प्रथमावृत्तिः
सूत्रम्॥
द्व्येकयोर्द्विवचनैकवचने॥ १।४।२२
पदच्छेदः॥
द्व्येकयोः ७।२ द्विवचनैकवचने १।२
समासः॥
द्वौ च एकं च, द्व्येकौ, तयोः ॰ इतरेतरद्वन्द्वः। द्विवचनं च एकवचनं च द्विवचनैकवचने, इतरेतरद्वन्द्वः॥
अर्थः॥
द्वित्वे विवक्षिते द्विवचनम्, एकत्वे विवक्षिते एकवचनं च भवति
उदाहरणम्॥
ब्राह्मणौ पठतः।
एकत्वे - ब्राह्मणः पठति॥
काशिका-वृत्तिः
द्व्येकयोर् द्विबचनएकवचने १।४।२२
द्वित्वएकयोरर्थयोः द्विवचनएकवचने भवतः। एतदपि सामान्यविहितयोर् द्विवचनएकवचनयोरर्थाभिधानम्। द्वित्वे द्विवच्नं भवति। एकत्वे एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति।
लघु-सिद्धान्त-कौमुदी
द्व्येकयोर्द्विवचनैकवचने १२३, १।४।२२
द्वित्वैकत्वयोरेते स्तः॥
न्यासः
द्वयेकयोर्द्विवचनैकवचने। , १।४।२२
"द्व्येकयोः" इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। "एतदपि" इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। "अर्थाभिधानम्" इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्॥
बाल-मनोरमा
द्वयेकयोर्द्विवचनैकवचने १८५, १।४।२२
द्वयेकयोः। "द्वयेकयो"रिति भावप्रधानो निर्देशः, अन्यथा "द्वयके"ष्विति स्यादित्यभिप्रेत्य व्याचष्टे--द्वित्वैकत्वयोरिति।
तत्त्व-बोधिनी
द्वयेकयोर्द्विवचनैकवचने १५४, १।४।२२
द्वयेकयोः। इह "द्वयेक"शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह--द्वित्वैकत्वयोरिति। सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः।