प्रथमावृत्तिः
सूत्रम्॥
अकर्मकाच्च॥ १।३।३५
पदच्छेदः॥
अकर्मकात् ५।१ च ० वेः ५।१ ३४ कृञः ५।१ ३२ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
अकर्मकाच् च १।३।३५
वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः। ओदनस्य पूर्णाश् छात्रा विकुर्वते। निष्फलं चेष्टन्ते इत्यर्थः।
न्यासः
अकर्मकाच्च। , १।३।३५
"ओदनस्य {पूर्णाः" इत्येव-- काशिका, पदमञ्जरी च।} परिपूर्णाः" इति। सुहितार्थयोगे षष्ठी। "पूरणगुणसुहितार्थ"
२।२।११ इत्यादिना षष्ठीसमासप्रतिषेधेन ज्ञापितमेतत्-- सुहितार्थयोगे षष्ठी भवतीति। सुहितार्थाः = तृप्त्यर्थाः। पूर्णास्तृप्ता इत्यर्थः॥
बाल-मनोरमा
अकर्मकाच्च ५३१, १।३।३५
अकर्मकाच्च। वेः कृञ इत्यवेति। तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः। "विकुर्वते" इत्येतद्व्याचष्टे -- विकारं लभन्ते इति। लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम्।