प्रथमावृत्तिः
सूत्रम्॥
परः सन्निकर्षः संहिता॥ १।४।१०८
पदच्छेदः॥
परः १।१ सन्निकर्षः १।१ संहिता १।१
अर्थः॥
परशब्दः अतिशयवाची, वर्णानां परः = अतिशयितः सन्निकर्षः = प्रत्यासत्तिः संहितासंज्ञकः भवति।
उदाहरणम्॥
दधि + अत्र = दध्यत्र। मधु + अत्र = मध्वत्र॥
काशिका-वृत्तिः
परः संनिकर्षः संहिता १।४।१०९
परशब्दो ऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः सन्निकर्षः, वर्णानाम् अर्धमात्राकालव्यवधानं, स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः सिंहितायाम्
६।१।७० इत्येवम् आदयः।
न्यासः
परः सन्निकर्षः संहिता। , १।४।१०८
"परशब्दोऽतिशये वत्र्तते" इति। यथा परं दुःखमिति। एतन परशब्दोल दिगादिष्वप्यर्थेषु वत्र्तते, तथापीहातिशये वत्र्तमानस्य तस्य ग्रहणमित दर्शयति। सन्निकर्षः = प्रत्यासत्तिः, संश्लेषश्च। तत्रेह प्रत्यासत्तिर्गृह्रत इति दर्शयन्नाह-- "सन्निकर्षः प्रत्यासत्तिः" इति। संश्लेषस्तु न गृह्रते, तस्य वर्णेष्वसम्भवात्। संश्लेषो ह्रेककालानां भवति, न च वर्णामामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसितत्वात्। संश्लेषो ह्रेककालानां भवति, न च वर्णानामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसतत्वात्। सत्यामपि चैककालतायां न सम्भवत्येव वर्णानां सश्लेषः। तथा हि-- संश्लेषः संयोगतो वा स्यात्, समवायतो वा; तत्र पूर्वको द्रव्यस्यैव स्यात्, न तु शब्दस्य-- निर्गुणा गुणा इति कृत्वा। इतरोऽपि नैव शब्दस्य सम्भवति, न हि वर्णो वर्णे समवैति; शब्दस्याकाशसमवायित्वात्। न च संयोगसमवाययोरतिशयः सम्भवति; सर्वत्रैकरुपकत्वात्। तथा च "परः" इति विशेषणं नोपपद्यते। प्रत्यासत्तिस्त्वपेक्षाकृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम्। कः पुनरसौ परः सन्निकृष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपदेशनमद्र्धमात्राकालमाहुः। स वर्णानां व्यवधानः = व्यवधायको यस्मिन् सोऽद्र्धमात्राकालव्यवधानः सन्निकर्षः। यदि वर्णानामद्र्धमात्राकालव्यवधानः सन्निकर्षः,कथं तर्हि दध्यत्रेत्यादौ वयवधायककालो नोपलक्ष्यते,
वर्णाः संश्लिष्टा एवोपलभ्यन्ते? नैतत्; किमर्थं पुनरेतदारभ्यते, यावता परमेव सन्निकर्षं संहितेति वदन्त्याचार्याः,
तथा हि संहितामधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः? नैतदेवम्; पदस्य पदान्तरेण यदानन्तर्यं सा संहितेति लोकेऽभिधीयते। तथा च वक्तारो वदन्ति-- संहितामधीते न पदानि, पदान्यधीते न संहितामिति। तथा चैकपदे हि संहिताकार्यं न स्यात्, "इको यणचि"
६।१।७४ इति-- कुमार्यौ, कुर्मार्य इति। सति ह्रस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितासंज्ञा विधीयत इत सर्वत्रैव भवति॥।
बाल-मनोरमा
लुक् स्त्रियाम् १०९६, १।४।१०८
लुक्स्त्रियाम्। वतण्डाच्चेति विहितस्येति। "यञ" इति शेषः। वतण्डीति। वतण्डस्य गोत्रापत्यं स्त्री आङ्गिरसीति विग्रहः। यञो लुकि आदिवृद्धिनिवृत्तौ ङीनिति भावः। वातण्ड()आयनीति। अञि आदिवृद्धौ लोहितादिलक्षणः ष्फः, षित्त्वान्ङीषिति भावः। "वतण्डाच्चे"ति विहितस्येत्यस्य प्रयोजनमाह--अणि तु वातण्डीति। शिवादित्वादणि गोत्रत्वेन जातित्वाज्जातिलक्षणे ङीषि तस्याऽणो वतण्डाद्विहितत्वेऽपि "वतण्डाच्चे"ति विहितत्वाऽभावान्न लुगिति भावः। ननु वतण्डादणि तस्य "अणिञोरनार्षयो"रिति वक्ष्यमाणः ष्यङ् स्यादित्यत आह--ऋषित्वादिति।
बाल-मनोरमा
परः संनिकर्षः संहिता ३०, १।४।१०८
परः संनिकर्षः। परः=अतिशयितः। "दूरानात्मोत्तमाः पराः" इत्यमरः। सन्निकर्षः=सामीप्यम्। अर्धमात्राधिककालव्यवधानाऽभावः। अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात्। तदेतदभिप्रेत्याह-अतिशयित इत्यादिना।
तत्त्व-बोधिनी
लुक् स्त्रियाम् ९१७, १।४।१०८
लुक् स्त्रियाम्। विहितस्येति। "परिशेषितस्य वे"ति बोध्यम्। एतच्च "आङ्गिरसे"इत्यनुवृत्त्या लभ्यते। यद्यपि "वतण्डाल्लुक् स्त्रिया"मित्येकसूत्रकरणेऽपि "आङ्गिरसे"इत्यनिवृत्त्या अनाङ्गिरसे यञणोर्लुगभावात् स्त्रियामिष्टं सिद्द्यति, तथापि पुंस्याङ्गिरसे यञणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम्। ऋषित्वादिति। न चैवं "ऋष्यन्धके"त्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थं इति शङ्क्यम्। गर्गादिपाठेन यञा बाधात्तन्निवृत्तये तत्पाठस्यावश्यरकत्वात। ष्यङ्नेति। "अणिञोरनार्षयो"रिति सूत्रेणेति भावः।