प्रथमावृत्तिः
सूत्रम्॥
छन्दसि पुनर्वस्वोरेकवचनम्॥ १।२।६१
पदच्छेदः॥
छन्दसि ७।१ ६२ पुनर्वस्वोः ६।२ एकवचनम् १।१ ६२ नक्षत्रे ७।१ ६० द्वयोः ७।२ ५९ अन्यतरस्याम् ७।१ ५८
काशिका-वृत्तिः
छन्दसि पुनर्वस्वोरेकवचनम् १।२।६१
अन्यतरस्याम् इत्यनुवर्तते। द्वयोर् द्विवचने प्राप्ते पुनर्वस्वोश् छन्दसि विषये एकवचनम् अन्यतरस्यां भवति। पुनर्वसुर् नक्षत्रम् अदितिर् देवता। पुनर्वसू नक्षत्रम् अदितिर् देवता। नक्षत्रे इत्येव। पुनर्वसू माणवकौ। छन्दसि इति किम्? पुनर्वसू इति।
न्यासः
छन्दसि पुनर्वस्वोरेकवचनम्। , १।२।६१