वृद्धिः स्यात्, गुणः स्यात्, इति गुण-वृद्धि-शब्दाभ्यां यत्र गुण-वृद्धी विधीयते, तत्र इकः इति षष्ट्यन्तं पदम् उपस्थितं द्रष्टव्यम् = तत्र इकः स्थाने भवतः इत्यर्थः।
परिभाषा इयं स्थानिनियमार्था। अनियमप्रसङ्गे नियमो विधीयते। वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ। वक्ष्यति सार्वधातुकार्धधातुकयोः
७।३।८४ अङ्गस्य गुण इति। स इको एव स्थाने विदितव्यः। नयति। भवति। वृद्धिः खल्वपि अकार्षीत्। अहार्षीत्। अचैषीत्। अनैषीत्। अलावीत्। अस्तावीत्। गुणवृद्धी स्वसंज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम्।
किं कृतं भवति? द्वितीयया षष्ठी प्रादुर्भाव्यते। मिदिमृजिपुगन्तलघौउपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते। जुसि सार्वधातुकाऽदिगुणेषु इकाङ्गं विशेष्यते। मेद्यते। अबिघयुः।
इकः इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत्। यानम्। ग्लायति। उम्भिता। पुनर् गुणवृद्धिग्रहणं स्वसंज्ञ्या विधाने नियमार्थम्। इह मा भूत् द्यौः, पन्थाः, सः, इमम् इति।
"परिभाषेयम्" इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। "स्थानिनियमार्था" इति। स्थानिनि नियमः
स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। "अनियमप्रसङ्गे नियमो विधीयते" इति। यत्र साक्षात् स्थानी न निर्दिष्टः
"सार्वधातुकार्धधातुकयोः"
७।३।८४, "सिचि वृद्धिः परस्मैपदेषु"
७।२।१ इत्यादौ,
तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति। अतः स एवस्या विषयो
वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- "ओर्गुणः"
६।४।१४६ "अत उपधायाः"
७।२।११६ इत्यादिः। तत्र ह्रनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-"इकः" इत्येका षष्ठी, "मिदेर्गुणः"
७।३।८२ इत्येवमादिका द्वितीया।
तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। "मिदेः"
इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठ()भावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। "सार्वधातुकार्धधातुकयोः"
७।३।८४ इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, "इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् "अलो।-
न्त्त्यस्य"
१।१।५१ इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः,
नेतरस्य। "स्वसञ्ज्ञया" इति। अत्र वक्ष्यमाणोऽभिप्रायः। "इक एव स्थाने" इति।
यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- "अकार्षीत्" इति। "डुकृञ् करण" (धा।पा। १४७२),लुङ, "च्लेः सिच्"
३।१।४४ सिचि वृद्धिः
७।२।१"अस्तिसिचोऽपृक्ते"
७।३।९६ इतीट्। एवम् "अहार्षीत्" इति। अत्र "ह्मञ् हरणे" (धा।८९९) इत्ययं विशेषः। "इक इति किम्" इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि "गुणवृद्धी"
इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्रते। "यानम्" इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः "अतो गुणे" (६।१।९७
पररूपत्वे कृते "यनम्" इत्यनिष्टं रूपं स्यात्। "ग्लायति" इति। "ग्लै म्लै
हर्षक्षये" (धा।पा।९०३।९०४), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। "उम्भिता"इति। "उभ उम्भ पूरणे" (धा।पा।१३१९,१३२०), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठ()स्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते "उभविता" इत्यनिष्टं रूपं स्यात्।
अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रे
स्वसञ्ज्ञाग्रहणमस्तीत्यत आह "पुनर्गुणवृद्धिग्रहणम्" इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- "यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा
स्यात्, अन्यत्र मा भूत्िति। पुनर्गुणवृद्धिग्रहणसामथ्र्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ-
र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकं
स्यादित्येवमभिप्रायः। "इह मा भूत्" इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- "द्यौः" इति। "दिव औत्"
७।१।८४ इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। "पन्थाः" इति। "पथिमध्यृभुक्षामात्"
७।१।८५ इत्याकारोऽन्त्यस्यैव भवति, नेकः। "इतोऽत्सर्वनामस्थाने"
७।१।८६ इतीकारस्य अकारः, "थोऽन्थः"
७।१।८७ इति थकारस्य न्थादेशः। "इयम्" इति। "त्यदादीनामः"
७।२।१०२ इत्यत्वमन्तर्सयैव भवति, नेकः। "दश्च"
७।२।१०९ इति दकारस्य मकारः। स
इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। "तदोः सः सावन-
न्त्ययोः"
७।२।१०६ इति सत्वम्, ननु च "अनश्च"
१।२।२८ इत्ययमपि स्थानिनियमः
स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा
हि वृत्तिकारस्तत्र वक्ष्यति "स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः" (का ३८) इति, ततश्च यदनेन नियमेनैवंविधेन कत्र्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेन()
सत्यमेतत्" किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्। तद्येवम्,
यत् येन विधातव्यं तदनेनैव
विहितमिति तत्र सञ्ज्ञाविधाने नियमो न कत्र्तव्यः? नैतदस्ति; यदि ह्रसावित्थम्भूतो नियमो न स्यात्, ततो "द्युभ्याम् द्युभिः" इत्यत्र "दिव उत्"
६।१।१२७ इत्युकारः
स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्रनेन नियमेनाचः
शक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्।