प्रथमावृत्तिः
सूत्रम्॥
कृन्मेजन्तः॥ १।१।३८
पदच्छेदः॥
कृत् १।१ मेजन्तः १।१ अव्ययम् १।१ ३६
समासः॥
मश्च एच्च मेचौ, मेचौ अन्तौ अस्य सः मेजन्तः, बहुव्रीहिः
अर्थः॥
कृत् यः मकारान्तः एजन्तश्च, तदन्तं शब्दरूपम् अव्ययसंज्ञकं भवति
उदाहरणम्॥
अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते = स्वादुङ्कारं भुङ्क्ते। सम्पन्नंकारं भुङ्क्ते। लवणंकारं भुङ्क्ते। उदरपूरं भुङ्क्ते।
एजन्तः - वक्षे रायः। ता वामेषे रथानाम्। क्रत्वे दक्षाय जीवसे। ज्योक् च सूर्यं दृशे। म्लेच्छितवै॥
काशिका-वृत्तिः
कृन्मेजन्तः १।१।३९
कृद् यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपम् अव्ययसंज्ञं भवति। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारं भुङ्क्ते। लवणङ्कारं भुङ्क्ते। एजन्तःवक्षे रायः। ता वामेषे रथानाम्। ऋत्वे दक्षाय जीवसे। ज्योक् च सूर्यं दृशे। वक्षे इति वचेः तुमर्थे सेसेनसे
३।४।९ इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेः असे प्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च
३।४।११ इति। अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत् आधये, चिकीर्षवे, कुम्भकारेभ्यः इति।
लघु-सिद्धान्त-कौमुदी
कृन्मेजन्तः ३७०, १।१।३८
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
न्यासः
कृन्मेजन्तः। , १।१।३८
"स्वादुङ्कारं भुङ्क्ते" इति। "स्वादुमि णमुल्"
३।४।२६। "स्वादुमि" इत्यत एव
निर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। "वक्षे" इति। "वच परिभाषणे" (धा।पा।१०६३), "ब्राउवो वचिः"
२।४।५६इति ब्राऊञादेशो वा। "चोः कुः"
८।२।३० इति कुत्वम्।
"अन्तग्रहणम्" इत्यादि। "औपदेशिकप्रतिपत्त्यर्थम्" इति। नित्ययोगे
बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिज्र्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन "येन विधिस्तदन्तस्य"
१।१।७१ इति सामथ्र्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। "आधये" इति। दधातेराङ्पूर्वात् "उपसर्गे घोः किः"
३।३।९२ इति किः, "आतो लोप इटि च"
६।४।३४ इत्याकारलोपः, चतुर्थ्येकवचने "घेर्ङिति"
७।३।१११ इति गुणः। "चिकीर्षदः" इति। करोतेः सन्, "अज्झनगमां सनि"
६।४।१६ इति दीर्घः; "सनाशंसभिक्ष उः"
३।२।१६८ इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। "कुम्भकारेभ्यः" इति। "कर्मण्यण्"
३।२।१ "उपपदमतिङ"
२।२।१९ इति समासः; "बहुवचने झल्येत्"
७।३।१०३ इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्येव
वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्राश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्रस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्॥
बाल-मनोरमा
कृन्मेजन्तः ४४३, १।१।३८
कृन्मेजन्तः। कृत्-मेजन्त इति छेदः। म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः। तदाह--कृद्योमान्त इति। तदन्तमिति। केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः। स्मारं स्मारमिति। "आभीक्ष्ण्ये णमुल्चे"ति स्मृधातोर्णमुल्, "अचो ञ्णिती ति वृद्धिः, रपरत्वम्, "नित्यवीप्सयो"रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम्। जीवसे इति। "तुमर्थे सेसेनसे" इत्यादिनाऽसेप्रत्ययः। पिबध्यै इति। "तुमर्थे से" इत्यादिना शध्यैप्रत्ययः। शित्त्वात्सार्वधातुकत्वम्। "पाघ्राध्मे"ति पिबादेश इति भावः। शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, "अव्ययकृतो भावे" इति सिद्धान्तादित्याहुः।
तत्त्व-बोधिनी
कृन्मेजन्तः ४००, १।१।३८
कृन्मेजन्तः। अत्र "मेजन्त"इत्येतच्छ()तत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य। अन्यथा "प्रतामौ" "प्रतामः"। लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ च "लौः"---अत्रापि प्रसज्यतेति भावः। भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह--कृद्यो मान्त एजन्त इति। स्मारं स्मारमिति। स्मरतेः"आभीक्ष्ण्ये णमुल्"। वृद्धिः। रपरत्वम्। "नित्यवूप्सयोः"इति द्वित्वम्। जीवसे इति। "तुमर्थे सेसेन्ित्यसेप्रत्ययः। पिबध्यै इति। "तुमर्थे" इत्यनेनैव "शध्यै"प्रत्ययः। "पाघ्रे"ति पिबादेशः। "येन विधिस्तदन्तस्ये"त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न---आधये। चिकीर्षवे। लक्षणप्रतिपदोक्त--संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम्। एतच्च "अव्ययादाप्सुप"इत्यत्राव्ययात्परस्य सुपो लु"गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम्। "अव्ययाद्विहिकस्ये"ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम्।