आम्प्रत्ययस्य पश्चात् कृञनुप्रयुज्यते लिटि परतः। कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत् सामर्थ्यादस्तेर् भूभावः न भवति। आचयाञ् चकार। पाचयाम् बभूव। पाचयाम् आस।
"अनुप्रयुज्यते" इति। अनुप्रशब्दौ प्रत्येकं प्रथमान्ते पदे। "युज्यते" इत्यात्ममनेपदे प्रथमपुरुषैकवचनान्तं पदम्। "आम्प्रत्ययस्य" इति। आम् प्रत्ययो यस्मादिति बहुव्रीहिः। पश्चादित्यनेनानुशब्दस्यार्थमाचक्षाणः प्राक् प्रयोगं निराकरोति। सावधारणफलत्वाच्च सर्ववाक्यानामाम्प्रत्ययस्यैव पश्चात् कृञ् प्रयुज्यते-- इत्यवधारणमिहाश्रितम्, तेन व्यवधाने प्रयोगो निराकृतो भवति। न हि व्यवधाने कृञनुप्रयुज्यमान आम्प्रत्ययस्यैवानुप्रयुक्तो भवति, अपि तु शब्दान्तरस्यापि।"लिटि परतः" इत्यनेन प्रत्ययान्तरे परे प्रयोगाभावमाह। ननु च "आमः"
२।४।८१ इति लिटो लुका भवितव्यम्,
तत्कथं लिटि परतः कृञ नुप्रयुज्यते? नैष दोषः; न ह्रयमत्रार्थः-- लक्षणान्तरेण यो विहितो लिट्परः कृञनुप्रयुज्यत इति यावत्। ननु च कृञित्युच्यते, पाचयाम्बभूव पाचयामासेति भवतेरस्तेश्चानुप्रयोगो न सिध्यतीत्याह-- "कृञिति प्रत्याहारेण" इत्यादि।"अभूततद्भावे कृभ्वस्तियोगे"
५।४।४० इतीतं कृशब्दं गृहीत्वा "कृञो द्वितीयतृतीयशम्बबीजात् कृषौ"
५।४।५८ इति ञकारेण प्रत्याहारग्रहणमेतत्। तेन प्रत्याहारग्रहणेन कृभ्वस्तयस्त्रयो गृह्रन्ते। तत्र च त्रयाणामप्यन्तर्भावादित्यदोषः। एवमप्यस्तेरनुप्रयोगो न सिध्यति, यस्मात् "अस्तेर्भूः"
२।४।५२ इति भूभावेन भवितव्यमित्याह-- "तत्सामथ्र्यात्" इति। प्रत्याहेरण कृभ्वस्तीनां ग्रहणसामथ्र्यादस्तेर्भूभावो न भवति। तेषां प्रत्याहारगर्हणस्यैतत् प्रयोजनम्-- अस्तेरनुप्रयोगो यथा स्यात्। यद्यस्तेरनुप्रयोगस्य भूभावः स्यात् निष्फलं प्रत्याहारग्ररहणं स्यात्, "कृभ्वनुप्रयुज्यते लिटि" इत्येवं ब्राऊयात्।
तत्राप्ययमर्थः-- किमिदं करोतेग्र्रहणम्? उत प्रत्याहारस्य? इति सन्देहः परिह्मतो भवति। यदि तर्हि कृञिति प्रत्याहारग्रहणम्, एवं सति "अभिविधौ सम्पदा च"
५।४।५३ इति सम्पदानुप्रयोगः प्राप्नोति;
तस्य प्रत्याहारेऽन्तर्भूतत्वात्? नैष दोषः; "सनाद्यन्ता धातवः"
३।१।३२ इत्यतो धातुग्रहणमनुवत्र्तते, तेन च कृञ् विशिष्यते--कृञ् यो धातुरिति, न च सम्पदेत्यं धातुः,
किं तर्हि? धातूपसर्गसमुदायः, तस्मान्नानुप्रयुज्यते।
"पाचयाम्बभूव" इति। पचेण्र्यन्तादाम्। "अयामन्ताल्वाय्येत्न्विष्णुषु"
६।४।५५ इति णेरयादेशः। "भवतेरः"
७।४।७३ इत्यभ्यासस्यात्त्वम्। "भुवो वुग् लुङलिटोः"
६।४।८८ इति वुगागमः।
किमर्थं पुनरिदमुच्यते, यावताऽमन्तमिदम्, अनभिव्यक्तक्रियापदार्थम्। अतो हि क्रियाकालमात्रस्याभिव्यक्तिर्भवति, न साधनपुरुषसंख्यानम्। न हि विना तिङन्तपदेन तासामभिव्यक्तिर्भवति।
तस्मादपरिसमाप्त्यर्थत्वादेवामन्तस्यानुप्रयोगो भविष्यति? कृभ्वस्तीनामनुप्रयोगो यथा स्यात्, "{पचादीनां मा भूत्। पचादीनामिति चेन्न"} इति मुद्रितः पाठः} पचादीनां मा भूदिति चेत्, न; पचादीनां विशेषवाचित्वादनुप्रयोगस्यानुपपत्तेः।
विशेषवाची ह्रनुप्रयुज्यमानः सामान्यवाचिनो ह्रामन्तस्यानुप्रयुज्यते? विशेषवाचिनो वा? तत्र न तावत् सामान्यवाचिन आमन्तस्य विशेषवाच्यनुप्रयोगमर्हति, तस्यासम्भवात्। कृभ्वस्तयो हि सामान्यवाचिनः, न च तेभ्यः केनचिदाम् विहितः।
विशेषवाचिनोऽप्यामन्तस्य विशेषवाची समानार्थोऽनुप्रयुज्येत? भिन्नार्थो वा? तत्र समानार्थस्तावन्नानुप्रयुज्यते; उक्तार्थत्वात्। त()स्मश्चानुप्रयोक्तुमिष्ट आमन्तस्य सकलक्रियाकालाद्यर्थाभिव्यक्तिर्भवति। सामथ्र्यात् स एवानुप्रयोक्तव्यो यत्र सर्वाभव्यक्तिर्भवति। तत्र क्रियामन्तेन समानार्थेन पूर्वेण ! भिन्नार्थोऽपि नानुप्रयोगमर्हति; तदर्थानभिव्यक्तेः। अनुप्रयोगो ह्रामन्तस्यार्थस्य#आभिव्यक्तये क्रियते, न चात्यन्तभिन्नार्थेनामन्तवाच्यस्यार्थस्य सम्बन्धिनः साधनादयः शक्यन्तेऽभिव्यङक्तुम्। सामान्यवाचिना तु शक्यन्तेऽभिव्यङक्तुम्। विशेषसन्निधौ हि सामान्यशब्दस्य विशेषेऽवस्थानादामन्तस्य सन्निधौ सामान्यशब्दाः कृभ्वस्तयोऽनुप्रयुज्यमानास्तद्वाच्य एवार्थविशेषे वत्र्तन्ते,
तस्मादेषामेव कृभ्वस्तीनामनुप्रयोगो भविष्यतीति नारब्धव्यमिदम्? नैतदस्ति; यथैव हि कृभ्वस्तयः क्रियासामान्यवचनाः, एवं विद्यतिरपीति तस्याप्यनुप्रयोगः स्यात्। तस्मात् तन्निवृत्त्यर्थमिदमारब्धम्। व्यवहितप्रयोगनिवृत्त्यर्थञ्च, पाचयां देवदत्तश्चकारेति मा भूत्। व्यवहितप्रयोगानिवृत्तिस्त्ववधारणविशेषाल्लभ्यते। अवधारणं तु सर्ववाक्यानां व्यवच्छेदफलत्वात् सावधारणफलत्वाच्चकारस्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। विपर्ययनिवृत्त्यर्थश्चारब्धव्यः, विपर्ययनिवृत्तिस्त्वनोः पश्चादर्थत्वाल्लभ्यते॥
कथं तर्हि "तं पातयां प्रथममास पपात पश्चात्"। "प्रभ्रंशयां यो नहुषं चकारे"ति?। प्रमाद एवायम्। न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, "विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चे"ति वार्तिकविरोधात्। अन्यस्यापीति। यदीह कृञ्शब्देन एक एव धातुर्गृह्रेत तदा धात्वन्तरस्य प्राप्त्यभावात्ाम्प्रत्ययव"दिति सूत्रेऽनुप्रयुज्यमानस्य कृञ इति विशेषणं व्यर्थं स्यादिति भावः। न चात्र "कृञ्चे"ति चकारेणैवाऽनुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्क्यं,
"धातोराम्? स्यात्, अनुप्रयुज्यते च लिट्परः कृञित्यर्थसमर्पकतया तस्योपक्षीणत्वात्। अभेदान्वय इति। सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः। एवं च एंधाचक्रे एधांबभूवे इत्यादौ एककर्तृका भूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः। ननु करोतिः सकर्मको भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत्?। अत्राहुः-- यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते-- घटं चक्रे राज्यं चकारेति, तदा नियमेन सकर्मकत्वम्। यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते-- जुहवांचकारेत्यादौ, तदा यत्समानाध#इकरणः करोतिस्तस्य सकर्मकत्वाऽकर्मकत्वाभ्यां स्वयमपि तथाबावं भजते। एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम्। अत एवाऽनुप्रयुज्यमानाद्भवतेः सकर्मकत्वात्कर्मणि लिट्। तथा च माघः-- "तस्यातपत्रं बिभरांबभूवे"इति, श्री हर्षश्च। "तपर्त्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे" इति। अत्रेदमवधेयं-- जुहाव जुहवां चकार जुहवांबभूवेत्यादौ केवलो होमो गम्यते, इतरत्र तु होमरूपा क्रियेति बोधः। फले तु न कश्चिद्विशेषः, घटमानय द्रव्यघटमानयेत्यत्र यथा। एवं चाऽऽम्प्रकृत्यर्थगतिकारकसङ्ख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति। अनन्वितेति। संपद्यर्थस्याऽऽम्प्रकृत्यर्थस्य चाऽभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वादिति भावः।