुष्णाति पादं देवदत्त इति मुख्यकर्तृलकारे पादः कर्म। तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम्। तदुभयाऽभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः। यक्श्यनोः स्वरे विशेषः। श्यनि "कुष्यन्ती वधू"रित्यत्र "शप्श्यनोर्नित्य"मिति नित्यं नुम्। यकि तु "आच्छीनद्यो"रिति विकल्पः स्यात्। रज्यति रज्यते वा वरुआमिति। अन्तर्भावितण्यर्थतायां दैवादिकत्वाच्छ्यनि "रज्यति वरुआ"मित्यत्र रञ्जयतीत्यर्थः। मुख्ये कर्तरि लः। कर्मणः कर्तृत्वविवक्षायां तु रज्यति रज्यते वा वरुआमिति भवतीत्यर्थः। यगवि,ये तु नास्त्येवेति। "श्य"निति शेषः। यक#ं प्रतिषिध्य तत्स्थाने श्यनो विधिसामथ्र्यादित्यर्थः। कोषिषीष्टेति। आद्र्धातुकत्वेन यगविषयत्वान्न श्यन्। तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः। रङ्क्षीष्टेति। रञ्जेः सीयुटि जस्य कुत्वेन गः। तस्य चर्त्वेन कः। अनुस्वारपरसवर्णौ। अत्र कर्मकर्तृप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्मना कत्र्रेति, तथा सति कर्मण्येव लः स्यादिति "णेरणौ" इति सूत्रे कैयटे स्पष्टम्। इति कर्मकर्तृप्रक्रिया।
अथ पूर्वकृदन्ते कृत्यप्रकरणम्।
अथ कृदन्तप्रक्रिया निरूप्यन्ते। तदेवं "प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः"इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादे "प्रत्ययः", "परश्चे"त्यारभ्य "कुषिरञ्जोः प्राचां श्य"न्नित्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः। अथतदुत्तरसूत्रविहितान्निरूपयितुमुपक्रमते--