Click to see this page in various language scripts
Devanagari |
Roman |
Gujarati |
Tamil |
Telugu |
Punjabi |
Bengali |
Kannada |
Oriya |
Malayalam
||श्रीगीतरामायणस्य समवृत्तः संस्कृतानुवादः ||ः२>
मराठीभाषायाः कविश्रेष्ठैः
श्री. ग. दि. माडगूळकरमहोदयैः विरचितस्य
श्रीगीतरामायणस्य समवृत्तः संस्कृतानुवादः |
अनुवादकर्ता
प्रा. सीताराम भा. दातार
[ Original Marathi Lyrics
text at:
Scanned
http://www.aathavanitli-gani.com/
http://www.marathiworld.com/gani/geetramayan.htm
audio at:
http://www.gadima.com/category/3/0/0/geetramayan-sudhir-phadke
A PDF file of the Sanskrit Geeta Ramayana is prepared by Shri Sunder Hattangadi.
संस्कृत गीत- रामायणम् अनुक्रमणिका |
गीत गीतशीर्षकम्
क्रमाङ्क
- १ श्रूयते श्रीरामेण स्वयम्
- २ अयोध्या मनुरचितं नगरम्
- ३ किमेवं दलतीदं मानसम् ?
- ४ कुतोऽसि खिन्ना, संहर मुग्धे,
- ५ क्षितिपते, स्वीकुरु क्षीरमिदम्
- ६ रामोऽजनि भाग्यवशात्
- ७ श्यामरामचन्द्रो मेऽयम्
- ८ ज्येष्ठं ते हे नृपते देहि मे सुतम्
- ९ नाशय त्राटिकां राम, शीघ्रम् !
- १० एहि राम सत्वरम्
- ११ अद्य वै शापविमुक्ताऽभवम्
- १२ शृणुत स्वयंवराख्यानम्
- १३ शंसाम तोषं कथम्
- १४ मा लङ्घय वचनम्
- १५ राम, मा याहि वनं घोरम्
- १६ रामादपरः कुरुते कोऽत्र शासनम् ?
- १७ यत्र हि रामस्तत्र हि सीता
- १८ तिष्ठ सुमन्त्रक, स्थापय च रथम्
- १९ जय गङ्गे जय जह्नुसुते,
- २० रच्यतामत्र लक्ष्मण उटजम्
- २१ सोऽब्रवीदन्ते मामेवम्
- २२ दशदिशं तिमिरमयं जातम्
- २३ माता न वैरिणी त्वम्
- २४ प्रेषयस्व जानकीमाश्रयाय गह्वरम्
- २५ दैवजानि दुःखानीति न दोषो नराणाम्
- २६ देहि बन्धो, पादुके ते
- २७ कोऽसि रे युवराजः कथय मे
- २८ विरूपितेयं शूर्पणखा
- २९ आनीय देहि मे
- ३० माऽतिथे, तिष्ठ वृथा द्वारे
- ३१ क्व भवेत् सीता रामजीवितम् ?
- ३२ अनुज रे तदीयपदयुगमिदम्
- ३३ सोऽहरज्जानकीं नूनम्
- ३४ रघुपते, शबरी धन्याऽहम्
- ३५ सुग्रीव एकमित्रं रामस्य
- ३६ वालिवधो न च खलनाशोऽयम्
- ३७ स एको वीरः श्रीहनुमान्
- ३८ इयमसौ श्रीरामस्वामिनी
- ३९ रामकीर्तिरस्म्यहम्
- ४० मुद्रिका तदीया नूनमभिज्ञातेयम्
- ४१ हनुमता दग्धा लङ्केयम्
- ४२ सेतु रचयध्वं सागरे
- ४३ रघुपते, वदसि न किमपि कथम् ?
- ४४ सुग्रीव, सखे, साहसमेवम्
- ४५ गच्छाङ्गद रावणाय कथय सत्वरम्
- ४६ सङ्गरं रामरावणीयम्
- ४७ अद्य विपदि श्रीलङ्का सर्वदा स्थिता
- ४८ निष्फला बाणा अद्य कथम् ?
- ४९ हे सुराः, राघवलीलेयम्
- ५० लीनते, चारुते, सीते
- ५१ स्वामिनी सदा मे
- ५२ त्रिवारजयकारं राघव,
- ५३ यच्छतु वरमेकं प्रभुर्मे
- ५४ हे नाथ, दोहदं परिपूरय मे
- ५५ वद यामि लक्ष्मण,
- ५६ रामाख्यानं गायतमेवम्
श्री
छाया येन कृता ममोपरि मुदा स्थित्वा कठोरातपे
श्रुत्वा यस्य विशुद्धवेदपठनं बद्धा रुचिः संस्कृते |
स्मृत्वा यस्य कृपाश्रये विगमितं बाल्यं मनो मोदते
तस्मै सादरमर्पये कृतिमिमां मातामहायाद्य मे ||
नमो नमः संस्कृतानुरागिभ्यो रसिकवरेभ्यः |
महाराष्ट्रभाषासाहित्ये विख्यातस्य `ग. दि. माडगूळकर'
नाम्ना कविश्रेष्ठेन विरचितस्य `गीतरामायणस्य'
नाम भवद्भिः श्रुतं स्यादेव | एतदतीव मधुरं काव्यं
तदनुरूपेषु स्वरेषु निबद्धं `सुधीर फडके' - तथा
`बाबूजी' इति नाम्ना विश्रुतेन सङ्गीतदिग्दर्शकेन | १९५५ तमे
ख्रिस्ताब्दे सकलेऽपि संवत्सरे प्रतिसप्ताहस्य भृगुवासरे अस्य
काव्यस्यैकैकं गीतमाकाशवाण्याः पुणे- विभागेन प्रसारितम् |
अल्पावधावेव तत् काव्यं लोकप्रियतायाः शिखरमवाप |
भृगुवासरे श्रोतारः प्रातःसमये सर्वाणि गृहकर्माणि
समाप्य तस्य काव्यस्य श्रवणप्रतीक्षया नभोवाणीप्रक्षेपकस्य
पुरतस्तूष्णीमुपविशन्ति स्म | आकाशवाण्या प्रसारितेन केनाप्युपक्रमे-
णान्तरेणैतावत् यशः पूर्वं क्वचिदेव लब्धं स्यात् | `गानस्य
चरमोत्कर्षो गीतरामायणं सदा' इति `पाण्डुरङ्गशास्त्री
आठवले' महोदयैरुक्तमेव |
तत्पश्चात् `बाबूजी' महोदयैः समग्रदेशे पर्यटनं
कृत्वा नगरं नगरं गत्वा स्वगायनेन गीतरामायणं सामान्यजनान्
प्रति नीतम् | अतः सकलेऽपि भारतवर्षे गीतरामायणं प्रथितम् अभवत् |
अस्य काव्यस्य तथा च तस्य स्वरयोजनायाः प्रभावेण भारतवर्षे
विविधासु भाषासु काव्यस्यास्यानुवादाः गीयन्त् | किन्तु सर्वां
भारतीयभाषाणां जननीभूतायां गीर्वाणभाषायां समग्रस्य
गीतरामायणस्यानुवादो विद्यते न वेति न जाने | अत एव ममैष प्रयासः
संस्कृतानुवादे गीतरामायणस्य | अथ तत्रस्थानि गीतानि मूलस्वरयोजनयैव
गेयानि चेत्, तैः समवृत्तैरेव भाव्यम् इति स्पष्टम् |
तथापि मत्सदृशस्य संस्कृतभाषायाः न विशेषाभिज्ञस्य कृते तत्
कर्म नितरां दुष्करमासीत् | एवं स्थिते `केनायमव्यापारेषु
व्यापारस्ते आदिष्टः' इति कोऽपि पृच्छेत् | कामातुराणामिव
`काव्यातुराणामपि न भयं न लज्जा' इत्यपि कश्चिदन्यो वदेत् | तथापि
अनुवादप्रियतया अहमस्मै चापलाय प्रचोदितः इति तावत् सत्यम् | अतः
कृपयाऽनुवादमेतं रसिकाः न केवलं पठेयुरपि तु तत्तत्स्वरयोजनया
शृणुयुरिति मे प्रार्थना |
अन्यच्च, अनुवादः अनुवादः एव भवति | न स कदापि मूलग्रन्थस्य
योग्यतां प्राप्तुमर्हति | तथापि अनुवादस्य निकषान् प्रयुज्य
अनुवादस्यैतस्य साफल्यवैफल्यनिर्णये भवन्तः विचक्षणाः रसिकवराः एव
प्रमाणम् | अतः भवन्तः एतद्विषये आत्मनः अभिप्रायं प्रेषयन्तु इति विज्ञप्तिः |
अद्यायमनुवादः प्रकाशं गच्छति, स नैकानां हितचिन्तकानां
निरपेक्षसाहाय्यविशेषत्वादेव | प्रथमं तावत् निर्देशः कर्तव्यः
`हरिभाऊ वझे' महोदयस्य | अनेन बालमित्रेण मे अस्मिन् कार्ये न
केवलं रुचिः प्रदर्शिता, अपितु सर्वोऽपि तद्भारः स्वशिरसि गृहीतः |
अन्यो मम सुहृद् `सीताराम खांबेटे' महोदयः, यस्य
प्रोत्साहनं, सक्रियं साहाय्यं विना पुस्तकमिदं प्रकाशनार्थं सिद्धं
नाभविष्यत् | अपरोऽपि मम नूतनः सुहृद् वर्तते `अरुणकुमार मराठे'
महाशयः | संस्कृतभाषासाहित्यस्य मर्मज्ञेनानेन मम काव्यानुवादं
समग्रं निपुणं पठित्वा तत्रस्थगुणदोषाणां सूक्ष्मचिकित्साकृता,
तेनैवं मया केषांचिद्दोषाणां निराकरणाय प्रयत्नः कृतः |
सौ. सुधा, मम सहधर्मचारिणी, प्रारम्भादेव मह्यमेतत्कर्मणि
सातत्येन प्रोत्साहनं साहाय्यं च अददात् | अनुवादस्यैतस्य प्रसिद्धेः
प्रमुखं कारणं सैव विद्यते |
भूतपूर्वप्रधानमन्त्रिभिः माननीयैः अटलबिहारीजीमहोदयैः, डाॅ.
मुरलीमनोहरजोशीमहोदयैः तथा च प्राचार्य विनोदरावपाठकमहोदयैः
मम काव्यानुवादं साद्यन्तं पठित्वा विस्तरेण सह अभिप्रायान् प्रेष्य
अहं भृशमनुगृहीतः | सर्वानेतान् धन्यवादान् वितरामि |
डाॅ. पराडकरमहाशयास्तु मम साक्षात् गुरव एव | तेषामाशिषाः
सदैव मया प्रार्थ्यन्ते | तेऽपि सर्वदा मामुपकुर्वन्ति | अपरा च मम
हितैषिणी श्रीमति मृदुला प्रभुराम जोशी नाम | अनयैव संस्क्रितगीतरामायणस्य
प्रथमप्रकटसमारोहस्य `महाराष्ट्र टाइम्स' नामनि नियतकालिके
सविस्तरपरीक्षणं कृत्वा तस्मै प्रसिद्धिः प्रदत्ता | एतेषां सर्वेषामानृण्यं
गन्तुं न कदापि शक्ल्यम् |
महाराष्ट्रराज्यस्य भूतपूर्वः मुख्यमन्त्री मा. मनोहरजोशीमहोदयः
अपि संस्कृत- गीतरामायणस्य `सी. डी. ' कृते प्रस्तावनां लिखितवान् |
तथा च `सी. डी. ' निर्माणे सर्वश्री उह्ल्लास कुलकर्णी, सतिस्श पाध्ये,
मिलिन्द करमरकर, प्रमोद सोहोनी, महेश खनोलकर, महेन्द्र शेडगे,
सुभाष हडकर, तथा सौ. माधुरी करमरकर, सौ. नीला सोहोनी एतैः
सर्वैः अपि अहम् अनुगृहीतः | अस्तु |
यदि एष गीतानुवादः, तेन सह प्रकाशिता `सी. डी. ' च
संस्कृतानुरागिणां रसिकवराणां परितोषाय कल्पेतां, तर्हि तयोः प्रयोजनं
सफलीभवेदिति मन्ये |
मुम्बापुरी १७- ११- २००६ सी. भा. दातार .
BACK TO TOP
अथ संस्कृत गीत- रामायणम्
०१ श्रूयते श्रीरामेण स्वयम्
प्रभुणा श्रीरामचन्द्रेण आरब्धस्य अश्वमेधस्य अवलोकनार्थं
जनानां सागरः इव अयोध्यायां सम्प्राप्तः आसीत् |
तदानीं मुनिवेषं धारयन्तौ द्वौ कुमारौ यज्ञमण्डपं
प्रविष्टौ | तौ आस्तां महर्षेः वाल्मीकेः शिष्यौ - लवकुशौ |
श्रीरामचन्द्रम् उद्दिश्य तौ प्रार्थयताम् `आवां
रामचरितं गातुम् इच्छावः |' तयोः प्रार्थना
श्रीरामचन्द्रेण अनुज्ञाता | तथापि रामकथां गायन्तौ तौ
कुमारौ आत्मनः एव पुत्रौ इति स्वयं रामचन्द्रः न जानाति स्म |
निवेदकः :
श्रूयते श्रीरामेण स्वयम्
कुशलवरामायणगीतम् ||
उभौ कुमारावेकवयस्कौ
सजीवप्रतिमे रामस्यैतौ |
सुतौ गायतो जनकसुचरितम्
ज्योतिषा तेजोनीराजनम् ||१
राजसरूपौ तापसवेषौ
गन्धर्वौ ननु तपोवनस्थौ |
वाल्मीकिमनोजाता भावाः
मानुषं वाऽऽदधते रूपम् ||२
नन्वेतौ प्रतिभाऽऽम्रवनस्थौ
वसन्तविभवं गायतः पिकौ |
बालरवेणाऽऽलपतौ विरुतम्
गायतो मधुमासं मञ्जुलम् ||३
उन्मीलति सुममिवौष्ठयुगलम्
स्वरो गन्धवत् बिभर्ति भुवनम् |
लोलचञ्चलं कुण्डलयुगलम्
सङ्गतौ कलवीणाझङ्कृतम् ||४
सप्तसुराणां स्वर्लोकस्थाः
नवापगा ननु नवरसपूर्णाः |
यज्ञमण्डपे नन्ववतीर्णाः
सङ्गमे श्रोतॄणां गाहनम् ||५
पुरुषार्थाणां चतुर्णां फलम्
तत्र पश्यतः स्वजीवनपटम् |
प्रत्यक्षादपि शुचितरबिम्बम्
ईक्षणं नृपतेर्बाष्पाकुलम् ||६
सामवेदवत् बालगायनम्
क्रमेण सर्गोऽनुसरति सर्गम् |
सभास्थितस्त्रीमुनिसचिवानाम्
नयनजं वहति कपोले जलम् ||७
तदा राघवोविहायासनम्
दृढमुपजुगुहे निजं शैशवम् |
संयोगोऽयं जनकसुतानाम्
कोऽपि तं जानीते न परम् ||८
१
BACK TO TOP
०२ अयोध्या मनुरचितं नगरम्
श्रीरामस्य यज्ञमण्डपे सकलां शक्तिं कर्णसम्पुटे
समानीय श्रोतारः रामचरितगायनश्रवणाय समुत्सुकाः | स्वयं
प्रभुः रामचन्द्रः स्वर्णसिंहासनम् अधिष्ठाय स्वचरितं श्रोतुम्
उत्कण्ठितः | एवं स्थिते मुनिवेषधारिणौ कुशलवौ रामाख्यानं
प्रस्तुवीतः -
कुशलवौ -
सरयूतीरे स्थितम्
अयोध्या मनुरचितं नगरम् ||
विशालतायां पुरस्यास्थितम्
प्राकाराणां रुचिरसंकुलम्
समान्तरपथां विततं जालम्
प्रयान्ति पथिका रथगजतुरगास्तेन मण्डिता भृशम् ||१
सदने सदने रत्नतोरणम्
स्थाने स्थाने रम्यमुपवनम्
तत्र वर्तते नृत्यगायनम्
मृदङ्गवीणानित्यवादनम्, अलकानगरीसमम् ||२
स्त्रियः सुशीला नरा धार्मिकाः
सुताः सर्वथा निजकुलदीपाः
जना नादया न वा नास्तिकाः
गृहे पुरे वा क्वापि वाऽन्तरे नाऽतृप्तेर्दर्शनम् ||३
इक्ष्वाकूणां कीर्तिभूषणो
नृपो दशरथो धर्मपालको
वासवः पुरे नभसि शशाङ्को
रवी रणेऽसौ कुरुते बकवान् निजपुरसंरक्षणम् ||४
तस्य भूपतेस्तिस्रो भार्याः
सुवंशजाताः सुमुख्य आर्याः
पतिसेवायामखण्डनिरताः
बहुश्रुतास्ता रूपतेजसा शोभन्ते निर्भरम् ||५
तिसृणां स्त्रीणां प्रीतिसङ्गमे
त्रिलोकसौख्यं सदनं तनुते
न्यूनं त्वेकं गृहस्थाश्रमे
प्रणयाकाशे नोदयमयते तनयादित्यश्चिरम् ||६
शल्यमेकलं कौसल्यायाः
उदासीनता च सुमित्रायाः
ईश्वरसेवा कैकेय्यायाः
व्यथा दारुणा सैका सततं पीडयते दशरथम् ||७
राजसुखं ननु जनतासौख्यम्
असङ्ख्यमनसामेकचिन्तनम्
सुखेनामुना वसुना वा किम् ?
ऋतौ वसन्तेऽतीतेऽपि कथं कल्पतरोर्न च सुमम् ?||८
२
BACK TO TOP
०३ किमेवं दलतीदं मानसम् ?
`ऋतौ वसन्तेऽतीतेऽपि कथम् कल्पतरोर्न च सुमम् ?'
प्रजाः प्रजाः स्वाः इव पालयतः दशरथस्य गृहे तावत्
अपत्याभावः इति कोऽयं दैवदुर्विलासः | सर्वेषां अयोध्यावासिनां
मनसि एषः एव प्रश्नः पुनः पुनः समुत्तिष्ठति स्म | किं पुनः
दशरथस्य भार्याणां कथा ?कौसल्या तद्यपि बाह्यतः निर्विकारा
अदृश्यत, तथापि तस्याः मनसः का अवस्था ?सा आत्मगतं वदति - -
कौसल्या :
किमेवं दलतीदं मानसम् ?
वीक्ष्य मे लतिकायां सुमनसम् ||
मलिनमन्तरं पूर्वं न कदा
असूया न मे जातु सपत्न्या
अद्य किं न सहे लतिकाश्रियम् ?१
हृदय, किमेवं साहसमशुभम् ?
रोचते न ते हरिणीशावम्
वृथा किं बाष्पाकुलमीक्षणम् ?२
विलोक्य गोवत्सगतं भावम्
अनुभवसे किं मनसि मत्सरम् ?
आन्तरं कुप्यति मौनं कथम् ?३
भोजयते पक्षिणी शावकम्
दृश्यमिदं ते भवति दुःसहम्
किमेतत् दुर्गतमापतितम् ?४
किमर्थमेषा ह्यात्मवञ्चना ?
अपत्यं विना स्त्री न च पूर्णा
अवेतं जीवितसारं परम् ||५
शिलाऽपि सूते शिल्पमनुपमम्
हीनतरा किं शिलाया अहम्
मनो मे नूनं चिन्ताकुलम् ||६
वृद्धतरं किं नास्मत् गगनम् ?
तत्र जायते तारसहस्रम् !
निष्फलं नूनं मे जीवनम् ||७
३
BACK TO TOP
०४ कुतोऽसि खिन्ना, संहर मुग्धे,
`किमेवं दलतीदं मानसं वीक्ष्य मे लतिकायां सुमनसम् ?'
एवं यदा कौसल्या चिन्तिता आसीत् तदा दशरथः अन्तःपुरं प्रविश्य
अब्रवीत् - -
राजा दशरथः - -
कुतोऽसि खिन्ना, संहर मुग्धे, दयिते नयनजलम्
देवि, हे कौसल्ये, नूनम् ||
वसन्तागमे तरौ तरौ ननु दृष्टं नवपल्लवम्
आशाकुसुमं मनसि मदीये तथैव जातं नवम्
वाणी श्रवणे काचिदगुञ्जन्मम सखि निःशब्दम् ||१
तनुष्व तुरगाध्वरमिति वाणी साऽह तदा मां प्रिये
`विहरिष्यन्ते मुग्धा वेदाश्चत्वारस्ते गृहे'
चिन्तनमेतद् बोधयते मां ममैवमिति ज्ञातम् ||२
ततः सुमन्त्रं निमन्त्र्य सचिवं चाज्ञापितवानहम्
`वसिष्ठ- काश्यप- जाबाल्यादीनत्रानय सत्वरम्'
गुरवस्ते मामादेक्ष्यन्ते किमिष्टमाचरणम् ||३
समागतेभ्यो गुरुभ्यो मया कथितं मे मानसम्
मयैव तेषां कृतं समक्षं मनसो मे मन्थनम्
तदनु स्निग्धां नवनीतसमां कोऽप्यवदत् वाचम् ||४
`मनोरथास्ते सफला भाव्या' , आह मनोदैवतम्
`अद्य मुहूर्ते मोचय तुरगं, यातु स वै सत्वरम्'
`गुरुवचनं मे प्रमाण' मवदं युक्त्वा करयुगलम् ||५
आनयाम्यहं देशादङ्गादृष्यशृङ्गं स्वयम्
समापनीयं तेन सहेष्ट्या क्रतुरित्यपि योजितम्
मन्त्राणीदं पुनन्तु नगरं सधूमशुचिगन्धम् ||६
सरयूतीरे मखं प्रकुर्मो दद्मो दानं मुक्तकरम्
कुर्मश्चरमं प्रयत्नमेतं स्नानमन्ततश्चावभृथम्
दास्यति देवो हुताशनोऽसावनन्तमभिलषितम् ||७
४
BACK TO TOP
०५ क्षितिपते, स्वीकुरु क्षीरमिदम्
`दास्यति देवो हुताशनोऽसावनन्तमभिलषितम्'
इति अपेक्षया दशरथेन यज्ञीयः अश्वः विसृष्टः |
संवत्सरैकस्य पश्चात् सः प्रतिनिवृत्तः | राज्ञो दशरथस्य
प्रार्थनामनुसृत्य ऋष्यशृङ्गमुनिना यज्ञः समारब्धः |
तत्र अकस्मात् कोऽपि रक्तवर्णः महापुरुषः प्रादुर्भूतः |
घनगम्भीरेण अपि सौम्यस्वरेण सः राजानम् अवदत् -
यज्ञपुरुषः -
क्षितिपते, स्वीकुरु क्षीरमिदम्
उपस्थितिं मे तवाध्वरेऽस्मिन् मन्ये बहुमानम् ||
गतः समाप्तिं मखस्तेऽधुना
तृप्तिमागताः सर्वदेवताः
अतीव तुष्टस्त्वयि हे राजन्, श्रीविष्णुर्नूनम् ||१
आगतोऽस्म्यहं तदीयाज्ञया
प्रसादमेनं शुभं गृहीत्वा
दानस्यास्यैतस्माद्दानात्, नापरमुपमानम् ||२
गृहाण स्वकरे सुवर्णपात्रम्
पयो वितर देवीषु चान्तरम्
कामधेनुदुग्धादस्तीदं, क्षीरं बलदतरम् ||३
सेवन्ते ता यदा पायसम्
उदरे भविता वंशबीजनम्
जनिष्यते तासामुदरेभ्यो, वीरचतुष्कफलम् ||४
प्रसविष्यन्ते मानवरूपान्
तिस्रो देव्यो विष्णोरंशान्
धन्यस्त्वमहो लभसे राजन्, ईश्वरजनकत्वम् ||५
इमे कृतार्थे त्वदीयनयने
कृतार्थोऽप्यहं दर्शनेन ते
देहि नरपते, आज्ञामधुना गमनाय स्वपदम् ||६
५
BACK TO TOP
०६ रामोऽजनि भाग्यवशात्
`जनिष्यते तासामुदरेभ्यो वीरचतुष्कफलम्'
इति यज्ञपुरुषस्य भविष्यवचनं सत्यम् अभवत् | तेन
प्रदत्तस्य पायसस्य सेवनेन दशरथस्य तिस्रः अपि भार्याः गर्भम्
आदधत, यथाकलां च पुत्रचतुष्टयं प्रासुवत | कौसल्यायाः
श्रीरामः, सुमित्रायाः लक्ष्मणशत्रुघ्नौ, कैकेय्याः च भरतः
इति चत्वारः पुत्राः अजायन्त | दशरथस्य ईप्सितं परिपूर्णम् | प्रासादे
सुखस्य सीमा एव नावशिष्टा | नागरिकाणाम् आनदोऽपि पर्जन्यपरिपुष्टाः
नद्यः इव सकलसीमाम् उल्लङ्घ्य वर्धमानः आसीत् | रामादयः बालकाः
हस्तजानुचलनावस्थां प्राप्ताः | तथापि अयोध्यास्थिताः वनिताः
श्रीरामजन्मनः आनन्दगीतम् एव अद्यापि गायन्ति स्म -
अयोध्यावासिन्यः स्त्रियः -
शुद्धपक्षे चैत्रमासे तत्र नवमं दिनम्
गन्धितोऽपि पवन एष ऊष्ण इति कथम् ?
रविरचलो माध्याह्ने शिरसि कथमयम् ?
रामोऽजनि भाग्यवशात्, पश्य सखि सुखम् ||
कौसल्योन्मीलयते यावदक्षिणी
पुत्रदर्शनेन स्वयं विस्मिता जनी
कण्ठरोधनेनाजनि बाष्पमोचनम् ||१
उदितं नवसौख्यपर्व राजमन्दिरे
सुष्णुवुरथ विनदन्त्यो धेनवोऽङ्गणे
दुन्दुभिजो मत्तरवोऽपूर्यताम्बरम् ||२
आसुप्ता आतपेन श्रान्तकुड्मलाः
किमिति किमिति पृच्छन्तो भूय जागृताः
पवनस्तानुच्चरवेणाह सस्मितम् ||३
पौरजनं सुखवार्ता सा गता यदा
गेहेभ्यो राजपथं केऽपि धाविताः
आरब्धं ललनाभिर्गीतगायनम् ||४
पुष्पाञ्जलिमर्पयते कोऽपि भूषणम्
हास्यरवे प्रविलुप्तं शब्दभाषणम्
वाद्यानां तालोऽवर्धत तु सत्वरम् ||५
वीणाध्वनिरवलुप्तो नूपुरस्वने
सन्तप्ताः शृङ्गगलास्तदपि तत्र ते
सम्भ्रान्ता आम्रतरौ कोकिला भृशम् ||६
वीक्षन्ते चित्रमिदं दिग्गजाश्च ते
सञ्चरन्ति नववर्णा गगनमण्डले
मौक्तिकेन चूर्णेन नु व्याप्तमम्बरम् ||७
नृत्यगायने मग्ना सर्वथा पुरी
तालस्वरवर्णेषु च गाहते मही
शेषसहितमीषदचलदवनिमण्डलम् ||८
६
BACK TO TOP
०७ श्यामरामचन्द्रो मेऽयम्
`रामोऽजनि भाग्यवशात् पश्य सखि सुखम्'
एतस्मिन् आनन्दगायने एव अयोध्यानगरी निमग्ना आसीत् | श्रीरामः
प्रासादे दिनमनुदिनं वर्धते स्म | तस्य अस्पष्टशब्दोच्चारणं सर्वेषां
प्रमोदकरं भवति स्म | देवी कौसल्या भगिनीसमाः सपत्न्यः अवदत् -
कौसल्या -
श्यामरामचन्द्रो मेऽयं मदङ्के करोति स्नानम्
अष्टगन्धगन्धोपेतं विराजते नीलं कमलम् ||१
श्यामरामचन्द्रो मेऽयं करेण मेऽश्नाति ग्रासम्
प्रतीक्षते शुकवृन्दमिदं सेवनाय शेषं कवलम् ||२
श्यामरामचन्द्रो मेऽयं रत्नतल्पमधिशेतेऽयम्
विलीयते चन्द्रो गगने वीक्ष्य लज्जया नन्वेतम् ||३
श्यामरामचन्द्रो मेऽयं बन्धुभिः स रमते साकम्
शुभ्रहीरकाणां मध्ये द्योतते सुनीलं रत्नम् ||४
श्यामरामचन्द्रो मेऽयं बान्धवेषु कुरुते स्नेहम्
महाजन अपि शिक्षेयुः बालरामचन्द्राचरणम् ||५
श्यामरामचन्द्रो मेऽयं तस्य चैतदनुजत्रितयम्
भाग्यरूपश्लोकस्यैतत् ममाखण्डचरणचतुष्कम् ||६
श्यामरामचन्द्रो मेऽयं भाषते किमप्यस्पष्टम्
तेन संवदन्तश्च वयं शब्दमुच्चरामोऽस्पष्टम् ||७
श्यामरामचन्द्रो मेऽयं गृहं करोतीदं स्खलितम्
स्खलद्गिरा कुर्वन्तीमे वैदिकाः श्रुतीनां पठनम् ||८
श्यामरामचन्द्रो मेऽयं काङ्क्षते नभःस्थं चन्द्रम्
क्रीडता निशायाममुना प्रजागर्ति सकलं भुवनम् ||९
श्यामरामचन्द्रो मेऽयं युवाऽचिराद्भविता नूनम्
तदा वरुणदेवः करुणां प्रवर्षिष्यतीह यथेष्टम् ||१०
७
BACK TO TOP
०८ ज्येष्ठं ते हे नृपते देहि मे सुतम्
`श्यामरामचन्द्रोऽयम्' दिनेषु गच्छत्सु शनैः शनैः
वर्धमानः श्रीरामः बालवयः प्राप्तः | तेन धनुर्वेदेन सह
धर्मग्रन्थाः अपि पठिताः | तेन सह तस्य भ्रातरः अपि
सकलविद्यानिपुणाः अजायन्त | क्रमेण ते राजसभामपि संनिधातुं आरभन्त |
एकदा दशरथः सपुत्रः राजसभायाम् आस्थितः आसीत् | तदा अकस्मात्
महर्षिः विश्वामित्रः तत्र समायातः | राजा दशरथः तस्य स्वागतं
व्याजहार अवदच्च, `हे मुनिश्रेष्ठ, अपि अस्ति किंचित् यद् भवतां
कृते अहं कर्तुं शक्नोमि ?' नृपवचनेन आश्वासितः
विश्वामित्रः प्राह -
विश्वामित्रः :
ज्येष्ठं ते हे नृपते देहि मे सुतम्
एक एष कर्तुमलं यज्ञरक्षणम् ||
मायावी कुरुते मां,
दैत्यगणोऽमितपीडाम्
मखमनेकशो विधाय, न तु समापनम् ||१
शापमहं दद्मि कथं,
दीक्षितः क्षमी नित्यम्
तत् त्यजामि मखभङ्गे, सर्वथा स्थलम् ||२
यज्ञे पुनरारब्धे,
पीडयन्ति पुनरपि ते
कुण्डदीपनेऽभियान्ति यज्ञमण्डपम् ||३
असुरास्ते वेद्यामपि
मांसशोणितं क्षिपन्ति
नृत्यन्ति च मन्त्रपठणभञ्जने सुखम् ||४
बालवीररामस्तान्
प्रखरतया दण्डयताम्
बालोऽपि स तस्य सत्त्वमनुपमं परम् ||५
शङ्का ते भवति कथम् ?
नृपशरणं याचेऽहम्
शब्दं ते पालयतः सम्भ्रमः कथम् ?६
प्राणाधिकमभिवचनं
रघुवंशे धर्मोऽयम्
पश्य सर्वथा सिद्धो राघवः स्वयम् ||७
कौसल्ये किं शोचसि ?
वीरजनी किं बिभेति ?
रणरते सुते धन्यं किं न कुलयुगम् ?८
मारीचोऽसौ सुबाहु-
रुग्रबाहुदैत्यचमूः
त्यक्ष्यति स्वयं शस्त्रं वीक्ष्य राघवम् ||९
श्रीराम, त्वं प्रसीद,
चापबाणमपि गृहाण
अन्वेतु स इच्छति चेत्, त्वदनुजः सुखम् ||१०
८
BACK TO TOP
०९ नाशय त्राटिकां राम, शीघ्रम् !
`ज्येष्ठं ते हे नृपते देहि मे सुतम्'
इति विश्वामित्रमहर्षेः प्रार्थनाम् अवधीरयितुं न शशाक राजा
दशरथः | निषङ्गपृष्ठौ चापहस्तौ रामलक्ष्मणौ विश्वामित्रेण
सह प्रयाणाय सिद्धौ | कर्तव्यपरिपालनस्य गरीयस्त्वम् अवधार्य मातुःश्री
कौसल्या पुत्रवात्सल्यं निगृह्य पुत्राभ्यां `विजयिनौ भवतम्' इति
आशिषः ददौ | महाराजः दशरथः तयोः मस्तकयोः अवघ्राणं चकार |
ततः रामलक्ष्मणौ प्रथमपराक्रमार्थं महर्षिणा विश्वामित्रेण
सह राजप्रासादात् प्रस्थितौ | यात्रायां भगवान् विश्वामित्रः ताभ्यां
विविधाः कथाः अकथयत्, विविधाः शस्त्रार्थविद्याः अशिक्षयत् च |
एवं ते त्रयः अपि यावत् मलद- करुष- देशस्य परिसरं
प्राप्ताः तावत् सहसा अशनिपातस्य इव दारुणः शब्दः तैः श्रुतः |
काचन महाकरालदर्शना राक्षसी तेषां मार्गम् अवरुध्य स्थिता आसीत् |
तदा प्रक्षुब्धः महर्षिः विश्वामित्रः श्रीरामम् आज्ञापयत् -
विश्वामित्रः -
युङ्क्ष्व रे कार्मुकं, मुञ्च रे सायकम्
नाशय त्राटिकां राम, शीघ्रम् !
दुष्टमायाविनी शापिता यक्षिणी
वर्तने, दर्शने कुत्सितेयम् ||१
वीक्ष्य तप्तं तथाऽऽरक्तनेत्रद्वयम्
वीरुधो जज्वलुर्दग्धमपि काननम्
अतुलबलगर्विता साकृतिः क्रूरता
जनयते खलु घृणां क्रूररूपम् ||२
पश्य दंष्ट्रारदान् शृणु च हासं तथा
मृतमहाहस्तिनाऽऽपूरिता ननु गुहा
मृत्युछाया यथाऽऽक्रमति सा नस्तथा
कर्ष चापस्य ज्यां छिन्द्धि तन्द्राम् ||३
तिष्ठसीत्थं कुतो ?मुञ्च सद्यः शरम्
मृत्युरस्यास्त्वमेतदपि जानाम्यहम्
जनहिते स्त्रीवधो मर्षणीयः स्मृतो
बोधये त्वामहं धर्मतत्त्वम् ||४
दैत्यकन्या पुरा ग्रसितुमैच्छद् धराम्
अवधदिन्द्रश्च तामासुरीं मन्थराम्
विष्णुना धर्मिणा शुक्रमाता हता
लुब्धका भवति सिंहस्य भक्ष्यम् ||५
धाविता डाकिनी प्रकुपिता निर्भरम्
प्रहिणु नरकं च तां सद्य एतत्क्षणम्
सुरगणोऽपेक्षते विक्रमं राम ते
शौर्यचन्द्रोऽयतां पौर्णिमात्वम् ||६
९
BACK TO TOP
१० एहि राम सत्वरम्
`नाशय त्राटिकां राम शीघ्रम् |'
इति आदेशम् अनुसृत्य श्रीरामः ताटिकायाः वधं कृतवान् |
तदा देवगन्धर्वाः गगनात् पुष्पवृष्टिं चक्रुः | रामलक्ष्मणाभ्यां
सह विश्वामित्रः सिद्धाश्रमं नाम आत्मनः तपोवनं प्राप्नोत् यज्ञं
च आरभत | यज्ञे तस्मिन् विघ्नं कुर्वाणं मारीचं श्रीरामः मानवास्त्रं
विसृज्य महासागरे प्रचिक्षेप, आग्नेयास्त्रेण सुबाहुम् अपि
जघान | एवं विश्वामित्रमुनेः यज्ञः यथाविधि पूर्णतां गतः |
तदानीमेव मिथिलाधिपतिना जनकेन अपि महायज्ञः आयोजितः आसीत् |
तस्मिन् यज्ञे उपस्थातुकामाः आश्रमस्थाः सर्वे अपि ऋषयः रामलक्ष्मणौ
आत्मना सह मिथिलानगरीं गन्तुं विज्ञापयामासुः -
कश्चिद् आश्रमवासी -
एहि राम सत्वरम्
ग्रहीतुं मिथिलाया दर्शनम् ||
मिथिलाया अपि द्रष्टव्यतरः
राजर्षिरसौ जनकनृपालः
येन कल्पितं नगरेऽपूर्वं, यज्ञोपक्रमणम् ||१
तत्र सुनाभं नाम कार्मुकम्
यज्ञमण्डपे प्रतिष्ठापितम्
त्र्यम्बकदेवो यच्च गृहीत्वा, जघान त्रिपुरासुरम् ||२
निधाय भवने तच्छिवचापम्
पूजयते तज्जनकोऽनुदिनम्
विशालधनुषा तेन समानं, जगति न चापान्तरम् ||३
देशदेशतो नृपा आगताः
वीक्ष्य धनुष्यं स्तिमिता जाताः
दृष्ट्वा तस्योद्धरणे तेषां, बलवत्संप्रेरणम् ||४
देवा दैत्या नराः किन्नराः
उद्धर्तुमदो न लवं शक्ताः
चापस्य तु तत् परमदृढत्वं, नैवानमितं लवम् ||५
तनिष्यते को विकृष्य वेदम्
करिष्यते तद् धनुराधिज्यम् ?
असौ न जातो मोक्तुं प्रभवेत्, तस्माद्यो वा शरम् ||६
उभौ धन्विनौ जन्मना युवाम्
धनुरीक्षेथां निजनयनाभ्याम्
पश्य राघव, स्वयं स्वबन्धोरौत्सुक्यं कीदृशम् ||७
प्रस्थिताश्च मुनयः सोत्साहम्
संगच्छेथामेतैः सार्धम्
यदि प्रवासो भवेद् युवाभ्यां, भाग्यतरोस्तत्फलम् ||८
१०
BACK TO TOP
११ अद्य वै शापविमुक्ताऽभवम्
`एहि राम सत्वरं, ग्रहीतुं मिथिलाया दर्शनम् |'
एतम् आग्रहम् उपेक्षितुं न शशाक श्रीरामः |
मुनिजनैः सार्धं सः सलक्ष्मणः मिथिलां गन्तुं प्रस्थितः |
मार्गे महर्षिः विश्वामित्रः ताभ्यां विविधाः कथाः अश्रावयत् |
एवमध्वानमाक्रमन्तः ते कमपि जीर्णं विविक्तम् आश्रमं प्राप्ताः |
`किमर्थम् अयम् आश्रमः विविक्तः ?' इति रामेण पृष्टे
सति विश्वामित्रः तस्मै अहल्यावृत्तान्तं निवेद्य स्वचरणस्पर्शेण
अहिल्यायाः उद्धारं कर्तुम् आज्ञापयामास |
शिलावत् पतितायाः अहल्यायाः देहात् श्रीरामस्य
चरणस्पर्शेणप्रकाशकिरणाः इव स्फुरिताः मधुरस्वराः च श्रुताः |
अहल्या -
राम, ते चरणस्पर्शादहम्
अद्य वै शापविमुक्ताऽभवम् ||
त्वया निर्मितं करुणाशिल्पम्
पुनरपि प्राप्तं मया वपुरिदम्
बन्धविमुक्ताश्चुम्बन्तीमे श्वासास्ते पदयुगम् ||१
पुनर्नयनयोर्लब्धा दृष्टिः
पश्यामि त्वां, त्वयि सृष्टिमपि
कपोलयोर्मे शीतोष्णानामश्रूणां सिञ्चनम् ||२
श्रवणचेतना पुनरपि जाता
उक्तिरमूल्या मनसाऽवगता
`जागृहि वत्से' केनचिदुतं वचनं करुणामयम् ||३
पुलकितमेतद् भुग्नशरीरम्
जाने पदयोस्तव संस्पर्शम्
कुङ्कुमरजसा पदयोस्ते मे भालं ननु रञ्जितम् ||४
मौने जातं पुनरपि वचनम्
पतितपावनो राम, ननु त्वम्
तवैव कृपया चाद्य सञ्चितं सुधया हालाहलम् ||५
पतितपावनो रघुराजस्त्वम्
करवाणि तु ते कथं पूजनम्
अर्पितमेतत् पदे त्वदीये सर्वं नवजीवनम् ||६
११
BACK TO TOP
१२ शृणुत स्वयंवराख्यानम्
`अद्य वै शापविमुक्ताऽभवम् | . | '
एतैः वचनैः अहल्या कृतज्ञताभावम् अदर्शयत् |
अथ गौतमाश्रमे कंचित्कालं विश्रम्य सर्वे मुनयः रामलक्ष्मणाभ्यां
सह मार्गस्थाः अभवन् | मिथिलानगरीम् आगताः ते सर्वे राजर्षिणा जनकेन
यथाविधि सत्कृताः | रामलक्ष्मणौ दशरथनन्दनौ इति श्रुत्वा जनकः
भृशं मुदितः | `एतौ राजकुमारौ तव विशालं शिवचापं द्रष्टुमुत्सुकौ'
इत्यपि विश्वामित्रः जनकमहाराजाय अकथयत् |
अन्येद्युः समस्तजनसमक्षं मिथिलाधिपतिः जनकः तत् महाचापं
मल्लैः राजसभाम् आनाययत् | रामलक्ष्मणौ तद् रुद्रचापं प्रणतवन्तौ |
पश्चाद् सर्वेषु नृपान्तरेषु धनुरुद्धरणे असमर्थतां गतेषु, राजर्षौ
जनके च चिन्ताकुले जाते, श्रीरामः धनुरुद्धरणाय जनकमहाराजस्य
अनुज्ञां प्रार्थयत | `अवश्यम्' इति तेन अनुज्ञाते श्रीरामः तद् धनुः लीलया उद्धृतवान्, तस्मिन् च प्रत्यञ्चाम् आरोपयितुं यावत् सः प्रायतत,
तावत् अशनिपातस्य इव महास्वनं कृत्वा तत् धनुः द्विधा भिन्नम् |
तत् अद्भुतं चेष्टितं दृष्ट्वा जनकः नितरां विस्मितः, तस्मादपि अधिकं
हर्षितः | अचिरादेव सः रामेण सह वीर्यशुल्कायाः सीतायाः विवाहस्य
प्रस्तावं विश्वामित्रस्य पुरतः अस्थापयत् | विश्वामित्रेण अपि सः प्रस्तावः स्वीकृतः | यथाकालं श्रीरामः सीतया सह विवाहेन बद्धः |
सीतायाः भगिनीनां - उर्मिला - माण्डवी - श्रुतकीर्तीनां - विवाहाः अनुक्रमेण
श्रीरामस्य बन्धुभिः - लक्ष्मण - भरत - शत्रुघ्नैः - सह संपन्नाः |
सः ननु महान् अवर्णनीयः समारोहः संजातः | प्रथमपराक्रमार्थं
प्रासादात् निष्क्रान्तौ रामलक्ष्मणौ स्ववधूभ्यां सह अयोध्यां
प्रतिनिवृत्तौ | तेषां गमनस्य पश्चादपि सुचिरं मिथिलायां बन्दिनः
सीतास्वयंवराख्यानं गायन्ति स्म -
भाटचारणाः -
आकाशेनाऽऽबद्धा नूनं धरणीजननीयम्
शृणुत स्वयंवराख्यानं सीतास्वयंवराख्यानम् ||
श्रीरामेणोद्धृतं लीलया रौद्रं शिवचापम्
मिथिलाधिपतेर्मनोवाञ्छितं तेन सुपरिपूर्णम्
कन्याभाग्यं स्थितं श्यामलं तस्याग्रे मूर्तम् ||१
मुग्धा सीताऽऽरान्निरीक्षते रामं चापधरम्
समानीय लोचनयोर्यावत् सर्वं निजसत्त्वम्
कपोलयुगले विकसति लज्जाप्रसूनमारक्तम् ||२
उन्नमय्य पक्ष्मणी वीक्षते यावत् सा मुग्धा
तडित्स्तनितवत् भीषणनादस्तदा श्रुतः सहसा
श्रीरामेण द्विधा भञ्जितं रौद्रं शिवचापम् ||३
तिमिरान्धास्ते सर्वे भूपा मूढा इव जाताः
स्फुटं हसन्ती मनसि लज्जिता भूमिसुता सीता
सचिन्तनयने जनकस्य गते तत्क्षणमानन्दम् ||४
जगाद जनको विश्वामित्रं तं सनमस्कारम्
दशरथपुत्राय मे चार्पये दुहितरमद्याहम्
तृप्तसीतया निमीलिते निजनयने सानन्दम् ||५
जनकाज्ञामनुसृत्य जानकी ह्युदतिष्ठन्मन्दम्
गतिश्चञ्चला चञ्चलमधिकं माल्यं हस्तगतम्
गौरौ चरणौ तदा तदीयौ प्राप्तौ सौख्यपदम् ||६
आरक्तोषःप्रभा व्याप्नुते यथा नभो नीलम्
तथा व्याप्नुते रामशरीरं नूपुररवतालम्
सभामण्डपे जातं मायाब्रह्मणोश्च मिलनम् ||७
मालां नतरामस्य जानकी न्यवेशयत् कण्ठे
तदाऽभ्यनन्दन् सुरा उभौ तौ करतालर्गगने
घोषोऽसौ मङ्गलवाद्यानां प्राप्तस्तच्छ्रवणम् ||८
राम ईश्वरांशो धराया दुहिता सा सीता
गन्धर्वैरपि सुस्वरेण सा जयगाथा गीता
आकाशेनाऽऽबद्धा धरणीजननीयं चैवम् ||९
१२
BACK TO TOP
१३ शंसाम तोषं कथम्
स्वयंवरस्य पश्चात् कैलासशृङ्गे इवे धवलोत्तुङ्गे राजप्रासादे
श्रीरामः गृहस्थाश्रमसुखम् अश्नुते स्म | श्रीरामः सुस्वरूपः,
महाविक्रान्तः, धीरोदात्तः, तथा च ज्ञानवानपि विनम्रः
आसीत् | अतः सः प्रजासु नितरां प्रियः जातः | एतद् विलोक्य
वृद्धः दशरथः `श्रीरामे राज्याभिषेकं कृत्वा
विश्रान्तिसुखं लभेय' इति मनसि कृतवान् | सः
स्वसंकल्पं गुरुभ्यः, सचिवेभ्यः तथा च स्वभार्याभ्यः
कथयामास | सर्वेऽपि ते संकल्पम् एनं सानन्दं अन्वमोदन्त |
प्रजाजनाः अपि हर्षनिर्भराः संजाताः | तदा राजा दशरथः
उद्घोषयामास - `चैत्रमासे पुष्यनक्षत्रे श्रीरामः
सिंहासनम् आरोक्ष्यति' इति | तदा उर्मिलादयः भगिन्यः
सीतायाः मन्दिरं गत्वा समोदविनोदं तामुचुः -
उर्मिला, माण्डवी, श्रुतकीर्तिश्च -
शंसाम तोषं नाम सखि ते, शंसाम तोषं कथम्
सीतानाथो भूषयिता श्वोऽयोध्यासिंहासनम् ||
रामे सिंहासनाधिष्ठिते
उपसीदसि वामाङ्गे सीते
मनाग् गर्विते, मनाग् लज्जिते
राजभूषणं भूषयते ते रूपं ननु शोभनम् ||१
गुरवो, मुनयः समेत्य निकटम्
सप्तनदीनां सेक्ष्यन्ति जलम्
उभयवंशयोस्तद् धन्यत्वम्
दुन्दुभिनादस्तदा श्रोष्यते घनगम्भीरोऽनिशम् ||२
जने मान्यता भर्तृसमाना
राज्ञीपदवीं प्राप्नोषि यदा
अपुत्राऽपि त्वं भवसि सुमाता
प्रजाजनानां मातृपदं ते स्वीकरणीयं परम् ||३
तवैवाङ्किता भविता धरणी
कन्या भविता मातृस्वामिनी
केन सेविता सम्पदीदृशी
भविता फलदलकुसुममण्डिता भूमाता सन्ततम् ||४
पतितोद्धारकरामेण समम्
पतितपावने हे सीते त्वम्
भुङ्क्ष्व धरायां स्वर्गीयसुखम्
व्याप्नोतु च ते यशःप्रभा सा धवला भुवनत्रयम् ||५
त्वमेव देवी, सेविका वयम्
त्वदीयचरणे लीनाः सततम्
यथेच्छमधुना देह्यादेशम्
त्वदीयचरणे मतिरस्माकं भवतु नता सन्ततम् ||६
न च परिहासस्त्वियमेवेच्छा
सुदैवस्य ते भवतु न कक्षा
तवेशकृपया भवतु सुरक्षा
भवतु कदा न च दृष्ट्याऽस्माकं भाग्यं ते बाधितम् ||७
शृणु सखि परिचितपदरवमेतम्
छाययाऽपि तनुसौष्ठवमुक्तम्
दर्शनाय ते रामागमनम्
अतः सलज्जं प्रियसखि नूनं कच्चित् ते वीक्षणम् ?८
१३
BACK TO TOP
१४ मा लङ्घय वचनम्
`सीतानाथो भूषयिता श्वोऽयोध्यासिंहासनम्'
एनया वार्तया प्रासादेन सह नगरमपि प्रहृष्टम् | प्रजाजनाः
आनन्दोत्सवे निमग्नाः | कौसल्या इव सुमित्रा, तथा कैकेयी अपि मुदान्विते जाते |
तथापि मन्थरा नाम काचित् कुब्जा दासी कैकेय्यायः मनः कलुषितं
कुर्वती प्राह, `यतः राजा दशरथः भरते मातुलगृहे दूरे गते
सति रामे राज्याभिषेकं कुरुते, ततः तस्य मनसि किमपि कैतवं विद्यते |
वस्तुतः भरतः राज्ये प्रतिष्ठापयितव्यः, श्रीरामश्च अपसारयितव्यः |'
प्रथमं कैकेयी ताम् अहसत् अनिन्दच्च | तथापि शनैः शनैः
मन्थराकल्पितं विषं तस्याः बुद्धौ आरूढम् | मन्थरायाः
मन्त्रितेन तस्याः मनसि असूया समुत्पन्ना | सा सक्रोधं दशरथम्
उपालभमाना व्याहरत्,
कैकेयी
मा लङ्घय वचनं प्रभो मे, मा लङ्घय वचनम्
वितर नाथ मे भरते राज्यं, रामे वनवासम् ||
नापेक्षे तव दयासान्त्वनम्
आदौ पालय स्वदत्तशब्दम्
मातुलगेहात् प्रत्यानय मे भरतमिह त्वरितम् ||१
सुतरागादिव भ्रष्टमतिस्त्वम्
कुरुषे कस्मात् वद विक्षेपम्
शोभतेऽथ किं वचनविघातो रघुवीरस्यैवम् ?२
शम्बरेण ते जातं घोरम्
दण्डके वने रणमिन्द्रार्थम्
केन प्रयुक्तस्तदा रथे ते हस्ताक्षस्त्वरितम् ?३
सङ्गरे तदा लब्ध्वा विजयम्
अपि स्मरसि वा त्वया किमुक्तम् ?
प्रिये प्रदत्तं वरद्वयं ते, कथय किमभिलषितम् ?४
वनितोचितचातुर्येणाहम्
अरक्षमद्यापि च तद्वचनम्
अद्य तु याचे वरद्वयमहं दृष्ट्वोचितसमयम् ||५
यच्छ वराभ्यामधुना मह्यम्
सिंहासनमेतद् भरतार्थम्
चतुर्दशाब्दं विजने वासं रामाय च तूर्णम् ||६
पक्षपाति तव प्रेमैवेदम्
अस्मिन् न सहे त्वधिकं वोनम्
उदारवचसा वरौ प्रदत्तावथ किं निःश्वसितम् ?७
प्रासादान्निष्कासय रामम्
उल्लङ्घय वा रघुकुलधर्मम्
लभस्वाथ वा यशः पालयन्नात्मोदितवचनम् ||८
मूर्च्छाऽसत्या बाष्पमलीकम्
सम्पदि सक्तो रामो नूनम्
तदाराधनं केवलमेकं प्रबलं ते व्यसनम् ||९
सीदतु गगनं, दलतु धरा वा
वारं वारं कुतोऽभ्यर्थना ?
वरपरिपूर्तिं विना न चरमं निःश्वसिमि श्वासम् ||१०
१४
BACK TO TOP
१५ राम, मा याहि वनं घोरम्
`मा लङ्घय वचनं प्रभो मे'
इति कठोरैः शब्दैः कैकेयी वारं वारं दशरथस्य मस्तके
वज्रप्रहारान् इव अकरोत् | परमां करुणावस्थां प्राप्तः सः तां
प्रार्थयत, तस्याः दयाम् अयाचत, तस्याः पुरतः साष्टाङ्ग-
प्रणिपातम् अकरोत्, तथापि तस्याः दुराग्रहः लवमपि न क्षीणः |
किंकर्तव्यमूढः सः तूष्णीं स्थितः | तदानीं मन्दिरद्वारमागतं
सुमन्त्रं कैकेयी आज्ञापयामास, `रामचन्द्रम् इह आनय |'
अभिषेकम् अपेक्षमाणं श्रीरामं गृहीत्वा सुमन्त्रः कैकेयीमन्दिरं
प्राप्तः | तत्र म्लानवदनम्, अधोमुखम्, मूकीभूतं च राजानं
वीक्ष्य रामः चकितचिन्तितः जातः | कटाक्षेण एव सः कैकेयीं
तत्कारणं पृष्टवान् | सा सर्वं वृत्तान्तं तस्मै न्यवेदयत्
अवदच्च, `सः स्वमुखेन त्वाम् आख्यातुं न धृष्णोति | तथापि
अयोध्यायाः राज्यं भरतेन लब्धव्यं, त्वया च चतुर्दश वर्षाणि
वने वस्तव्यम् इति स इच्छति |' राजा दशरथः तु स्वयं किमपि
वक्तुं न शशाक | तदा तस्य मौनम् एव तस्य संमतिः इति विमृश्य
रामः अविलम्बेनवनगमनाय सिद्धः | वृत्तान्तमेतं जनन्यै निवेदयितुं
सः कौसल्याः मन्दिरं प्राप्तः |
धवलवेषं परिधाय कौसल्या अग्नये आहुतिम् अर्पयन्ती शुद्धासने
उपविष्टा आसीत् | श्रीरामम् आगतं विलोक्य प्रमुदिता सा तस्मै आसनम्
अददात् | तथापि रामः न केवलं आसनं न जग्राह, प्रत्युत
`पित्राज्ञाम् अनुसृत्य अहं वनवासाय प्रस्थितः' इति
सः तस्यै अकथयत् | कौसल्या हतबुद्धा इव जाता |कैकेय्याः दुराग्रहः,
दशरथस्य वरप्रदानम्, रामस्य च कर्तव्यपालननिग्रहः
एतत् किमपि बोद्धुं सा न शशाक | श्रीरामं दृढम् आलिङ्ग्य
सा आर्तस्वरेण आह -
कौसल्या -
उल्लङ्घ्येमं जननीस्नेहं देहल्या सहितम्
राम, मा याहि वनं घोरम् ||
व्रतैरगणितैः सुत जातस्त्वम्
सुखमददाः किं दुःखायैवम् ?
कण्ठगता मे प्राणास्तनुरप्याक्रन्दति करुणम् ||१
मूढसपत्नी कैकेयी सा
अबला सा नन्वहमिव माता
आदेक्ष्यति किं वनगमनार्थं निजपुत्रं भरतम् ?२
तृप्यतु कामं तदक्षियुगलम्
भुनक्तु भरतो सुखेन राज्यम्
प्रहिणोति त्वां कुतो वैरिणी वृथैव कान्तारम् ?३
अधुना कथये यदनिर्वाच्यम्
असौ प्रियतरा तस्य मदधिकम्
कस्मायपि नाद्यावधि कथितं मूकमिदं दुःखम् ||४
तदीयनयनानलप्रदीप्तम्
कथंचिदायुर्मया यापितम्
आस्थितमासीत् शासने तु ते तस्यान्ते शमनम् ||५
उपदिशामि ते कथं त्वधर्मम् ?
तोषयस्व ते जनकमवश्यम्
लभस्व तावत्तस्यानुमतिं नेतुं मां विपिनम् ||६
कथं ध्रिये सुत, त्वया विनाऽहम् ?
कथं सहे तव राघव विरहम् ?
जमदग्निसमस्तातस्ते किं मम नादिशति वधम् ?७
करेण तव मे प्रयच्छ मरणम्
वृणीष्व राज्यं वा वनवासम्
अदेहा तदा त्वदनुगामिनी विचरिष्याम्यनिशम् ||८
१५
BACK TO TOP
१६ रामादपरः कुरुते कोऽत्र शासनम् ?
`राम मा याहि वनं घोरम्'
इति कौसल्यया वारं वारं विविधं विज्ञप्तोऽपि श्रीरामः
स्वनिश्चयात् न विरराम | प्रत्युत सः ताम् एव विज्ञापयामास,
`अम्ब, मम वनवासगमनस्य आघातेन महाराजः दशरथः
आदौ एव नितरां शोकमग्नः | एवं स्थिते तवापि मया सह
अरण्यगमनम् उचितं न मन्ये |' एषा रामस्य प्रार्थना
कौसल्यायाः कृते अनुल्लङ्घनीया अभवत् | तथापि किमपि
अनुक्त्वैव एतत् सर्वं प्रेक्षमाणः लक्ष्मणः तद् असहमानः
सक्रोधमाह -
लक्ष्मणः -
रामादपरः कुरुते कोऽत्र शासनम् ?
खड्गकरः प्रेक्षेऽहं तन्ननु स्वयम् ||
प्रभुरपि हे राम कथं मोहजालपतितस्त्वम् ?
कथये ते पापमहं पापिनां स्फुटम् ||१
नैव वरं, न च वचनं, कैकेयीच्छति राज्यम्
विषयान्धो मनुते तां भूपतिः परम् ||२
सुतघातं वाञ्छन्तौ कीदृशौ नु तौ पितरौ
वचनमसौ दत्तं ते लङ्घते कथम् ?||३
विषयसुखासक्तोऽयं लङ्घयते निजवचनम्
सर्वथा तु पालयते स्त्रीदुराग्रहम् ||४
कैकेयीदत्तवरौ कथमेतावद्य स्मृतौ ?
अद्यावधि नैष तथा वाऽऽब्रवीत् कथम् ?५
मत्तमतङ्गजवत्ते दैवमिहाभिक्रमते
विदधेऽहं तस्य राम, रज्जुबन्धनम् ||६
स्वीकुरुष्व राजपदं, कुरुते कोऽप्यथ विघ्नम्
प्रेषयामि यमसदनं तं च तत्क्षणम् ||७
आगच्छतु त्रैलोक्यं तर्जयामि तत्सर्वम्
पश्यामि च वृद्धपिता किं करोत्ययम् ||८
शतशतशः शरदस्त्वं राघव पालय भुवनम्
सिद्धस्ते रक्षणाय पृष्ठतोऽस्म्यहम् ||९
आयान्तं दण्डयते भ्राता न च दासस्ते
तव मातुः शपथेनाभिशृणोम्यहम् ||१०
१६
BACK TO TOP
१७ यत्र हि रामस्तत्र हि सीता
`रामादपरः कुरुते कोऽत्र शासनम् ?'
इति सर्वान् तर्जयन्तं लक्ष्मणं श्रीरामः कथं कथमपि
सान्त्वयामास | तदनन्तरं सः सीतायाः मन्दिरं प्राप | तस्यै
सर्वं वृत्तान्तं निवेद्य सः वनगमनाय तस्याः अनुज्ञाम्
ययाचे | तच्छ्रुत्वा विहस्य सीता उवाच -
सीता -
आमन्त्रयसे कुतो मां वृथा ?
यत्र स रामस्तत्र हि सीता ||
यासि विभो, त्वं येनाऽपि पथा
प्रयामि पुरतस्तेनैव पथा
वनवासादपि नाहं भीता
समीपे हि त्वं भाग्यविधाता ||१
मम सान्निध्ये त्वयि सति नाथे
प्रासादादपि तोषो विपिने
सिंहसनतां शिलाऽप्येष्यते
यदाऽधिष्ठिता ननु सा भवता ||२
पशवो, दनुजा अदया विपिने
भयं न तेभ्यो मनसीषन्मे
पश्चादग्रे चापधरौ मे
यावद् यातः शरधिं धृत्वा ||३
यत्पदलाभं कृत्वा हृदये
लीनाऽऽसमहं धरणीजठरे
तत्पदविरहः कथं कार्यते ?
दिशसि कुतस्त्वं दिव्यमिदं मा ?४
कस्य कृते सदने निवसेयम् ?
विरहाग्नौ किं मुधा ज्वलेयम् ?
छत्रं भरते किं पश्येयम् ?
किमहं कुर्यां दास्यं च वृथा ?||५
अपि कैकेय्या प्राप्तास्त्रिवराः ?
अपि तव चित्ते वसति मन्थरा ?
सन्तापयसे कुतो मां वृथा ?
त्यज्यते त्वया किमहमनाथा ?६
वनवासो मम भवति ललाटे
अवगतमेतन्मया शैशवे
मनुजजीवने सुखदुःखमये
व्यथा सुखयते प्रीतिसङ्गता ||७
बन्धनमेतत् शतजन्मीयम्
विच्छेदय त्वं छिनद्मि नाहम्
आगच्छामि त्वया सह वनम्
किं न च जाया भर्तृरभिन्ना ?८
पतिर्हि छाया पतिरवतंसम्
पतिपदपूजनमखण्डमनिशम्
आर्यस्त्रीणामिदं जीवनम्
विघ्नं कुरुषे तत्र किं वृथा ?९
मौनं भजसे कुतस्त्वमधुना ?
कतिवारमहं नमामि शिरसा ?
अहं जल्पती क्वचिदपराद्धा
क्षन्तव्या किं नाहं भवता ?१०
१७
BACK TO TOP
१८ तिष्ठ सुमन्त्रक, स्थापय च रथम्
`यत्र स रामस्तत्र हि सीता' एतं सीतायाः निर्धारं निशम्य
रामचन्द्रः तस्याः तेन सह
वनगमनप्रार्थनां विहन्तुं न शशाक | सः अवदत्, `सीते,
एष ते संकल्पः उभययोः कुलयोः भूषणप्रदः | सर्वाणि ते
दूकुलानि, अलङ्काराणि विप्रेभ्यः प्रयच्छ, वनप्रयाणार्थं च
उद्यता भव |' अनन्तरं रामलक्ष्मणौ सीता च वनवासार्थं
प्रस्थिताः | त्रयोऽपि ते राजवेषं परित्यज्य वल्कलानि परिदधुः
. सकलान् गुरुजनान्, नगरजनान्, सचिवान्, सेवकान्,
मातरौ, शत्रुघ्नं सुहृदः च आमन्त्र्य ते रथं आरोहन् |
सुमन्त्रेण रथः प्रचोदितः | रथे प्रचलिते तु प्रजाजनानां
प्रक्षोभः शब्दरूपेण प्रकटः अभवत् | सुमन्त्रम् आहूय ते तं
रथं स्थापयितुं प्रार्थयन्त -
अयोध्याप्रजाजनाः :
पुरुषाः :
रामोऽनुसरति कर्तव्यपथम्
तिष्ठ सुमन्त्रक, स्थापय च रथम् ||
तिष्ठतु सीता, तिष्ठ रघुपते
यावद् भाले पदरजोऽर्प्यते
भवति किमेतत् तर्कातीतम् ||१
अत्राऽऽगन्ता रामशासनम्
अद्यापि च तन्नयने स्वप्नम्
मनोरथोऽसौ भग्नोऽकाण्डम् ||२
श्यामं गगनं रघुनाथोऽयम्
उषःप्रभा सीतादेवीयम्
अपि नेक्ष्येते चतुर्दशाब्दम् ?३
लुप्ते छत्रे चतुर्दशाब्दम्
अत्र तमिस्रा तावत्कालम्
अतिजीवति किं मूर्च्छितनगरम् ?४
स्त्रियः :
कैकेयी सा कुत्र विनष्टा ?
दुर्गतिमेतां पश्यतु दुष्टा
नानर्थोऽयं तदीयचरितम् ||५
वितरतु भरते राज्यपदं सा
किन्तु जयश्री राघवमनुगा
प्रथममयोध्या पराजितेयम् ||६
पुरुषाः :
उभौ मूर्च्छिताविह ते पितरौ
क्व यासि राघव विहाय दीनौ ?
नयात्मना सह नगरमथानम् ||७
अश्रुपटेनावृते लोचने
वच राघवो वा रथो वर्तते ?
कण्ठे रुद्धं कम्पितवचनम् ||८
१८
BACK TO TOP
१९ जय गङ्गे जय जह्नुसुते
`तिष्ठ सुमन्त्रक, स्थापय च रथम्'
एषा नगरजनानां प्रार्थना श्रीरामस्य रथं
रोद्धुं नाशक्नोत् | सलक्ष्मणसीतः रामः वेगेन
अयोध्यायाः बहिः जगाम तस्मिन् दिने अयोध्यायाम् एकस्मिन्
अपि गृहे न अग्निः प्रदीप्तः, न वा दीपः प्रज्वलितः न वा
अन्नम् अपच्यत | शुष्कजला तटिनी इव सा नगरी शून्या
लक्ष्यते स्म | नगरात् बहिः आगतः श्रीरामः अयोध्योन्मुखो
भूत्वा नगरदेवतां प्रणमाम, नगरसीमापर्यन्तम्
आयातान् नगरजनान् च आमन्त्रयामास | पश्चात् रथः
पुनः पुरतः प्रस्थितः |
क्रमेण श्रीरामः गङ्गातीरे शृङ्गवेरपुरं प्राप |
निषधाधिपतिः गुहः तेषां स्वागतं व्याजहार | राम-
लक्ष्मणसीताः तां यामिनीं इड्गुदीवृक्षस्य अधस्तात् निन्युः |
अन्येद्युः प्रातः गुहः नौकामेकाम् असज्जयत् | श्रीरामः
सुमन्त्रम् अयोध्यां प्रति प्रेषयाञ्चकार स्वयं च
सीतालक्ष्मणाभ्यां सह नौकाम् आरुरोह | नौकां
चालयन्तः नाविकाः गातुम् आरभन्त -
निषादराजो गुह : नाविकाश्च
हे नौके मा गमः प्रतीपं गङ्गे मा धारय पूरम् |
रामनाम गायन्तो रामं निर्गमयामोऽपरतीरम् ||
जय गङ्गे जय जह्नुसुते,
जयजय राम दशरथे
दुर्दैवस्याघातमिमम्
परिहराम विप्लवमेघम्
स्वभाग्यमस्मत् प्रेषयामहै स्वहस्तेन वयमतिदूरम् ||१
श्रीविष्णोरवतारोऽयम्
कुरुते भक्तं भवपारम्
तारयामहे तारकमेनं तत्स्पर्शेण तराम वयम् ||२
यत्र राघवः प्रवर्तते
दाक्षणदिग् सा प्रवर्धते
अत्राऽयोध्या भवेदहल्या तत्र वर्त्स्यते कल्पवनम् ||३
धर्मपरायणरामोऽयम्.
अङ्गीकुरुते वनवासम्
वयमपि तस्यानुयायिनः किं नाचराम निजकर्तव्यम् ?४
अतिथिरस्तु वा रामस्तम्
नयाम नावा परतीरम्
सद् वाऽसद् वा राम ईक्षतां वयं कुर्महे निजकार्यम् ||५
गङ्गे मङ्गलयोगोऽयम्.
भगीरथेनानीता त्वम्
तस्य वंशजं नयसि विधातुं दक्षिणदेशं स्मरणीयम् ||६
पूता गङ्गा, पूतमिदम्
रामप्रभुनामस्मरणम्
प्रवासमेनं त्रिदोषान्तकं वयं स्मरामश्चिरकालम् ||७
१९
BACK TO TOP
२० रच्यतामत्र लक्ष्मण उटजम्
`रामनाम गायन्तो रामं निर्गमयामऽपरतीरम्'
एवं गायन्तः नाविकाः श्रीरामं गङ्गापारम् अनयन् |
ततः परं रामलक्ष्मणसीताः दिनसमये मार्गम् आक्रमन्त
निशाः च कस्यचित् वृक्षस्य अधः पर्णशय्यायाम् अनयन् |
अथ एकस्मिन् दिने सायंकाले ते भरद्वाजमुनेः आश्रमं प्राप्ताः |
भरद्वाजः तेभ्यः `चित्रकुटः पर्वतः निवासार्थं योग्यः' इति
कथयित्वा तन्मार्गमपि आदिदेश | मुनिवर्यम् आपृच्छ्य रामादयः
चित्रकुटं प्रति प्रतिष्ठिरे |
मार्गे नानाविधान् अपरिचितान् लताकुसुमवृक्षान्
पृच्छ्यन्त्याः सीतायाः कुतूहलं श्रीरामः अशमयत् |
लक्ष्मणः कुसुमस्तबकान् भ्रातृजायायैः अयच्छत् |
एवं वनान्तराणि आक्रम्य ते चित्रकुटं प्राप्नुवन् | तत्र कञ्चित्
समतलं रमणीयं प्रदेशं वीक्ष्य तम् अङ्गुल्या दर्शयन्
श्रीरामः लक्ष्मणं प्राह -
श्रीरामः -
रच्यतामत्र लक्ष्मण उटजम्
इह मन्दाकिन्यास्तटनिकटम् ||
चित्रकुटोऽयं ननु तपोवनम्
वसतीह च साधकमुनिवृन्दम्
अवलोकय सखि, जानकि सर्वम्
आर्तवी श्रीर्मनो हरतीयम् ||१
फुल्लपाशा बिल्वा विनताः
भल्लाताः फलभारेण नताः
प्रायो नैते मनुजस्पृष्टाः
न च लतालिङ्गनं क्व नु शिथिलम् ||२
सुमवर्णानां गणना गहना
गन्धास्तेषां नामातीताः
स्वयं वर्धते नीरवशोभा
श्रूयते तद्यदा कलविरुतम् ||३
क्वचित् पिकानां मधुरकूजनम्
मयूरो रवं कुरुते परुषम्
वहन् कलापे रत्ननिधानम्
मिश्रितौ वटतरौ स्वर एवम् ||४
मधुनः कोशो विटपे विटपे
ततो बिन्दुशो मधु स्यन्दते
वनसंजीवकममृतम् कलशे
रक्षन्ति मक्षिका अनवरतम् ||५
लक्ष्मण, दक्षो भव, सज्जस्त्वम्
सत्त्वं निमिषे दृष्टमदृष्टम्
सिद्धमस्तु ते सदैवायुधम्
वनमिदं श्वापदैरुपसृष्टम् ||६
लतिका कलिका इह सीतार्थम्
भक्ष्यमावयोस्तथा शरार्थम्
वनेऽत्रोभयं सममुपलब्धम्
ननु मुहूर्ते शुभेऽत्रागमनम् ||७
आनय घनकाष्ठानि त्वरितम्
रचयावोटजमत्र सुरूपम्
स्तृणवावोपरि पर्णानि तृणम्
आलिखावाम्बरे वरचित्रम् ||८
२०
BACK TO TOP
२१ सोऽब्रवीदन्ते मामेवम्
`रच्यतामत्र लक्ष्मण उटजम् |'
इति आदेशम् अनुसृत्य सौमित्रिः शाखापल्लवान्
समानयत् | तैः चित्रकुटे रामाश्रमः सिद्धः | कमपि
कृष्णमृगं भृष्ट्वा श्रीरामः नूतनस्य निवासस्थानस्य
समन्त्रकां वास्तुशान्तिं विदधे | ततः ते पर्णकुटिं प्राविशन् |
अथ अयोध्यां प्रतिनिवृत्तः सुमन्त्रः रामेण विना
शून्यं राजप्रासादम् अधोमुखः प्राविशत् | तम् आगतं
ज्ञात्वा दशरथः साश्रुनयनः कम्पमानैः शब्दैः
अपृच्छत्, `कथय रे सुमन्त्र, गमनसमये किमवदत्
मे रामः ?' इति |
सुमन्त्रः -
अवन्दे यावत् श्रीरामम्
सोऽब्रवीदन्ते मामेवम् ||
सुमन्त, गच्छाऽयोध्यां त्वरितम्
तातेभ्यो नो निवेद्य कुशलम्
प्रणम मत्कृते पदं तदीयम्
वन्द्यौ चरणौ श्रीतातानां, ननु तीर्थस्नानम् ||१
अन्तर्भुवने मातरावुभे
स्यातां नितरां शोकविह्वले
सान्त्वय धीरैर्वचनैरेते
निवेद्य ताभ्यां सुखमस्माकं, शमय तदीयशुचम् ||२
कथय जनन्यै हे सुमते त्वम्
`सुखिनी सीता कुशली चाहम्
पूजय नित्यम् हुताशनं त्वम्
मुनिवरघोषितसाम्नः श्रवणं, कुरु मातः सततम् ||३
विस्मर मातस्तव ज्येष्ठत्वम्
सपत्न्या कुरु प्रियमाचरणम्.
पतिपूजायां भव मग्ना त्वम्
नास्ति त्वदन्यत् विश्रामार्थं, तस्य तथा स्थानम् ||४
राजधर्ममपि स्मर जननि त्वम्
वयो न राज्ञो वा गुणरूपम्
प्रकटय भरते नित्यमादरम्'
प्रार्थय सुमते विनयेनैतां मद्वचनेनेदम् ||५
वद गत्वा त्वं कुमारभरतम्
`भव युवराजः स्वीकुरु दण्डम्
कुरु प्रजायां स्नेहमखण्डम्
निःस्पृहमनसा स्वकर्म कुर्वन्ननुभव सुखमनिशम् ||६
शिरसि पितुस्ते प्रसादछत्रम्
पालय वचनं तस्य यथार्थम्
नय सार्थकतां तद्वार्धक्यम्
प्रशास्य सनयं यशो दिगन्तं, प्रापय रघुवंशम् ||७
हे धीमन्, ते किं कथनीयम्
सकलं जानन्नुदारधीस्त्वम्
अवेक्ष्य मातुर्मम सुतविरहम्
तस्यै भावय वर्तनेन ते, रामो भरतोऽयम्' ||८
एवं वदतस्तस्य सुवदनम्
अभवद्दीनं सबाष्पनयनम्
अद्यापीक्षे करुणं दृश्यं
गङ्गातीरे सीतारामौ स्थितौ ससौमित्रम् ||९
२१
BACK TO TOP
२२ दशदिशं तिमिरमयं जातम्
`सोऽब्रवीदन्ते मामेवम्'
एवं सुमन्त्रात् श्रीरामस्य सन्देशं श्रुत्वा महाराजस्य
दशरथस्य अवस्था परमकरुणा जाता | नयनाभ्याम् अविच्छिन्नः
अश्रुपातः अवहत् | श्वासोच्छ्वासस्य गतिः अवर्धत | शोकातिशयेन
कण्ठः अपि निरुद्धः | आत्मनि एव सन्तप्तः इव सः हस्तौ उत्क्षिप्य किमपि
प्रलपितुम् आरभत | प्रासादस्थाः सर्वे जनाः, तिस्रः अपि देव्यः च
तत्र समायाताः | ससंभ्रमम् उत्थितः राजा स्वसन्तुलनं विहाय
पुनरपि स्वस्थाने न्यपतत् | संभ्रमावस्थायाम् एव सः आत्मगतम्
इव सावेशं वक्तुम् आरेभे -
राजा दशरथः -
दशदिशं तिमिरमयं जातम्
प्रभवति विकला तनुर्न दातुं प्राणस्याधारम् ||
ननु स्मर्यते श्रावणोऽधुना
स शब्दवेधो दारुणमृगया
यदा हतोऽसौ ब्राह्मणो मया
तदन्धजनकस्य वेद्मि दुःखं नन्वद्यानन्तम् ||१
अन्धस्य च वागसौ कम्पिता
यमदूतानां शङ्खो भूत्वा
कर्णे मम गर्जतीवाधुना
सुतस्य विरहात् स इव म्रियेऽहं तृषार्तवन्नूनम् ||२
विना शीतलं रामस्पर्शम्
अतृप्तमेतद् दग्धजीवनम्
न दर्शनं वा न सम्भाषणम्
मयैव त्राता प्रियः सुतो मेऽपवाहितो विपिनम् ||३
न मृत्युसमये रामदर्शनम्
किमायुषा ?नन्वात्मवञ्चनम्
त्यजति न जीवोऽद्यापि बन्धनम्
अपि मे सञ्चितमपावरिष्यति मोक्षस्य द्वारम् ||४
राघवस्य मे कुण्डलाङ्कितो
नयननन्ददः श्रीमुखचन्द्रो
उदयमेष्यते तिमिरे किमसौ
मयि पापात्मनि सेक्ष्यति किं वा रश्मिमयं तुहिनम् ||५
अघटितमधुना भविष्यति कथम्
स्वर्गसुखं खलु मया विहीनम्
शृणु दुर्वृत्ते कैकेयि त्वम्
प्रहास्यसि त्वं भाग्येन समं क्षणेन सौभाग्यम् ||६
सीतारामौ प्रपश्यन्ति ये
भवन्ति देवास्ते नरलोके
अतोऽधिकं किं स्वर्गीयसुखे ?
रामागमनं भूयोऽपि कदा, दैव !तव ज्ञातम् ||७
श्री राम - श्री - राम - राम
क्षमस्व मामधुना कौसल्ये
क्षमस्व सुतवत्सले सुमित्रे
क्षमस्व सति, देवते, उर्मिले
क्षमस्व जनते गच्छन्तं मां सुखदुःखातीतम् ||८
क्षमस्व जनकं हे रघुनन्दन
पतितोद्धारक मेघश्यामल
सीते, लक्ष्मण, हे रामानुज,
गङ्गोदकवत् भवतु मुखे मे वो जयजयकारम् ||९
२२
BACK TO TOP
२३ माता न वैरिणी त्वम्
`दशदिशं तिमिरमयं जातम् |'
एवं विलपन् एव दशरथः पञ्चत्वं गतः | सकलं
नगरं शोकमयं जातम् | वसिष्ठादयः आत्मानं संयम्य,
भरतं नन्दिग्रामात् आनायितुं दूतान् प्रेषयामासुः |
तथापि भरताय दशरथनिधनस्य वार्ता हेतुतः न कथिता |
भरतस्तु `बहुधा श्रीरामस्य राज्याभिषेकप्रयोजनेन
एव अहं त्वरया आहूतः |' इति चिन्तयन् सत्वरम् अयोध्यां प्राप्तः |
सा नृपहीना नगरी तस्मै करुणगम्भीरा शोकार्तोदासा
अभासत | यदा सः कैकेयीम् उपागच्छत्, तदा सा तस्मै
सकलं वृत्तान्तं न्यवेदयत्, राज्ञः और्ध्वदेहिकं संस्कारं
समाप्य राजपदं ग्रहीतुं च तम् आज्ञापयत् | तथापि
कैकेय्याः तत् स्वार्थपरं वचनं श्रुत्वा भरतः आत्मनः
क्रोधं नियन्तुम् न अशक्नोत् | सः कैकेयीं उपालभमानः प्राह -
भरतः -
माता न वैरिणी त्वम् ||
अश्वपतेस्त्वं भवसि न दुहिता न वाऽसि मे माता
कुतो जायते प्रवर्धते वा सतां कुले कृत्या ?
पतिव्रताका स्वयं नाशयेत् कदापि भर्तारम् ?१
तरुं सशाखं निपात्येहसे कथं ततः सुफलम् ?
स्तोष्यन्तीदं भृशं चारणा आत्मनाशितत्त्वम्
स्वीकुर्वे शासनं त्वदर्थे भवतु यशो द्विगुणम् !२
वनं प्राहिणोर्मदीयबन्धुं स्वर्गं मे पितरम्
रामाय च वल्कलं ददत्याः करदाहो न कथम् ?
मा तिष्ठेह क्षणमपि दुष्टे, शीघ्रमपेहि वनम् ||३
आधारो न च कुतो दृश्यते भरतोऽनाथोऽयम्
निपुत्रिके त्वं विचर गृहीत्वा विधवापरिधानम्
छायाऽपि च ते स्पृशतु न सदनं किं वा सिंहासनम् ||४
दर्शनेन ते भवति तृशार्ता खड्गस्य च धारा
कथं विधास्ये त्वयि प्रहारं त्वं तु राममाता
मातरावुभे गणयिष्येते मामेव कुपुत्रम् ||५
कथं नु शमये शब्देनाहं कौसल्याशोकम्
सुमित्रा तु सा ध्रुवं गणयते विश्वमिदं शून्यम्
कैरिव वचनैरहं सान्त्वयेऽयोध्यानगरजनम् ?६
रामाभावे वनादपीदं सदनं शून्यतरम्
रामं प्रत्यानयामि गेहं विचित्य प्रतिविपिनम्
न कोऽपि कुर्यान्निश्चयस्य मे कमपि प्रतिरोधम् ||७
एहि सुमन्त्रक, आदेशय नश्चतुरङ्गं सैन्यम्
रामान्वेषणपरा लक्षशो यन्तु दृशस्त्वरितम्
वेदविदस्तेऽनुयान्तु मुनयस्तथाऽभिषेकार्थम् ||८
यत्राऽपि स्यात् रामस्तस्मै देयं तन्मुकुटम्
इतःपरं मे तदेव साध्यं तदेकमेवेष्टम्
कालरात्रिवत् विचरेह त्वं क्रन्दन्ती परुषम् ||९
२३
BACK TO TOP
२४ प्रेषयस्व जानकीमाश्रयाय गह्वरम्
`माता न वैरिणी त्वम्' इति कठोरैः शब्दैः कैकेयीं
निर्भर्त्स्य भरतः अयोध्यायाः रामदर्शनार्थम् निष्क्रान्तः |
सः श्रीरामवत् तापसवेषं परिदधौ | तेन सह
चतुरङ्गबलं, नगरजनाः, कौसल्या सुमित्रा च प्रस्थिताः |
येन पथा रामसीतालक्ष्मणाः गताः तेनैव पथा जनसागरः
अयम् प्रस्थितः | भरद्वाजाश्रमे `रामः संप्रति
चित्रकूटपर्वते अवतिष्ठते' , इति विज्ञाय
भरतः तं पर्वतं प्रति गन्तुं प्रचक्रमे |
तत्र चित्रकूटपर्वते पर्णकुटीपरिसरे रामादयः विहरन्ति
स्म | सहसा उत्तरस्यां दिशि धूलिस्तम्भाः गगने उत्थिताः | तथा
च विविधस्वराणां कल्लोलः श्रुतः | तदा सदासावधानः
वीरबाहुः लक्ष्मणः श्रीरामं ससंभ्रमं प्राह . |
लक्ष्मणः -
प्रेषयस्व जानकीमाश्रयाय गह्वरम्
राम रक्ष दक्षतामुद्यमस्व कार्मुकम् ||
मेघनादवत् ध्वनिः श्रूयते वनान्तरे
भक्ष्यभागमपजहन् श्वापदः पलायते
कम्पिताङ्गशावकं सम्भ्रमेण वाश्यते
धूलिका नभोगता, किमपि सैन्यमार्जते
चिह्नमपि न दृश्यतां शामयस्व पावकम् ||१
उत्तरेण संस्थितो गणः स केन हेतुना
दृश्यमेव तन्मया तालवृक्षमृच्छता
निर्जनं कुतो वनं कोऽभियाति वै वृथा
तालतरुतलेऽस्तु ज्या धनुषि निपुणमातता
दृश्य एव रिपुवरो वाञ्छ्तीह यो रणम् ||२
सैनिका व्रजन्ति धावन्ति हस्तिनो हयाः
स्वेदक्लिन्नवाहका रथस्थिता महारथाः
कोऽयमेष उत्थितो दृश्यते रथे युवा
त्वमिव दार्घबाहुकः श्यामलोऽप्ययं तथा
किं रणाय मृगयते बन्धुरेव बान्धवम् ?३
भीरुभरत ईहते किं नु बन्धुनो वधम् ?
समीपमेत्वयं पुनश्छिनद्मि तस्य मस्तकम्
जन्मदाऽस्य वीक्षतां छिन्नसुतकलेवरम्
निकटमेव श्रूयते वाजिवल्गितं द्रुतम्
अवसरोऽयमागतो योक्तुमस्त्रपाटवम् ||४
एकलः स्थितोऽहमायात्वसीमितं बलम्
लोकपालको नवो निर्बलो जनोऽप्ययम्
न क्षमेत सङ्गरेऽनाथमपि हि बालकम्
क्षत्रियस्य धर्मजं कर्म रिपुनिषूदनम्
योऽपि दृश्यतेऽग्रतस्तं नयामि रौरवम् ||५
मन्युरेष वर्धते संयतोऽपि सन्ततम्
जन्म राघवस्य किं सोढुमापदापदम्
पापमुक्तमेकदा भवतु मेदिनीतलम्
भरतखण्डमश्नुतां रामराज्यसम्पदम्
धर्मरक्षणक्षणे दुर्जयो हरेरहम् ||६
२४
BACK TO TOP
२५ दैवजानि दुःखानीति न दोषो नराणाम्
`राम रक्ष दक्षतामुद्यमस्व कार्मुकम्'
इति श्रीरामं विज्ञापयन् लक्ष्मणः यदा क्रोधेन भरतम्
अभ्यधावत्, तदा श्रीरामः तम् असान्त्वयत् | भरतः
रामाश्रमं प्राविशत्, रामस्य चरणौ च दृढम्
अगृह्णात् | रामः अपि तं दृढम् आश्लिष्य तस्य कुशलं
पप्रच्छ | भरतः साश्रुनयनः पितृनिधनवार्तां
रामचन्द्राय आशशंसे | सकलमपि आश्रमपदं
शोकच्छायायां निमग्नम् | श्रीरामेण यथाशक्यं
पितृश्राद्धं निर्वाहितम् | भरतस्तु वारं वारं श्रीरामम्
अवदत्, `हे राम, मम मातुः मूढतया पितुश्च
जायाधीनतया एषः वनवासः तव भोक्तव्यः अभवत् |'
तदा श्रीरामः तं सान्त्वयन् आह -
श्रीरामः -
दैवजानि दुःखानीति न दोषो नराणाम्
पराधीनमस्मिन् भुवने जीवनं जनानाम् ||
वर्तते न कैकेय्या वा पितुर्वाऽत्र दोषो
विवासनं राज्यत्यागः कर्मणां विपाको
विलसितं हि खल्वेतन्मे पूर्वसञ्चितानाम् ||१
अन्त उन्नतेः पतनेऽस्मिन्नियत एव लोके
संग्रहोऽपि सकलो बन्धो नश्यतीह चान्ते
वियोगाय मिलनं नियमो ध्रुवोऽयं धरायाम् ||२
जन्मनैव सहजं मरणं द्वन्द्वमिदमभेद्यम्
दृश्यते, भासते, यद्वा, नश्वरं च विश्वम्
व्यर्थ एव तव शोकोऽयं स्वप्नगतफलानाम् ||३
स्वर्गतिं प्रयातस्तातो बन्धुरपि विवासम्
यद्यपीदमभवत्सहसा तन्न तर्कहीनम्
कुण्ठितस्तु विदुषां तर्को मरणकल्पनायाम् ||४
जरामरणव्याधिभ्यो वा विमुक्तः कदा को
दुःखमुक्तमुपभुङ्क्ते वा जीवनं कदा को
वर्धते तु यत्तत्सकलं क्षीयते क्षमायाम् ||५
काष्ठमेकमुदधावपरं यथा समेयाताम्
वेलया विभक्ते चैते न भूयो मिलेताम्
क्षणिक एव बन्धो, बन्धो !तथा मानवानाम् ||६
अलं बाष्पपातेनाऽलं मार्जयस्व नेत्रे
दिशावावयोरत्यन्तं मार्गयोर्विभिन्ने
रंक एव वन्योऽहं त्वं नृपस्त्वयोध्यायाम् ||७
मा यतस्व विनिवर्तयितुं मा वृथा हठेन
अनुष्ठाय पितुरादेशं कृतार्थौ भवेव
धारयस्व नृपवेषमलं वाससा मुनीनाम् ||८
चतुर्दशाब्दानामेषामेत्य नावसानम्
अयोध्यां निवर्ते नाहं प्रतिज्ञा त्रिवारम्
साम्प्रतं त्वमेकः स्वामी सम्पदो रघूणाम् ||९
एतु मा पुनः कोऽप्येतत्काननं सुदूरम्
प्रजागर्ति भवतां स्नेहो मनसि मे प्रसक्तम्
नयोत्कर्षसीमां चरमामयोध्याप्रतिष्ठाम् ||१०
२५
BACK TO TOP
२६ देहि बन्धो, पादुके ते
`पराधीनमस्मिन् भुवने जीवनं जनानाम्'
इति यद्यपि श्रीरामः पुनः पुनः भरतम् उपादिशत्,
तथापि भरतस्य नेत्रयोः अश्रुपातः अनवरतं प्रवृत्तः |
सः भूयः भूयः श्रीरामं साग्रहं विनिवर्तयितुं
प्रायतत | भरतेन सह समागताः मुनिजनाः अपि श्रीरामं
तथैव प्रार्थयन्त | तथापि श्रीरामः तेषाम् अभ्यर्थनां
नम्रतया प्रत्यादिशत् | सः पुनरपि उक्तवान्, `हे भरत,
पित्राज्ञया एव मदर्थे वनवासः आदिष्टः, त्वदर्थे च
राज्यशासनम् आदिष्टम् | अतः अयोध्यां गत्वा राज्यम् एव
त्वया शासितव्यम् | तदेव धर्म्यं युक्तं च भवेत् अहमपि
पितृशासनमनुसृत्य चतुर्दश वर्षाणि वने उषित्वा
अयोध्यां प्रतिनिवर्तिष्ये' इति | एतेन रामस्य आदेशेन निराशः
भरतः रामस्य पादुके स्पृष्ट्वा करुणार्द्रस्वरेण अवदत् -
भरतः -
तातहीनो मातृहीनोऽनाश्रयो भरतोऽधुना
देहि बन्धो, पादुके ते श्रूयतां मे याचना ||
कर्तुमुड्डानं नु मशको गरुड इव किं शक्यते ?
किं गजोह्यं भारमथवा तुरगपृष्ठे न्यस्यते ?
शासने वा राघवाणां किं क्षमो भरतस्तथा ?१
वंशरीत्या यो हि ज्यायान् स्यादसौ सिंहासने
किं कनीयान् शासने बत शोभते ज्यायान् वने ?
चरणयोर्दासाय मह्यं राज्यदानं किं वृथा ?२
तत्पदं त्यजता गृहीतो योगिनो वेषो मया
कैकयीवत् किं नु जनये लोकरोषाग्निं तथा ?
दीयते कस्मादिदं मे शासनं परुषं त्वया ?३
स्थापयिष्ये पादुकेऽहं राघवाणामासने
ते हि देव्यौ राज्यकर्त्र्यौ कोसलानां शासने
चरणचिह्ने पूजयित्वा धन्यता लभ्या मया ||४
नास्ति रामश्चरणचिह्ने स्तामिमे नृपमन्दिरे
कुत्रचिन्निवसाम्यहं वै नगरतो दूरे स्थले
सन्धिकाले रविशलाका सा मदर्थे दीपिका ||५
यावदागमनं त्वदीयं दूरतो रक्षामि राज्यम्
त्वामहं सततं प्रतीक्षे गणयमानो वत्सरम्
राज्यमधितिष्ठामि तोयं कमलदलमिव सर्वथा ||६
वचनमनुसारेण चरणावेष्यतः काले न ते
तर्हि वह्नौ तुच्छकायस्तत्क्षणं मे होष्यते
एष शपथो मृत्तिकेयं चरणयोः शिरसा धृता ||७
२६
BACK TO TOP
२७ कोऽसि रे युवराजः कथय मे
`देहि बन्धो, पादुके ते, पूर्यतां मे याचना'
इति भरतस्य प्रार्थनाम् अवधीरयितुं श्रीरामः न
शशाक | श्रीरामस्य चरणधूलिपरिप्लुते सुवर्णमण्डिते
पादुके गजपृष्ठे संस्थाप्य भरतः ते ससमारोहम्
अयोध्याम् आनीतवान् | ते पादुके एव सिंहासने स्थापयित्वा
भरतः राज्यशासनं कर्तुम् आरेभे |
श्रीरामः तु चित्रकूटं परित्यज्य प्रवसन् दक्षिणदिशं
प्रतस्थे | मार्गे रामलक्ष्मणौ विराधं नाम राक्षसं
जघ्नतुः, शरभङ्गाश्रमं च गत्वा स्वर्गगामिनः तस्य
दर्शनं चक्रतुः | तत्र केचन मुनयः श्रीरामं व्यज्ञापयन्, `
आश्रमवासिनः जनाः राक्षसैः भृशं पीडिताः | भवन्तौ
क्षत्रियौ राजपुत्रौ स्थः | अतः भवद्भ्यां धार्मिकानां जनानां
परित्राणं कर्तव्यम्' इति | तदा रामः सविनयं तथापि सनिर्धारम्
अवदत्, `तपस्विजनान् पीडयतां रक्षसां निर्दालनम्
अहम् अवश्यं करोमि | भवन्तः निःशङ्काः भवन्तु' इति | एवं
मुनिजनान् प्रतिश्रुत्य श्रीरामः मार्गक्रमणं पुनरारेभे |
तत्पश्चात् ते त्रयोऽपि पञ्चाप्सरसरोवरे नाम्नि प्रदेशे
दशवर्षाणि सानन्दं न्यवसन् | ततः सुतीक्ष्णस्य ऋषेः
आदेशात् ते अगस्त्याश्रमं प्रति प्रातिष्ठन्त | सुतीक्ष्णः च
अगस्त्यः च रामलक्ष्मणाभ्यां दिव्यायुधानि ददतुः |
दशवर्षाणां पश्चात् ते त्रयः अपि गोदावर्याः तीरे
पञ्चवटीं नाम प्रदेशं प्रापुः | तस्मिन् विलोभनीये प्रदेशे
तेषां पर्णकुटिः नितराम् अशोभत | अथैकदा अस्याः पर्णकुटेः
अङ्गणे तेषु त्रयेषु अपि वार्तालापे निमग्नेषु सत्सु काचित् अद्भुता
ललना तत्र आगच्छत् | अभिसारुकेव नानाविभ्रमाणि दर्शयन्ती,
श्रीरामं कामुकैः कटाक्षैः अवलोकयन्ती सा सुचारुरवेण तम् आह -
शूर्पणखा -
कोऽसि रे युवराजः कथय मे
स्वीकुरुष्व मां तनूरर्पिता मम श्यामल, भवते ||
तव स्वरूपे राजलक्षणम्
श्रवणेऽपि च रुद्राक्षभूषणम्
यद्यसि योगी कथमभितस्त्वां परिवारो रमते ?१
केन हेतुना चरसि वने त्वम् ?
विनोदेन वा हससि किमर्थम्
अत्राऽस्माकं शासनममितं किं न च ज्ञातं ते ?२
शूर्पणखाऽहं रावणभगिनी
नन्वहमेतद्वनस्वाम्
नानारूपाण्यादायाऽहं वनाद् वनं विहरे ||३
अहं तव कृते जाता तरुणी
षोडशवर्षा मधुरभाषिणी
दर्शनेन ते मनसि प्रबुद्धो मदनो हुङ्कुरुते ||४
अधरस्य ते पाटलरागम्
रहसि निपातुं प्रकामयेऽहम्
अप्यवतीर्णो मूर्तो मदनस्त्वमनङ्गस्मरणे ||५
अहं न जाने नृपं दशरथम्
कामये परं तदीयतनुजम्
प्राणेशो मे भव हे राघव, गृहसुखमश्नुवहे ||६
कृशा कुरूपा भार्येयं ते
तव न च सदृशी, त्यज तां दूरे
तव निकटेऽहं नाशयामि तां नूनं क्षणमात्रे ||७
मम सान्निध्ये वसन्नविरतम्
पालय तत्, ते भार्यैकत्वम्
आश्लेषेच्छा दृढा जायते तनौ च मनसि च मे ||८
२७
BACK TO TOP
२८ विरूपितेयं शूर्पणखा
`कोऽसि रे युवराजः कथय मे'
इति पृच्छन्तीं आत्मानम् अभिसरन्तीं तां श्रीरामः
विनोदेन प्राह, `अहं तावत् एकपत्नीव्रतं पालयामि |
अतः नाहं त्वां स्वीकर्तुं शक्नुयाम् | किन्तु मम अनुजोऽयं
नाद्यापि विवाहितः | तेन सह विवाहं कुरुष्व' इति | तदा
सा मन्दमतिः लक्ष्मणं गता | लक्ष्मणः अपि तां
हसन्नवदत्, `आर्ये, रामस्य दासोऽस्म्यहम् |
मम भार्या नाम दासस्य दासी | तदपेक्षया त्वं
रामस्यैव कनीयसी भार्या भव | अथ वा तव कृते सः
प्रथमपत्नीं त्यजेदपि' इति |
लक्ष्मणस्य परिहासम् अवगन्तुम् अक्षमा सा
पुनरपि रामं प्रत्यवर्तत, अब्रवीत् च, `हे राम,
भवान् सदैव ममैव भवतु एतदर्थमहम् एनां तव
भार्यां तव समक्षमेव भक्ष्ययामि |' इति उक्त्वा सा
सीताम् प्रति अभ्यधावत् | तदा तु श्रीरामस्य आज्ञया लक्ष्मणः
तस्याः कर्णनासे चिच्छेद |
तदा दारुणं क्रन्दन्ती, भीषणम् आक्रोशन्ती सा
स्वभ्रातरौ खरदूषणौ प्रति आगत्य ताभ्यां निजावस्थाम्
अदर्शयत् | तौ उभौ अपि रामम् अभिदद्रुवतुः | तथाप्येको
रामः खर- दूषण- त्रिशिर- सहितं चतुर्दशसहस्रमितं
राक्षससैन्यं निजघान | तद् दृष्ट्वा सा शूर्पणखा
पलाय्य स्वबन्धुं लङ्काधिपतिं रावणं जगाम | रावणस्य
पुरतः स्थित्वा तम् अधिक्षिपन्ती सा प्राह -
शूर्पणखा -
विरूपिता शूपर्णखा तदिदं दाशरथेश्चेष्टितम्
देहि रे तस्मै तत्प्रतिफलम् ||
किमिव शासनं कुरुषे रावण, किंवा जनपालनम्
राघवेण ते जितं लीलया, सकलं दण्डकवनम्
सत्तान्ध, त्वं तदपि स्मरसि न निजकर्तव्यं कथम् ?१
द्विदशलोचनैः शूर्पणखाया दशा दृश्यतामियम्
विक्रमेण रामस्य कम्पितं सकलं दिग्मण्डलम्
अपि नोदन्तं गुप्तचरास्ते निवेदयन्तीदृशम् ?२
जनस्थलेऽभून्महाननर्थः खरदूषणकन्दनम्
सहस्रशो राक्षसा विनिहताः किं तत् तव भूषणम्
जनस्थलस्थो यतिः स लभते सुरवत् परिपूजनम् ||३
पूज्यतरो ननु त्वत्तो जातो मनुजस्तव शासने
निषीदेह सामात्यः स्वस्थो बद्धहस्त आसने
प्रखरं तेजस्तस्य धक्ष्यति श्वस्ते सिंहासनम् ||४
सुदर्शनशराघाताः सोढास्त्वयोरसा रे वृथा
जिताश्च देवा, बलेनोद्धृता नगास्तथा रे वृथा
अजेयसेनाध्यक्षः किमसौ धर्मघ्नस्त्वं स्वयम् ?५
त्वमेव किमसौ जित्वाऽऽनीतं येन गृहं पुष्पकम् ?
येन च तद्वत् तक्षकनृपतेः कलत्रमप्युपयतम् ?
त्वमेव किमसौ यस्य विद्यते कालादपि न च भयम् ?६
श्रुणुष्व पुनरपि रामाख्यानं मया यदभिधीयते
बाणमोक्षणे करे तदीये चपला विद्योतते
मती रुध्यते विलोक्यामुनः शस्त्रास्त्रे पाटवम् ||७
रूपेणासौ श्यामसुन्दरो मन्मथ इव भूतले
साऽपि जानकी तदीयजाया रत्या अतिरिच्यते
तवानुरूपा नितम्बिनी सा मन्ये निःसंशयम् ||८
अपहृत्यैनामानयानि तां त्वदर्थमिति हेतुना
जनस्थलेऽहं बुद्ध्या तेषां वन्यं कुटिरं गता
श्रवणनासिके छित्वा ताभ्यां विडम्बिता खल्वहम् ||९
गच्छ गच्छ रे गच्छ सत्वरं जहि तद् बन्धुद्वयम्
आनयेह तां प्रसह्य सीतां या मामहसत् स्फुटम्
मामिव तव शासनमप्येतौ विडम्बयेते ध्रुवम् ||१०
२८
BACK TO TOP
२९ आनीय देहि मे
`देहि रे तस्मै तत्प्रतिफलम्'
इति पुनः पुनः प्रचोदितः रावणः रामं युद्धे पराजित्य
सीतामपहर्तुं सिद्धः | अस्मिन् उपक्रमे तेन मारीचस्य साहाय्यम्
प्रार्थितम् | तथापि मारीचः रामस्य पराक्रमेण सुपरिचितः आसीत् |
सः रावणं प्रत्यक्षयुद्धात् परावर्तयत् | ततः कपटेन
श्रीरामं वञ्चयितुं रावणेन काचित् युक्तिः व्यरचि | सः
मारीचं सुवर्णमृगरूपं धारयित्वा पञ्चवटीं गन्तुम्
आदिशत्, स्वयं च तस्य पश्चाद् निभृतम् आगच्छत् |
मारीचेन धृतं तत् विलोभनीयं मृगरूपं विलोक्य
सीता भृशं मोहिता | पर्णशालास्थितं श्रीरामम् आगत्य
सा तमाह -
सीता -
सुमचयं दधानाऽपश्यं सहसैकमृगम्
आनीय देहि मे नाथ प्रियं तं त्वरितम् ||
एतस्य शृङ्गयो रत्नानि विराजन्ते
नवमोहनसुमसमसुवर्णमेतस्याङ्गे
तत्सुवर्णेन मे लुब्धे चैते नयने
तत्पुच्छमुच्चलच्छक्रचापमिव भातम् ||१
आगत्य गतोऽसौ द्वारमिदं बहुवारम्
सौवर्णपदाङ्का अस्यैवैते नूनम्
एतेन विषाणं रम्भास्तम्भे घृष्टम्
पश्यतं भ्रातरौ, मृगं सुवर्णं कान्तम् ||२
यात्यसौ सवेगं भुजति ग्रीवां मन्दम्
प्रेक्षणे विलसते मदिरो भावो नूनम्
तन्मृगे नाथ मे मनोऽनिवारं सक्तम्
आलोक्य मोहिता तृणान्तरे तं हरिणम् ||३
कति कथं गुणानां गणनामस्य नु कुर्वे
बन्धनं तदीयं किमशक्यं ते मन्ये
किं न भग्नं त्वया शिवधनुषं नु मदर्थे
गम्यतां सत्वरं मया बध्यते तूणम् ||४
कोषेषु सञ्चितं यदयोध्यायां धनम्
तद् वने विचिनुते तव चरणे निश्चितम्
आनय प्रभो इह, कुटिरं तद् वैभवम्
रक्षिता सोदरस्तावदेष ते सदनम् ||५
गृह्यते सजीवो यदि कथमपि सारङ्गो
मणिमयं तदङ्गं भविता ज्योतिःपुञ्जो
दास्यते प्रकाशं वने प्रदोषे दीपो
गृह्णाम सङ्गतौ प्रतिगमने तं नगरम् ||६
द्रक्ष्यति स्त्रीजनो नगरे तं सारङ्गम्
द्रक्ष्यतः कैकयीभरतौ नः सासूयम्
गोपयिष्ये निधिं तावत्कालमहं तम्
तिष्ठसि त्विदानीं कुतो धनुर्धर एवम् ?७
प्रक्षिप्य सायकं व्यत्स्यसि यदि निपुणं तम्
देवरोऽशिष्यते चर्मोत्कृत्य तदीयम्
तन्मृगाजिने त्वं भास्यसि हरिवन्नूनम्
पश्य तं सुदूरं गिरितटमारोहन्तम् ||८
२९
BACK TO TOP
३० माऽतिथे, तिष्ठ वृथा द्वारे
`आनीय देहि मे नाथ मृगं तं त्वरितम्'
इति सीतायाः अभ्यर्थनां पूरयितुं श्रीरामः धनुर्बाणं
गृहीत्वा तं मृगम् अन्वगच्छत् | मृगः वेगेन अधावत्
तथापि कमप्यन्तरम् तम् अनुसृत्य श्रीरामः बाणेनैकेन
तं विव्याध | तत्रापि प्राणान् विमुञ्चन्नपि मारीचः `हे
लक्ष्मण, धाव, धाव, ' इति उच्चैः रामसदृशेन
वाचा आक्रोशत् | तत् श्रुत्वा आश्रमस्था सीता भयेन
कम्पिता बभूव | `नूनं श्रीरामः कस्मिन्नपि संकटे
ग्रस्तः' इति शङ्कया सा लक्ष्मणं रामसमीपं प्राहिणोत् |
एतमेव समयं प्रतीक्षमाणः रावणः सीताम् आश्रमे
एकाकिनीं दृष्ट्वा ताम् अभियातुं प्रारभत | अचिरादेव
तेन स्वप्रयोजनं विवृतम् | तदनुसारं तया सह
अभिमर्षणाय अपि सः प्रायतत | तदा महापतिव्रता सा
कठोरव्याकुलेन स्वरेण तम् अधिक्षिपन्ती तम् अतर्जयत -
सीता -
माऽतिथे, तिष्ठ वृथा द्वारे
चपला मूर्ता नीलघनेऽहं मा दह हस्तौ ते ||
निपीय कामासवं यथेच्छम्
मा दर्शय मे मत्तचेष्टितम्
नखस्यापि मे स्पर्शोऽपि न ते शक्यो ननु स्वप्ने ||१
नाहमेकला रामयशोजा
आकृतित्सु मां परितो दिव्या
उत्क्षेप्स्यति त्वा यदपि न दृश्या सशरीरं नरके ||२
स्वरेण फेरोर्हससि किमर्थम्
किमीक्षसे मामेवमनिमिषम्
रामादन्यत् नैव द्रक्ष्यते किमपि हि मम नयने ||३
सीतया यदि प्रणयमीहसे
कालकूटतः क्षेममीहसे
किमर्थमिच्छसि वृथा ग्रहीतुं सोमरवी स्वकरे ||४
विलोक्यैकलां वने निर्जने
बलेन मामपहर्तुमीहसे
मूढ, नयसि किं प्रदीप्तज्वालां धृत्वा निजवसने ?५
मत्वा स्वनयनयुगलं शाणम्
खड्गं कुरुषे तेन सुनिशितम्
तेनान्धत्वं तथाऽऽत्मनाशम्, अन्ध, न जानीषे ||६
क्वासौ रामः क्व च क्षुद्रस्त्वम्
क्व चार्णवोऽसौ क्व पल्वलस्त्वम्
हलाहलस्त्वं सुधारसोऽसौ रामो मूर्तो मे ||७
क्व वैनतेयः क्व वा वायसो
ननु मे भर्ता स्वयं वासवो
अपि किं मर्त्या इन्द्राणीं वा मनसाऽभिलषन्ते ?८
अबलायै यदि प्रदर्श्य स्वबलम्
आनयसीदं पुरतः स्वकरम्
रामशरास्त्वयि वज्राघातं सपदि विधास्यन्ते ||९
पाप, किमेवं सरसि पुरस्त्वम्
अवलोकय निजचरणस्खलनम्
चरणस्थाऽसौ सावधानता भवति न तव शीर्षे ||१०
धाव, धाव, हे नाथ त्वरितम्
करिकरदलितं कमलकोरकम्
यत्रासि ततः शृणुष्व करुणं क्रन्दनमेतन्मे ||११
३०
BACK TO TOP
३१ क्व भवेत् सीता रामजीवितम् ?
`माऽतिथे, तिष्ठ वृथा दारे'
इति सीतायाः तर्जनम् अविगणय्य रावणः ताम्
उज्जग्राह | तस्याः सन्तापम्, आक्रोशं च उपेक्ष्य
सः तां रथे स्थापयित्वा सवेगं लङ्कां गन्तुं
प्रचक्रमे | वनान्ते मायाविनं मृगरूपं मारीचं
निहत्य आश्रमं प्रत्यागच्छन् श्रीरामः मार्गे आत्मानं
प्रति एव आयान्तं लक्ष्मणं अपश्यत् | तं दृष्ट्वा सीता
आश्रमे एकाकिनी अस्ति इति स्मृत्वा श्रीरामस्य हृदयं
ननु कम्पितम् | `जानकीम् एकाकिनीं विहाय कथं त्वम्
अत्र उपस्थितः ?कच्चिन्न त्वं तस्य मायाविनः
राक्षसस्य मनुष्यवाचा वञ्चितः ?अरे, अपि सः
मम शरवर्षावम् अतिजीवितुं शक्नुयात् ?' इति
रामेण पृष्टे सति विनीतः लक्ष्मणः अधोमुखः प्राह,
`एतत् सर्वं मया देव्यै निवेदितम् | तथापि सा कठोरैः
वचनैः मां निरभर्त्स्ययत् | अन्ते तस्याः आदेशात् मम
आश्रमात् निर्गमनम् अनिवार्यम् अभवत् |'
तं सान्त्वयन्नपि गर्हयन् श्रीरामः अवदत्, `ननु
मूढ, सन्तप्तायाः नार्याः क्षणिकं क्षोभवचनं
त्वया परमार्थेन गृहीतम् ?केनापि कारणेन तां
त्यक्त्वा तव अत्रागमनं सर्वथा अनुचितम् | अस्तु | शीघ्रम्
आश्रमं गच्छावः | मम वामनयनं स्फुरति | अशुभस्य
आशङ्कया सर्वाङ्गं मे कम्पते | अपि जानक्याः कुशलं
भवेत् ?' इति | यावद् उभौ अपि तौ आश्रमं प्राप्तौ,
तावत् पर्णकुटी जानकीं विना शून्या इव अदृश्यत |
श्रीरामः इतस्ततः प्रधावन् `सीते, सीते, ' इति ताम्
आह्वातुं प्रचक्रमे . .
श्रीरामः -
वनेऽवशिष्टं शून्यमाश्रमम्
क्व भवेत् सीता रामजीवितम् ?
कदम्ब शीघ्रं कथयेक्षित्वा
अपि विलोक्यते नदीतटे सा ?
कमण्डलुकरा कृतकटिकलशा
हरिमध्या सा व्रजती मन्दम् ||१
शोकनाशकाशोक, कथय मे
भूमिसुता सा क्वापि दृश्यते
सपत्रविटपं किमिति कम्पसे ?
अपि पश्यसि किं स्वप्नमभद्रम् ?
क्वाऽऽस्ते चन्दन, सा गौराङ्गी ?
कुन्दलते वद, क्व नु सा सुदती ?
आम्रतरो, क्व नु सा विनयवती ?
वेपध्वे किं विनैव पवनम् ?३
घातघटी किं पुनः प्राप्यते
सीते, सीते, प्रिये भूसुते
मदीयवाणी किं न श्रूयते ?
एहि शिलायां निषदाव सुखम् ||४
पश्य, अनुज, तल्लोचनयुगलम्
ननु प्रियाया इव निष्पापम्
तदीयमृदुलो मृगशावोऽयम्
अस्य नयनयोरपि किं बाष्पम् ?५
मूकः पवनो मूका विहगाः
अपि केनापि प्रिया हारिता ?
किं वा सा रक्षसा भक्षिता ?
निर्यातयता शतजनिवैरम् ?६
पुनश्च जयते दैवमेकदा
क्षते प्रहारा आपदि विपदा
निष्फलैव मे शौर्यसम्पदा
प्रतिगच्छ त्वं बन्धो, स्वपुरम् ||७
किं भोक्तव्यं नन्ववशिष्टम् ?
समाप्तमेतद् मदल्पचरितम्
शोकसमुद्रः परिपूर्णोऽयम्
ततो वाह्यतां राघवोऽप्ययम् ||८
३१
BACK TO TOP
३२ अनुज रे तदीयपदयुगमिदम्
`क्व भवेत् सीता जनकनन्दिनी ?'
इति विलपन् श्रीरामः लताः, नद्यः, वृक्षाः, वन्याः
मृगाः, एतेभ्यः सर्वेभ्यः सीतामन्तरेण अपृच्छत् |
न कोऽपि तस्य प्रश्नस्य उत्तरं दातुम् प्रबभूव | लक्ष्मणः
श्रीरामं सान्त्वयितुं प्रायतत | तथापि आश्रमस्य परिसरे
चरन्तः मृगाः वारं वारं दक्षिणदिशि मुखं कृत्वा
अतिष्ठन् | तेन सीता दक्षिणदिशा गता स्यात् इति चिन्तयित्वा उभौ अपि
रामलक्ष्मणौ सीतान्वेषणार्थं दक्षिणदिशा प्राचलन् | मार्गे
श्रीरामः सततं जानकीम् आह्वयन् इतस्ततः ताम् अन्विष्यत् |
तस्य नयनाभ्यां अश्रुप्रवाहः सन्ततम् अवहत् | मार्गे दृष्टानि
सर्वाणि चेतनाचेतनानि प्राणिजातानि तेन सीतामन्तरेण पृष्टानि |
कमपि अन्तरं गत्वा कानिचन पुष्पाणि पतितानि दृष्टानि |
श्रीरामेण तानि अभिज्ञातानि, यतः तेन एव स्वहस्तेन तानि
सीतायाः कचनिचये गुम्फितानि आसन् | तानि विलोक्य गद्गदस्वरेण
श्रीरामः लक्ष्मणमाह -
श्रीरामः -
सुमचयस्तदलकादयम्,
अनुज रे तदीयपदयुगमिदम् ||
कचिदासुरी पदावलीयम्,
छिनत्ति मार्गं पदयोरपरम्
प्रवाते ध्वस्तं पद्मदलम् ||१
केनचिदसुरेणेह पीडिता,
लक्ष्मण, नियतं प्रिया मदीया
जिता किं स्वाङ्गबलेनेयम् ?२
कस्य नन्विदं धनुरिह छिन्नम्,
मणिभिरुज्ज्वलै रत्नैः खचितम्
कस्य वा केन रणं जातम् ?३
वैदूर्यचितं कस्य नु कवचम्
धूलिसंकुलं तन्मणिरत्नम्
केन किं रक्षो वा रुद्धम् ?४
धूलिधूसरं ननु छत्रमिदम्
विभग्नदण्डं भूमौ पतितम्
पातितः सूतः केनायम् ?५
मृतः सारथिः पतितौ भूमौ,
छिन्नरश्मयस्तथैव पाणौ
भैरवं रुधिरेणास्य मुखम् ||६
पश्य विभग्नं रथावशेषम्
भग्नं चाक्षं तथा च चक्रम्
विकीर्णं परितः शरशतकम् ||७
मृतो रासभो भुवि श्यायते,
शून्यया दृशा गगनमीक्षते
वाहनं कस्येदृङ्नूनम् ?८
मतिर्मदीया भृशं कुण्ठिता,
केन कुत्र वा सीता नीता ?
तदर्थं जातं किं द्वन्द्वम् ?९
जिता, हृता वा मृता, भक्षिता,
कथं मदीया क्व भवेत् सीता ?
ज्ञायते किमपि न तद् गूढम् ||१०
यतः कुतो वा, येन केन वा,
प्रतिप्रदेया मम मे कान्ता
मस्तके छात्रबलं स्फुरितम् ||११
स्वर्गीयो वाऽस्त्वमानुषोऽयम्,
दग्धुमिमं जागर्ति पौरुषम्
कम्पये धनुषा त्रैलोक्यम् ||१२
३२
BACK TO TOP
३३ सोऽहरज्जानकीं नूनम्
`सुमचयस्तदलकादयम्, अनुज रे तदीयपदयुगमिदम्'
इति सीतायाः स्मरणेन उत्तेजितः श्रीरामः यावत् पुरतो गच्छति
तावद् रुधिरदिग्धः कश्चित् पक्षिश्रेष्ठः भूमौ पतितः
तेन अवलोकितः | अनेन गृध्ररूपधारिणा राक्षसेन एव सीता
भक्षिता स्याद् इति विचिन्त्य श्रीरामः तं हन्तुं बाणं सज्यम्
अकरोत्, तदा सफेनं रुधिरं वमन् स पक्षिराजः जटायुः
तमुवाच -
जटायुः -
वद राघव मरणासन्नं किं पुनर्नयसि पञ्चत्वम् |
रावणं निरुन्धन्नपतम्, सोऽहरज्जानकीं नूनम् ||
विरहिता त्वया सा सीता
ह्रियमाणा यावद् दृष्टा
देवरेणापि न च सहिता
उत्पत्य राम सावेशं रुद्धवानहं रथमार्गम् ||१
निर्दयः कामुकः सोऽयम्
जानकीं नयति किं गेहम्
अवगतं मया तत्सर्वम्
तत्करौ मया सन्दष्टौ पक्षेणाभिहतं शीर्षम् ||२
जानकीरक्षणायाहम्
अकरवं घोरसंग्रामम्
अभिनदं समुकुटं कवचम्
बाणं वा तूणं स्प्रष्टुं तस्मै नायच्छ्मवसरम् ||३
सन्दष्टमस्य सर्वाङ्गम्
पक्षेण वज्रवत्तुन्नम्
निर्भयं मया प्रतियुद्धम्
पातितोऽधस्तले सूतोऽलभत स खरलत्ताघतम् ||४
सारयित्वा सतीं दूरम्
अभिनदं स्यन्दनस्याक्षम्
अकरवं चक्रयोर्भङ्गम्
गर्दभोऽपतन्निष्प्राणः प्रेतस्यान्यस्य सुनिकटम् ||५
भूतले छत्रमवसन्नम्
सङ्गरं भीषणं जातम्
प्रायते हि यावच्छक्यम्
आक्रमद्दशन्नधरोष्ठं रावणो गृहीत्वा खड्गम् ||६
छेदितौ यदा मम पक्षौ
अगतिकोऽपतमहं भूमौ
कम्पिता भृशं बालाऽसौ
सा यदा तेन ह्युपगूढा प्रक्षुब्धोऽभवमत्यन्तम् ||७
जीवितं चक्षुरवशिष्टम्
तदपि तं रावणमपश्यम्
आकाशपथा गच्छन्तम्
सम्राज्ञी तव ह्रियमाणा, क्रन्दति स्म यान्ती करुणम् ||८
३३
BACK TO TOP
३४ रघुपते, शबरी धन्याऽहम्
`रावणोऽहरत् जानकीं नूनम्'
इति भूतार्थं निवेद्य पक्षिराजः जटायुः पञ्चत्वं
गतः | श्रीरामः तस्य देहे विधिपूर्वकम् अग्निसंस्कारम्
अकरोत् | पश्चाद् रामलक्ष्मणौ पुरतः प्रस्थितौ |
अनन्तरं मार्गे कबन्धनामा कश्चिद् भीषणो राक्षसः
तयोः मार्गं निरुद्धवान् | शीर्षरहितः सः राक्षसः
वस्तुतः शापितः दनुपुत्रः आसीत् |
यदा सः रामलक्ष्मणौ अभ्यजानात्, तदा सः
आह, `यदा श्रीरामः सलक्ष्मणः वनमेतत् आगत्य
तव हस्तौ छेत्स्यते तदा त्वं स्वर्गं प्राप्स्यसि इति इन्द्रेण
अहं प्रतिश्रुतः | अतः हे राम, कृपया मां हत्वा
दहतु भवान्' इति |
यदा सः तथा दग्धः तदा तेजस्विरूपेण प्रादुर्भूय
सः श्रीरामं प्राह, `भवान् सुग्रीवेण सह सख्यं
विदधातु | सः सीतायाः अन्वेषणे भवतः सहायः भविष्यति'
इति उक्त्वा सः श्रीरामाय मार्गमपि अदर्शयत् | तेन दर्शितेन
मार्गेण गच्छन्तौ तौ पम्पासरोवरस्य पश्चिमे तटे
शबर्याश्रमं दृष्टवन्तौ | तत्र तपस्विनी शबरी श्रीरामस्य
आतिथ्यं कृत्वा महता उत्साहेन तमवोचत् -
शबरी -
रघुपते, शबरी धन्याऽहम्
त्वत्पदे प्राप्ते नन्वाश्रमम् ||
चित्रकुटं ते चरणे लग्न्
मुनयो मोक्षं प्राप्ता नैके
क्षणं तरुतले कुरु विश्रामं, क्षमस्व मे चापलम् ||१
पदयोरनयोः पूजनाय ते
अक्ष्णोरुदिताः सरितो ननु मे
प्रक्षालय निजपदे चापनय प्रवासजनितं श्रमम् ||२
गुरुसेवायामायुर्घृष्टम्
तच्च चन्दनं विलेपनार्थम्
सुमरोमाञ्चैः पश्य पुलकितं शुष्कं तरुविग्रहम् ||३
प्रज्ज्वाल्यात्मज्ञानदीपकम्
करोम्यर्चनं तथाऽऽत्मकथनम्
प्रधार्य रूपं नीलमनन्तं पुरतो मेऽवस्थितम् ||४
नैवेद्यार्थे किं ननु देयम् ?
प्रसाद इति किं मयाऽपि ग्राह्यम् ?
अद्य चकोराङ्गणेऽवतीर्णा क्षुधिता राका स्वयम् ||५
कन्दं मूलं देव, निषेव्यम्
बदरिफलानां सुमधुरनिचयम्
विनताः कल्पद्रुमाय दद्युर्वन्यलताः किमपरम् ?६
क्षतानि देव, न तानि खगानाम्
मयाऽऽस्वादितो रसः फलानाम्
स्वादुफलं ते पुरतो निहितं, रूपं न च भ्रामकम् ||७
किमीक्षसे लक्ष्मण, साशङ्कम् ?
नोच्छिष्टमिदं फलं मन्त्रितम्
आश्रयते मे मुखं श्रुतीनां माधुर्यं सन्ततम् ||८
३४
BACK TO TOP
३५ सुग्रीव एकमित्रं रामस्य
`रघुपते, शबरी धन्याऽहम्'
इति सानन्दं गायन्ती एव शबरी अनन्ते विलीना |
तत्पश्चाद् रामलक्ष्मणौ ऋष्यमूकं नाम
पर्वतं प्रापतुः | तत्र स्वराज्याद् भ्रष्टः सुग्रीवः
हनुमानादिभिः सचिवैः सह प्रच्छन्नः वसति स्म |
तस्य अग्रजेन वालिना तं किष्किन्धायाः बहिः निष्कास्य
तस्य भार्या रुमा बलाद् आच्छिन्ना आसीत् |
रामलक्ष्मणौ दूराद् दृष्ट्वा `एतौ धनुर्धरौ
वालिना मम नाशार्थमेव प्रेषितौ' इति मत्वा
सुग्रीवः भयात् मलयपर्वतम् आश्रित्य हनुमन्तं
तयोः विषये अधिकज्ञानसंपादनार्थं प्रेषयामास |
प्रथमदर्शने एव सचिवोत्तमस्य हनुमतः मनसि
रामलक्ष्मणयोः विषये स्नेहभावः समुत्पन्नः |
तेन सुग्रीवेण सह तयोः सौहार्दं कल्पयामास |
परस्पराभ्यां संभाषणेन सुग्रीवस्य
मनसि अपि रामम् अन्तरेण मित्रभावः समजायत |
तदा हनुमता अग्निं प्रदीप्तः | तम् अग्निं साक्षीकृत्य
सुग्रीवः श्रीरामम् अवदत् -
सुग्रीवः -
साक्षीभवन्ति गगनं, धरणी तथाऽद्य दहनम्
सुग्रीव एकमित्रं रामस्य जायतेऽयम् ||
राम, त्वदीय इव मे दैवेऽपि विप्रवासम्
जानासि सर्वमेतद्, हनुमन्मुखादुदन्तम्
समदुःख एव कुरुते दुःखाकुलस्य साह्यम् ||१
बन्धुः स्वयं रिपुर्मे किं वर्णयामि दैवम् !
वाली सुशीलजायां मेऽपाहरत् च राज्यम्
तं प्रेषयस्व वालीं हे राम, रौरवं तम् ||२
राहोरिवास्मि ग्रहणे निस्तेजसूर्यबिम्बम्
प्राप्ते हृतस्वराज्ये सबलः पुनर्भवेयम्
शौर्यं मयैव किं मे स्वमुखेन ते निवेद्यम् ?३
सैन्यं यदा लभेऽहं भूयः प्लवङ्गमानाम्
तद्रावणस्य भविता लक्षं तदा रिपूणाम्
लङ्घिष्यते तदब्धिं निर्भेत्स्यतेऽद्रिदुर्गम् ||४
तन्मार्गिता प्रियां ते, शङ्कस्व मा नृपेन्द्र
निष्ठां प्लवङ्गमानां प्रत्यक्षमेव पश्य
भविता गणः स सिद्धोऽर्पयितुं निजस्वमखिलम् ||५
सिद्धं सुसख्यमधुना हस्ते ददामि हस्तम्
भेतव्यमद्य कस्माद् भयकारिणः किमर्थम् ?
अधुना क्षमेन्द्र सिद्धो भव वालिनो वधार्थम् ||६
विचिनोमि विश्वमखिलं वचनं सखे ममेदम्
ध्रुवमानयामि सीतामन्ते च ते समीपम्
कुरुतेऽथ कोऽपि विघ्नं, तं प्रेषयामि स्वर्गम् ||७
सचिवौ न मे भवन्तौ नल, अञ्जनेय श्रुणुतम्
सुग्रीव एकसचिवो नृपतिश्च राघवोऽयम्
आज्ञाऽधुना तदीया युवयोर्मम प्रमाणम् ||८
३५
BACK TO TOP
३६ वालिवधो न च खलनाशोऽयम्
`सुग्रीव एकमित्रं रामस्य जायतेऽयम्'
एवं यदा सुग्रीवेण रामेण सह सख्यं घोषितं, तदा
रामः अपि तस्मै साहाय्यं प्रत्यशृणोत् | तदनुसारं सुग्रीवेण
वाली द्वन्द्वयुद्धार्थम् आहूतः | तयोः दारुणं युद्धम् अजायत |
तत्र सुग्रीवे हतप्राये जाते रामः वृक्षस्य पृष्ठतः निशितेन
बाणेन वालिं विव्याध | तेन वाली भूमिं पतितः |
यदा `केनापि अपराधेन विनैव रामेण अहं व्यापादितः'
इति वाली अजानात्, तदा सः रामम् अपृच्छत्, परोक्षस्थं
मां हत्वा को नाम पुरुषार्थः पराक्रमः वा भवता प्रदर्शितः ?
तदा प्रभुः रामचन्द्रः उवाच -
श्रीरामः -
एतत् खलु मे धर्माचरणम्,
वालिवधो न च खलनाशोऽयम् ||
अखिलधरेयं भरतशासिता
न्यायनीतयोरसौ सुवेत्ता
तस्यैवाहं तावद् भ्राता
यथैव राजा तथा प्रजेयम् ||१
शिष्यो, दासोऽथ वाऽनुजोऽयम्
धर्मेणासौ तनयो नूनम्
भ्रातुर्जायामपाहरस्त्वम्
निधायान्तरे पापमिङ्गितम् ||२
दर्पप्रतिमा सविग्रहा त्वम्
योग्यः खलु ते वधदण्डोऽयम्
विषयान्धानामन्तोऽप्येवम्
मृगयाविधिना श्वापदमरणम् ||३
दत्तं वचनं सुग्रीवार्थम्
`दास्ये प्राणांस्त्वत्प्राणार्थम्'
हतोऽनुजार्थे मयाऽग्रजस्त्वम्
प्रदत्तवचनं मया पालितम् ||४
क्रीडन्ति वने नृपा मृगयया
निघ्नन्ति पशून् प्रच्छन्नतया
अपि सा क्रीडा किं दोषमया ?
कपिः पशुभ्योऽहृदयतरस्त्वम् ||५
अन्त्यघटी ते भवतु मोक्षदा
पालयामि तेऽङ्गदं सर्वथा
राज्यमिदं ते, तव किष्किन्धा
समर्प्यते सुग्रीवायेयम् ||६
३६
BACK TO TOP
३७ स एको वीरः श्रीहनुमान्
`वालिवधो न च खलनाशोऽयम्'
इति वचनैः श्रीरामः वालिनः प्रतीतिं कारयामास |
वालिनाशस्य पश्चात् सुग्रीवः किष्किन्धायाः राज्यं पुनः
अवाप | रुमासुग्रीवयोः मधुरं मिलनम् अजायत | तथापि
राजविलासेषु निमग्नः सुग्रीवः रामकार्यं व्यस्मरत् | तदा
संक्रुद्धः लक्ष्मणः तस्मै स्वकर्तव्यम् अस्मारयत् |
अचिरादेव सुग्रीवः सर्वान् वानरगणान् आहूय तान् सर्वान्
सीतान्वेषणार्थं सर्वाः दिशः प्रेषयाञ्चकार |
महावीरस्य हनुमतः नेतृत्वे वानरदलमेकं
दक्षिणदिशम् अगच्छत् | कथंचित् श्रीरामः अमन्यत
यत् `हनुमान् एव सीताम् अन्वेष्टुं प्रभवेत्' इति |
अतः सीतां प्रत्याययितुं सः तस्मै आत्मनः अङ्गुलीयकं प्रादात् |
मासावधिं विचित्य अपि सीतायाः विषये काऽपि उपलब्धिः
न अवगता | तेन निर्विण्णाः, हताशाः कपिश्रेष्ठाः कस्मिन्नपि
पर्वतशिखरे उपविष्टाः आसन् | तदा संपातिः नाम गृध्रराजः
तान् प्रति आगत्य अवदत्, `अहं जटायोः बन्धुः, महाराजस्य
दशरथस्य च वयस्यः | चक्षुष्मती नाम विद्या मम अवगता |
तया अत्रस्मादेव अहं जानकीं च रावणं च द्रष्टुं शक्नोमि |
सांप्रतं सा लङ्कानाम्नि सुवर्णद्वीपे रावणस्य अन्तःपुरे बन्दिनी
भवति | भवद्भिः क्षीरोदस्य पारं गन्तुं कश्चिद् उपायः
चिन्तितव्यः' इति |
तदा अङ्गदादयः कपिवर्याः समुद्रोल्लङ्घनविषये सुचिरं
विमर्शं चक्रुः | अन्ते जाम्बुवान् सनिश्चयमाह -
जाम्बवान् -
तीर्यते सिन्धुर्येन महान्
स एको वीरः श्रीहनुमान् ||
दृढं गृहीत्वा पद्भ्यामुरगम्
उड्डाणेनाक्रम्य समुद्रम्
गरुडस्तरसाऽऽक्रमते गगनम्
गरुडादपि बलवान् ||१
अञ्जनीसुतः सुबलाढ्योऽयम्
क्षेत्रजपुत्रः पवनस्यायम्
कर्तुमलं दिग्गजसंचूर्णम्
बलशाली धीमान् ||२
वीरो जातो रव्युदयेऽयम्
नभस्युदपतत् त्रिशतयोजनम्
मत्वा पक्वफलं रविबिम्बम्
धर्तुमयाद् भास्वान् ||३
बालेनार्के वीरेण धृते
त्रैलोक्ये सति तदा कम्पिते
अस्य शिशोर्विप्रतिकारार्थे
पविमिन्द्रो धृतवान् ||४
वज्राघातेनेन्द्रस्य तदा
क्षतिरणुमात्रा चिबुके जाता
जातामर्षस्तेनास्य पिता
स्तब्धोऽभूत् गतिमान् ||५
स्तब्धे पवने विश्वमचेष्टम्
तदाऽऽश्वासयन् देवा पवनम्
मारुतयेऽस्मै दत्त्वाऽभिवरम्
प्राशंसद् भगवान् ||६
छेत्स्यति नैनं समरे शस्त्रम्
विष्णुवरेणेच्छामरणोऽयम्
अतिशयिताऽसौ प्रभया सूर्यम्
चिरतरमायुष्मान् ||७
हे हनुमन्, कुरु मनसा सर्गम्
कपिजनवन्न च सामान्यस्तवम्
उत्थापय वामवच्चरणम्
कुरु विजयोत्पतनम् ||८
३७
BACK TO TOP
३८ इयमसौ श्रीरामस्वामिनी
`तीर्यते सिन्धुर्येन महान्, स एको वीरः श्रीहनुमान्'
इति जाम्बवतः स्वसामर्थस्य वर्णनं श्रुत्वा हनुमतः
शरीरेऽपि स्फुरणं जातम् | यावत् सर्वे कपयः पश्यन्ति तावत्
सः अतिविशालम् आकारं धृतवान् | कपयः अपि तस्य स्तुतिपराणि
गीतानि अगायन् | तदनु पवनपुत्रः हनुमान् महेन्द्रपर्वतस्य
शिखरमारुह्य आकाशमार्गेण उड्डाणम् अकरोत् | कालेन सः
त्रिकुटाचलं प्राप्नोत् | अमरपुरीवत् दृश्यमाना लङ्का तेन
दूरतः निरीक्षिता | सर्वतः राक्षसाः दक्षतया तां नगरीं
रक्षन्ति स्म | तत्र प्रवेशोऽपि सुलभः नासीत् | हनुमान्
सूक्ष्मदेहेन तां नगरीं प्रविवेश | निशासमये तेन सीतार्थं
सर्वं पुरम् अवेक्षितम् | रावणस्य अन्तःपुरमपि तेन निपुणं
निरीक्षितम् | तथापि सीता सदृशी नारी तेन न कुत्रापि आसादिता |
निराशः सः अशोकवनं प्राप्तः | नितान्तरमणीयं तद् वनं
विलोकयन् सः कस्मिन्नपि शिंशपावृक्षे उपाविशत् | ततः सहसा
सहस्रराक्षसीभिः परिवेष्टिता मलिनवसना काऽपि स्त्री तस्य
दृष्टिपथमायाता | तेन पूर्वं कदापि सीता न दृष्टा आसीत् |
तथापि तथाभूतया तया सीतया एव भाव्यम् इति चिन्तयन् सः
स्वगतमेव अचिन्तयत् -
हनुमान् -
इयमसौ श्रीरामस्वामिनी ||
चन्द्रविरहिणी यथा रोहिणी
व्याघ्रीष्विव व्यामुग्धा हरिणी
श्येनकोटरे व्यस्ता शकुनी
हिमस्थले संहता वाहिनी ||१
मलिना क्षामा तदपि सुरेखा
धूमपरिवृता ज्वलनशलाका
शिशिरे म्लाना चम्पकशाखा
धृतव्रतेयं महायोगिनी ||२
रुदनेनार्क्ष्णोर्दृष्टिविकलता
कपोलयोरार्द्रा च शुष्कता
उन्निद्रेयं चिन्ताक्रान्ता
भर्तृचिन्तने रता विरहिणी ||३
पङ्किलेव भासते पद्मजा
नियतमियं स्यात् सती भूमिजा
परमदारुणा दशा दैवजा
विमानितेयं वने मानिनी ||४
सुवर्णाऽपि सा श्यामलमलिना
अधोमुखीयं शशाङ्कवदना
ग्रहणावसरे वा दिग्ललना
स्थिता हताशा दुःखभागिनी ||५
सन्दिग्धार्था ननु स्मृतिरियम्
अन्यायेनार्जिता श्रीरियम्
काचिदमूर्ता चित्रकृतिरियम्
कीर्तिर्विजिता वने वासिनी ||६
रामवर्णिता प्रतिमा, मुद्रा
बाहुभूषणे प्रवालमुद्रा
असंशयमसौ सैव सुभद्रा
इयं जानकी जनकनन्दिनी ||७
वलयमीदृशं कर्णभूषणम्
ऋष्यपर्वते दृष्टं पतितम्
राघवेण खलु तदभिज्ञातम्
सुधाघटीयं यशोदायिनी ||८
३८
BACK TO TOP
३९ रामकीर्तिरस्म्यहम्
`इयमसौ श्रीरामस्वामिनी'
इति प्रतीतिं गतः अपि हनुमान् सहसा तस्याः पुरतः
गन्तुं न अधृष्णोत् | यतः यथा तेन सीता पूर्वं विलोकिता
नासीत् तथा तया अपि सः न दृष्टपूर्वः | अतः अकस्मात्
दृष्टं तं सा रावणस्यैव सहकारिणं मन्येत इत्येव
संभवनीयम् आसीत् | अथ किं करणीयम् इति विचारग्रस्ते
हनुमति सति अकस्माद् रावणः एव ससेवकः तत्र आगत्य
सीतां वशमानेतुं प्रायतत | तदा सन्तप्ता सर्पिणीव
फूत्कुर्वन्ती रावणं तर्जयन्ती सीता व्याजहार -
सीता -
पुलस्त्यपुत्र राक्षसेश मा कुरुष्व वल्गनम्
जानते सुरासुरा रामकीर्तिरस्म्यहम् ||
पराङ्गना पतिव्रता वन्दनास्पदऽस्म्यहम्
मुञ्च शीघ्रमेव मां पुण्यमाप्नुहि स्वयम्
वीरता तवास्ति चेत् कुरु सतीत्वरक्षणम् ||१
नृपतिपापमीक्षते वाऽनयं तितिक्षते
राष्ट्रमीदृशं क्षितौ नामतोऽवशिष्यते
आत्मनः करेण किं दहसि वाऽऽत्मनः पुरम् ?२
यत्र तत्र राघवो माऽभितः स दृश्यते
वामपाणिरस्य मे संस्तरे शिरस्तले
चिन्तनेऽपि पूजये सदैव तं धनुर्धरम् ||३
कस्यचिन्न योग्यता राघवेतरस्य मे
प्रेषयस्व मामितश्चाद्य राघवान्तिके
त्रायते हि राघवो शरणमागतं जनम् ||४
नय कृतार्थजीवनं विधाय तेन मित्रताम्
अर्पयस्व जानकीं राघवाय निर्मलाम्
मृत्युरन्यथा गृहं तवागतः सुनिश्चितम् ||५
इन्द्रवज्रमपि भवेत् क्वचिन्निहननेऽक्षमम्
प्रकुपिते तु राघवे, त्वं न जीवसि क्षणम्
रामबाणवर्षणं प्रलवद् भयङ्करम् ||६
एष तेऽग्रतो यदा सङ्गरेऽवतिष्ठते
तदा सवंशमेव त्वां नङ्क्ष्यति ध्रुवं रणे
अधम, काममूढ रे चिन्तयस्व तत् क्षणम् ||७
कङ्कपक्षसंयुतो रामनामचिह्नितो
उरसि द्रक्ष्यते मया तव तु रामसायको
भारमुक्तमेकदा भवतु मेदिनीतलम् ||८
३९
BACK TO TOP
४० मुद्रिका तदीया नूनमभिज्ञातेयम्
`पुलस्त्यपुत्र राक्षसेन्द्र, मा कुरुष्व वल्गनम्'
इति सीतायाः उदग्रवचः श्रुत्वा रावणोऽपि क्षणमात्रं
भयभीतः | शूर्पणखायाः, मारीचात् च तेन रामस्य
दण्डकारण्ये आविष्कृतः पराक्रमः श्रुतः आसीत् | अतः
सीतायै मासैकस्य अवधिं प्रदाय सः अशोकवनात् निष्क्रान्तः |
अनेन प्रसङ्गेन `इयं स्त्री सीता एव अस्ति' इति हनुमान् अजानात् |
तस्याः परितः उपविष्टाः राक्षसस्त्रियः प्रायेण निद्रायाः वशं
गताः इति निरूप्य शिंशपावृक्षस्थितेन हनुमता मधुरस्वरेण
रामचरितगायनं समारब्धम् | तेन चकितचकिता सीता यावत्
गायनस्य स्वरस्य दिशा उपरि पश्यति तावत् हनुमता तस्याः
समीपम् आगत्य श्रीरामेण प्रदत्तम् अङ्गुलीयकं तस्याः हस्तयोः
निक्षिप्तम् | तां मुद्रिकां विलोक्य जानकी हर्षस्य परां काष्ठां
गता | `अनेन कपिना रामदूतेन एव भाव्यम्' इति विज्ञाय
सा तं प्रष्टुं प्रारभत . |
सीता -
मुद्रिका तदीया नूनमभिज्ञातेयम्
हे दूत कथय मे, स्वामिगतं वृत्तान्तम् ||
धारयन् कार्मुकं तथाऽक्षयं तूणीरम्
विरहेण राघवो भजते किं परितापम् ?
नयनयोस्तले किं श्यामलचिन्तावलयम् ?१
किं कर्म दूषयन्नास्ते निर्विण्णोऽसौ ?
दुःखेन व्यस्मरत् निजधर्मं किं वाऽसौ ?
पालयत्यसौ ननु कच्चिन्नृपकर्तव्यम् ?२
वर्तते निश्चलं तस्याद्यापि नु धैर्यम् ?
किं पुनस्तस्य वा शौर्यस्य हि विस्मरणम् ?
साह्याय वर्तते कच्चित् सन्मित्रबलम् ?३
कच्चिदिच्छन्ति तद्विजयं भूपाः सर्वे ?
वञ्चितः प्रभुर्वा लोकप्रियताया मे ?
विस्मृतं किमथ वा प्रभुणा यत्नमहत्वम् ?४
किं मम स्वामिनौ ममैव वा विस्मरणम् ?
दैवेन यदा मे परसदने परिसदनम्
किमथ वा स्मृतिर्मे पीडयते मम नाथम् ?५
किं स्वयं रघुपतिर्मोचयिता मां नूनम् ?
प्रेषयिष्यते किं भरतश्चतुरङ्गबलम् ?
अवगतं तस्य किं सकलमयोध्यावृत्तम् ?६
अपि मतिस्तदीया मलिना वा विपदायाम् ?
कच्चिन्न दुर्बला तत्प्रीतिः सीतायाम् ?
मोचयेन्मैथिलीं कदा रघुवरो नूनम् ?७
तां सुवर्णघटिकां कच्चिदहं पश्येयम् ?
अपि रामसायको भिद्याद् रावणहृदयम् ?
वर्तेत कदा ननु प्रभुपदयोरिह युगलम् ?८
यावदाकर्णये दूरादपि तत्कुशलम्
जीवामि कथंचिद् यत्र भवामि यथाऽहम्
द्रक्ष्यामि कदा ननु जन्मनि भूयो नाथम् ?९
४०
BACK TO TOP
४१ हनुमता दग्धा लङ्केयम्
`हे दूत कथय मे रामगतं वृत्तान्तम्'
इति सीतायाः आदेशानुसारं हनुमान् तस्यै `श्रीरामः भवतीं
मोचयितुम् अचिरादेव आगमिष्यति' इति निवेद्य तां
समाश्वासयत् | श्रीरामस्य प्रत्ययार्थं सीतया अपि मणिरेकः
हनुमते प्रदत्तः | वस्तुतः हनुमान् स्वयमेव तां रामं
प्रत्यानेतुं समर्थः आसीत् | तथापि `परपुरुषस्कन्धम्
उपविश्य प्रयाणम् अनुचितम् | रामेण एव अहं मोक्तव्या'
इति सीता सनिर्बन्धमाह | हनुमानपि तस्याः निर्बन्धम् उचितम्
अमन्यत | ताम् आमन्त्र्य सः अशोकवनात् प्रस्थितः | तथापि
लङ्कायाः निर्गमनात् पूर्वम् `एतेषां राक्षसानां
बलाबलं तावत् अनुमेयम्' इति मनसि कृत्वा तेन अशोकवनं
प्रध्वस्तम्, जम्बुमाली हतः, रावणपुत्रः अक्षः च
निषूदितः | लङ्कायाः कुलदेवता अपि तेन उच्छिन्ना | तदा
रावणस्य पुत्रेण इन्द्रजिता सः ब्रह्मास्त्रेण निबध्य राजसभाम्
आनीतः | रावणः तस्य मृत्युदण्डम् आज्ञापयत | तथापि
रावणानुजेन बिभीषणेन `दूतवधः राजनीतिसंमतः नास्ति'
इति प्रतिपादितम् | अन्ते रावणस्य आदेशेन राक्षसैः तस्य पुच्छं
चीवरैः आच्छाद्य प्रदीप्तम् | राक्षसस्त्रियः वृत्तम्
एतं सीतायै न्यवेदयन् | तदा सा अग्निं प्रार्थयत, `भवत्तः
हनुमान् पीडां न अनुभवतु' इति | हनुमांस्तु प्रदीप्तेन
लाङ्गूलेन सह राजसभायाः उड्डीय लङ्कायाः प्रासाद- मन्दिर-
गोपुरादिस्थलानि भस्मसात् कर्तुं प्रारभत |
कुशलवौ -
लीलयोड्डीयाकाशपथम्
हनुमता दग्धा लङ्केयम् ||
नगाभ्रमिव कपिवरि दृश्यते
तडिदिव पुच्छं तदनुदीप्यते
नगरेऽनलवर्षावं कुरुते
प्रवातो गर्जत्यतिमात्रम् १
शिखरादेकादन्यद् गेहम्
कन्दुकवत् कपिवीरोत्पतनम्
विशति गवाक्षे चण्डं पुच्छम्
सन्दहन् भ्रमति पुरं स्वैरम् ||२
ज्वलति मन्दिरं ज्वलति गोपुरम्
दीप्तद्वारं रणति दारुणम्
क्रन्दति विलपति तदावरोधम्
प्रकाशे स्फुटं वस्तुजातम् ||३
ज्वलति श्रेणी क्षणे गृहाणाम्
निपतति रक्षा प्रासादानाम्
चितेव दीप्ता महापुराणाम्
कुर्वतेऽसुर्यः परिशोकम् ||४
कश्चन दग्धः सुप्तदशायाम्
कोऽपि प्रदीप्तो धावति रथ्याम्
भयेन लिप्ता वागन्येषाम्
विनष्टं प्रलये सौहार्दम् ||५
धावति माता विहाय वत्सम्
लोकः स्मरति न नाम न बन्धम्
यदेवोन्नतं भवति सपाटम्
आपतत् सहसा कालोऽयम् ||६
शस्त्रा विविधा दग्धा बहुधा
शौर्यशीलता सदेहदग्धा
ज्वालाभिर्नवज्वाला मिलिताः
सघनता धरति भस्मरूपम् ||७
पवनो दहनो दहनः पवनो
नास्ति निवासो नापि चाश्रयो
रक्षाभूतो रक्षागारो
ताण्डवं वडवाग्नेर्मूर्तम् ||८
४१
BACK TO TOP
४२ सेतु रचयध्वं सागरे
`हनुमता दग्धा लङ्केयम् |'
कृत्स्नां लङ्कां प्रदीप्य प्रशान्तमनसा हनुमता
स्वपुच्छं सागरजलेन शामितम् | ततः स गगनपथा
श्रीरामं प्रत्यागच्छत्, सीतया दत्तं भास्वरं मणिं
श्रीरामाय अयच्छत् च | तं मणिम् अभिज्ञायप्रकर्षेण
हृष्टः रामः हनुमन्तं गाढम् आलिलिङ्ग |
सीतायाः प्रवृत्तिं ज्ञात्वा श्रीरामः विशालेन वानर-
सैन्येन सह दक्षिणदिशि समुद्रतीरं प्राप्तः | `समुद्रः
तु कथं तरणीयः ?' इति प्रश्नः समुपस्थितः | दिनत्रयं
यावत् श्रीरामेण सागरदेवता प्रार्थिता | अन्ते यदा तेन
सागरमुद्दिश्य शस्त्रम् उद्यतं तदा रामबाणभयात्
सागरः स्वयं साकारः रामस्य पुरतः आविर्बभूव, तं
च सविनयं प्राह, `भवतः सेनायां नलः नाम अभियन्ता
वर्तते | सः विश्वकर्मणः पुत्रः. तेन सेतुं बन्धय | तं सेतुम्
अहं स्वशरीरे सानन्दं धारयिष्यामि' इति | सागरस्य
सूचनामनुसृत्य रामः नलम् आज्ञापयत् | नलस्य
आधिपत्ये सेतुबन्धने मग्नाः वानराः गातुम् आरभन्त -
वानरगणः -
सेतुं रचयध्वं सागरे ||धृ ||
विदार्य शैलान् विशालकायान्
आदाय महागजप्रस्तरान्
क्षिपत सागरे जवेन चैतान्
निबध्य सेतुं कर्षत लङ्कामेतद्वेलान्तिके ||१
क्षिप्यत वृक्षान्, क्षिप्यत शैलान्
वहेत पृष्ठे वारिधिरेतान्
एतत्तीरं कर्षत वसुधाम्
वहेत सेतुं वडवाग्निरसौ शेषसमो मस्तके ||२
रामे भक्तिं दधतो हृदये
पृष्ठं जलधेरावर्जयते
सत्कार्यकृतो लोकस्य कृते
श्रीरघुराजो वानरैस्तथा निजपृष्ठेनोह्यते ||३
नल इव नेता यदा प्राप्यते
कराः कोटिशो यदा यतन्ते
यशो निश्चितं कार्यारम्भे
अहो लीलया पाषाणा अपि तरन्ति जलधाविमे ||४
जले प्रभुपदे प्रविष्टमात्रे
नदी नदी तीर्थं हि जायते
सिद्धिरधीरा प्रारम्भार्थे
लाटा भूत्वा शिला लाटया सिन्धुजले सज्जते ||५
गर्ज गर्ज हे कपिपुङ्गवगण
राम, रघुपते, पतितोत्तारण
जय लङ्कारे, सीताजीवन
युद्धस्यादावभिहन्यन्तां स्फूर्तेः पटहा रणे ||६
नायं सेतुः श्रमयज्ञोऽयम्
प्रयोजनं रघुपतेरुदात्तम्
महिमा तच्छुभनाम्नश्चायम्
अवरुध्य गतिं कर्म सांघिकं दिग्भिरिदं दृश्यते ||७
भुभुःकृत्य कार्यतां घोषणा
विजयी रामो, विजिता लङ्का
सीता मुक्ता, किमत्र शङ्का
सेतुरूपकः प्रकाशपुञ्जः प्रविशति तिमिरे घने ||८
४२
BACK TO TOP
४३ रघुपते, वदसि न किमपि कथम् ?
`सेतुं रचयध्वं सागरे'
इति उच्चैः गायन्तः गर्जन्तः वानरवीराः सागरे
त्रयोविंशति योजनपर्यन्तं सेतुम् अबध्नन् | सेतुना अनेन
श्रीरामस्य अपारं सैन्यंलङ्कायां प्रविष्टम् | श्रीरामस्य
सेनायाः बलाबलं विज्ञातुं रावणेन स्वदूताः विसृष्टाः |
तैः दूतैः रावणाय तद्विषये यथार्थं वृत्तं प्रदत्तम् |
रावणः स्वयमपि श्वेतप्रासादस्य सौधात् सैन्यस्य निरीक्षणम्
अकरोत् | रामसेनायाः प्रमुखवीराणां विशेषान् अपि सः
ज्ञातवान् | सः स्वसचिवान् युद्धाय सज्जीभवितुम् आदिदेश |
तस्य अनुजः बिभीषणः तु पूर्वमेव रामस्य पक्षं प्रविष्टः
आसीत् |
अत्रान्तरे मायाविना रावणेन सीतां वशमानेतुं कपटप्रयोगः
कृतः | सः विद्युज्जिह्वेन नाम्ना राक्षसेन कृत्रिमं राममस्तकं
कारितवान् | तन्मस्तकं सीतायाः पुरतः निक्षिप्य, विकटं विहस्य सः
तामुवाच, `हे सीते, यदर्थं त्वं मम प्रणयं विजहासि, तस्यैव
तव प्रियरामस्य इदं मस्तकम् | रामस्य सुप्तावस्थायां मम
सेनापतिः प्रहस्तः तद् अच्छिनत् | सर्वाऽपि वानरसेना अधुना
भयग्रस्ता वर्तते | पश्येदं तस्य धनुः शिरः च' इति |
रामस्य शिरसा सदृशं तत् शिरः विलोक्य सीता शोकस्य परां
काष्ठाम् अवाप | करुणकरुणं विलपन्ती सा अब्रवीत् -
सीता -
किमाकर्णये ?किमालोकये ?दुरवस्था केयम् ?
रघुपते, वदसि न किमपि कथम् ?
जायापूर्वं कथमापतितं पत्युर्मरणमिदम् ?
दैवमेव मे च्युतमिव खड्गं शिरसि कुतः पतितम् ?
पुण्यविहीना माता देवी कौसल्याऽपि कथम् ?१
ज्योतिर्विदुषां सकलं गणितं मिथ्या भवति कथम्
दुर्भागिन्याः सर्वस्वं मे सहसा किं लुप्तम् ?
मूढतया मे धूलिनिपतितः पुरुषोत्तम एवम् !२
कमललोचने श्रवणे च तथा ध्रुवमभिजानेऽहम्
रुदनेनापि च दीनायास्ते निद्रान्तो न कथम् ?
गतिहीना किं जाता सृष्टिर्दिशो गताः शून्यम् ?३
हेमचापमभिजाने क्वासौ महाबाहुरास्ते ?
अपि तां मूर्तिं श्यामलवर्णां कुत्र कदा प्रेक्षे ?
शुष्के जाते रुदनान्नयने प्रदीप्तमङ्गाङ्गम् ||४
कथं विस्मृतं सखे परिणये दत्तं निजवचनम्
जायायास्ते संमतिं विना प्रतिष्ठसे स्वर्गम् !
अपि श्रूयते भार्यायास्ते व्यथार्तमाह्वानम् ||५
रघुकुलशेखर त्वया समेताः पितरस्ते स्वर्गे
अर्धाङ्गी ते त्विहावशिष्टा परहस्ते मार्गे
शोभतेऽथ वा रीतिरीदृशी रघुकुलजस्य कथम् ?६
कुतो मदर्थे सिन्धुमपारं तीर्त्वाऽऽयातस्त्वम् ?
किं ननु जाता कुलध्वंसिनी जठरान्मातुरहम् ?
जनककृतानां शतयज्ञानामेतत् किं नु फलम् ?७
हे लङ्काधिप, आयुधेन मे येनाहन् नाथम्
कुरु प्रहारं शिरसि मदीये तेन त्वं तूर्णम्
अन्ते तावत् सीता राघवमनुगच्छतु क्षिप्रम् ||८
४३
BACK TO TOP
४४ सुग्रीव, सखे, साहसमेवम्
`रघुपते, वदसि न किमपि कथम् ?'
इति श्रीरामस्य निर्जीवेण शिरसा संवदन्ती जानकी तत्रैव मोहं गता |
पश्चात् सरमा नाम राक्षसी तस्यै सत्यम् अकथयत्, `रामः
न केवलं जीवितः, प्रत्युत तस्य सैन्येन सर्वाऽपि लङ्का परिवेष्टिता' इति |
तदा लोचनयोः प्राणान् समानीय सा श्रीरामं प्रतीक्षमाणा स्थिता |
एकदा लक्ष्मणसुग्रीवादिप्रवीरैः सह रामः सुवेलपर्वताग्रे स्थित्वा
लङ्कां निरीक्षते स्म, बिभीषणः अपि तस्मै लङ्कायाः वैशिष्ट्यानि
निवेदयति स्म | तदनु सुग्रीवः तथैव प्रतिनिरीक्षणं कुर्वन्तं रावणं
दृष्ट्वा आवेगेन उड्डीय रावणम् अभ्यधावत् | तयोः तुमुलं द्वन्द्वयुद्धं
जातम् | यदा रावणः मायाबलं प्रदर्शयितुं प्रारभत, तदा सुग्रीवः तस्य
हस्तात् आत्मानं विमोच्य रामं प्रति आगच्छत् | तस्य शरीरे स्थाने स्थाने
व्रणाः सञ्जाताः | श्रीरामः प्रथमं तस्मै गाढमालिङ्गनं दत्वा
पश्चात् तं सौम्यस्वरेण प्राह . |
श्रीरामः -
सुग्रीव, सखे, साहसमेवम्
भूपतेस्तु ते नैव समुचितम् ||
नितान्तकण्ठिना मित्र, घटीयम्
अतिमायावी पौलस्त्योऽयम्
सहसाऽभिमुखं तस्य गतस्त्वम्
किमभवदेतन्नैवावगतम् ||१
अपृष्ट्वैव मां बिभीषणं वा
अनुक्त्वा नलं ममानुजं वा
कस्मायपि कल्पनामदत्वा
सिद्धः सहसोत्पतनाय त्वम् ||२
शक्तिरपारा तव मेऽवगता
भक्तिरसीमा मयि ते च यथा
तदपि न युक्तमधुना सर्वथा
यच्चाकल्पितमेतद् घटितम् ||३
द्वन्द्वेनेच्छसि रावणहननम्
वृथा तदेदं बलसंघटनम्
यूथपैस्तथा कपिगणेन किम्
ऋक्षावचयो ननु व्यर्थोऽयम् !४
शत्रु मदन, ते किं कथनीयम् ?
नृपा जानते रणे न रागम्
सुनीतिरादौ, ततः पौरुषम्
अविचारेणाऽपतशो नियतम् !५
रावणेन सह यदि ते द्वन्द्वे
एकपलेऽपि क्षीणे जाते
सुहृद्वियोगापदा राघवे
सैन्यमपि स्यात् तव परिखिन्नम् ||६
को लाभः स्याद् द्वन्द्वादस्मात् ?
दृप्तोऽरिः स्यादीषद्विजयात्
युयुत्सवो दैत्या उन्मादात्
विनिवृत्ताः स्युः कपयो नूनम् ||७
स्याच्च रावणस्तदा विजेता
सीतायाः स्यात् कुतो मुक्तता ?
वृथैव शपथो वृथा प्रतिज्ञा
केन हतं स्याद् राक्षससैन्यम् ?८
गच्छ सत्वरं, समानय बलम्
रणज्ञ विरचय सुयोग्यव्यूहम्
नाशयाम रावणं ससैन्यम्
माऽपव्ययतां निजसामर्थ्यम् ||९
४४
BACK TO TOP
४५ गच्छाङ्गद रावणाय कथय सत्वरम्
`सुग्रीव, सखे, साहसमेवं, भूपतेस्तु ते नैव समुचितम्'
इति शब्दैः रणनीतिनिपुणः श्रीरामः सुग्रीवम् उपादिशत् |
उचितसमयं दृष्ट्वा रामः स्वसैन्याय आक्रमणस्य आज्ञां
ददौ | कल्लोलमालाभिः अतिक्रामन् सागरः इव सा सेना उच्चैः
गर्जन्ती लङ्कां प्रति अभिदुद्राव | तदा समुत्थितेन महानादेन
दुर्ग- प्रासाद- मन्दिर- वनैः सहिता समस्ता लङ्कानगरी आकुला
इव जाता | तदानीं प्रवृत्ते शस्त्रसंपाते राजधर्मम् अनुस्मरन्
रामः अङ्गदमाह -
श्रीरामः -
गच्छाङ्गद रावणाय कथय सत्वरम्
भूयस्त्वं कुरु विमर्शमेकदान्तिमम् ||
तीर्त्वोदधिमभियातस्तेऽन्तकः पुरम्
रणयोगे कपियूथं सर्वथा रतम्
शरणमेहि राघवस्य सन्त्यजन् मदम् ||१
चतुराननलब्धवराद् विस्मरन् बलम्
हे पापिन्, पीडयसे सकलभूतलम्
सुरसर्पांश्चाप्सरसो बाधसेऽनिशम् ||२
अपनेतुं तव दर्पं तिष्ठति स्वयम्
रामोऽयं शौर्यरविस्तत्प्रभा बलम्
धक्ष्यति तव वंशमखिलराज्यसम्पदम् ||३
शृणु शङ्खं, शृणु धरणीकम्पनिःस्वनम्
तव हेतोर्नश्यति बत रक्षसां कुलम्
मुञ्च तर्षमधुनाऽपि हि तव घृणास्पदम् ||४
अन्तेऽपि तु मुञ्च मूढमाग्रहं स्वकम्
प्रत्यर्पय राघवाय जनकदुहितरम्
शरणमेहि तस्य वर्जयस्व चापदम् ||५
समरभुवि स्मर समयं तिष्ठ सुस्थिरम्
नेष्यन्ते रामशरास्त्वामितो दिवम्
तेऽवशिष्टमेकमिदं मोक्षसाधनम् ||६
समरे वा दर्शय ते शक्तिमासुरीम्
यद्बलेन हृतवानसि रामसहचरीम्
योजय कुलिशेन गदां मेरुणा शरम् ||७
नामापि न शिष्टं स्यात् तव महीतले
सम्प्राप्ता रामकृपा बन्धुना तु ते
लङ्केशो भविताऽयं नाऽपरो ध्रुवम् ||८
४५
BACK TO TOP
४६ सङ्गरं रामरावणीयम्
`गच्छाङ्गद, रावणाय कथय सत्वरं,
भूयस्त्वं कुरु विमर्शमेकदान्तिमम्'
इति सन्देशः शब्दशः अङ्गदेन रावणाय कथितः | तथापि तं
कठोरं सन्देशं श्रुत्वा रावणस्य क्रोधः अतीव संवृद्धः | सः
स्वसचिवान् आज्ञापयत्, `एनं दुष्टं मर्कटम् आमरणं
ताडयत' इति | तदा शतशः राक्षसाः अङ्गदं ताडयितुं
प्रारभन्त | तथापि महाबलाढ्यः स अङ्गदः तान् सर्वान्
संगृह्य रावणस्य प्रासादस्य शिखरम् उदपतत् | तदा ते
सर्वेऽपि राक्षसाः भूमौ अवसन्नाः |
अङ्गदस्य अङ्गभारेण सः प्रासादः अपि वज्रपातेन हिमाचलः
इव उपहतः | तस्य शिखरं विदीर्णम् अभवत् | तदा क्रोधाविष्टः रावणः
स्वसैन्यं रामसैन्ये अभिपतितुम् आदिदेश | तदानींतनं संमर्दं
लवकुशौ वर्णयतः -
कुशलवौ -
भिनत्ति गगनं तुमुलं रणितं शङ्खदुन्दुभेयम्
समारब्धमनुपमं सङ्गरं रामरावणीयम् ||
सशङ्खराक्षससेना दृष्टा
नीलघनेष्विव बलाकमाला
शताननैरिव गर्जति चपला
शरधारावर्षावो जातो रणाङ्गणे नूनम् ||१
संहेषन्ते वल्गन्तेऽश्वाः
तैः सह चैते नदन्ति नागाः
रवमयेव सा ननु भीषणता
तद्रवमिलितं प्लवगरक्षसां चरणपातरणितम् ||२
दन्तैरधरान् पीडयमानाः
हरीन् राक्षसास्ताडयमानाः
नभसि वानरा उड्डयमानाः
अगनगशस्त्रप्रहारैश्च ते ताडयन्ति शत्रुम् ||३
जयतु राघवो, जयत्वङ्गदो
गर्जन् प्रहरत्यसौ कपिगणो
दीयते च सह्यते प्रहारो
सागरयोरिव द्वन्द्वमपूर्वं संप्रति संरब्धम् ||४
आघातेन हि शस्त्रास्त्राणाम्
जगतो मुक्तिर्हर्यसुराणाम्
रुधिरे शयनं रणवीराणाम्
मुदा राक्षसा रणे कुर्वते रावणजयघोषम् ||५
तुरगः पतितो, गजोऽवसन्नो
नभसो जिह्मः शरवर्षावो
भिन्द्धि, छिन्द्धि, वा जहीति शब्दो
रणे श्रूयते सर्वभाषितं संहारार्थपरम् ||६
रणे हतानां प्रफुल्लितानि
मांसकर्दमावृतवदनानि
तान्यपि समरे पदाहतानि
वहन्ति तरसा रणे प्रवाहाः शोणितस्य स्वैरम् ||७
शवोपरि शवं निपतत्यपरम्
कस्य प्राणिनो नाभिज्ञातम्
शौर्यं मरणाद् भीमोग्रतरम्
अवयवखण्डा दिशि दिशि कीर्णा योजनपर्यन्तम् ||८
चक्रं, चरणं, करो लाङ्गुलम्
शुण्डा, ग्रीवा, शिरो वा पदम्
यद्यत् पतितं खण्डखण्डितम्
प्रलयावसरे चेव कम्पितं धरणीगगनाङ्गम् ||९
कस्य द्वन्द्वं केन जायते
कालमुखाद् वा कोऽवशिष्यते
कस्य कबन्धं कुत्र वल्गते
रणसंमर्दे जानीते न च कोऽपि कमप्यन्यम् ||१०
४६
BACK TO TOP
४७ अद्य विपदि श्रीलङ्का सर्वदा स्थिता
`समारब्धमनुपमं सङ्गरं रामरावणीयम्'
इति लवकुशाभ्यां वर्णिते रणसंग्रामे श्रीरामेण रावणस्य
सारथिः हतः, रथः भञ्जितः, मुकुटः सच्छत्रम् उत्क्षेपितः,
शरवर्षावेण च रावणः नितरां सन्त्रासितः | हतवीर्यं, हतबुद्धं
रावणं वीक्ष्य श्रीरामः उदारमनसा तम् अवदत्, `भोः पौलस्त्य,
अतीव क्लान्तः असि | श्वः पुनरागच्छ |' इति | एवं न्यक्कृतः रावणः
स्वमन्दिरं प्रत्यागत्य आत्मनः बन्धुं कुम्भकर्णं प्रबोधयितुं
सेवकान् आज्ञापयामास | कुम्भकर्णः अष्ट मासान् स्वपिति स्म |
तं प्रबोधयितुं राक्षसाः तस्य कर्णयोः दुन्दुभि- पणव- आनकादि-
वाद्यानां कल्लोलं कृतवन्तः | तस्य महति शरीरे मातङ्गाः
चालिताः | तदा प्रबुद्धं कुम्भकर्णं रावणः स्वां दुर्दशां
न्यवेदयत्, तस्य साहाय्यं च प्रार्थयत |
तदा प्रहसन्निव कुम्भकर्णः तमुवाच -
कुम्भकर्णः -
कालेऽहं, हे बन्धो, बोधितस्त्वया
अद्य विपदि श्रीलङ्का सर्वथा स्थिता ||
निजघातः पापकृते
निरय एव दुर्मतये
अनिवार्या नीतिरियं नियतिनिश्चिता ||१
चित्तं ते गर्वमयम्
आयुस्ते विषलिप्तम्
हितबोधो बान्धव ते चाप्रियः सदा ||२
यच्च बिभीषणकथनम्
अप्रियमपि हितवचनम्
तदवमत्य बन्धुस्ते हापितस्त्वया ||३
मन्दोदर्या वचनम्
हितमपि ते भात्यहितम्
तद्भावश्चरणतले मर्दितस्त्वया ||४
स्थलकालं परिनिरीक्ष्य
न्यायानयमासमीक्ष्य
आरब्धं न च कदापि कर्म रे त्वया ||५
मनसि गतं निर्णीतम्
न विमर्शो न हि मननम्
न च परीक्षिता निपुणं मन्त्रिणस्त्वया ||६
यत्तु प्रियं तदनुमतम्
यन्न प्रियं निर्धूतम्
आत्मनाश एव तेन साधितस्त्वया ||७
बोधाय न समयोऽयम्
बन्धो, त्यज सर्वभयम्
आत्मनो न कर्तव्यं विस्मृतं मया ||८
सौभ्रात्रं भाषयते,
तस्य फलं पश्य रणे
रिपुरुधिरेणाद्य धरा क्लेद्यते मया ||९
देवेन्द्रं हन्मि सुखम्
को जन्तू रामोऽयम्
अर्णवानलौ गरितुं शक्यते मया ||१०
मद्वचनं गणय जयम्
आरभस्व मधुपानम्
शिरसि सर्वभारस्ते धारितो मया ||११
४७
BACK TO TOP
४८ निष्फला बाणा अद्य कथम् ?
`अद्य विपदि श्रीलङ्का सर्वथा स्थिता'
इति कुम्भकर्णस्य अवलोकनं सार्थमेव आसीत् | तेन अतुलः
पराक्रमः रणे प्रदर्शितः | सः वानराणां सहस्राणि
भक्षयामास, सुग्रीवमिव योद्धारं च मूर्च्छयामास |
तथापि श्रीरामेण तस्य करचरणाः छिन्नाः, तस्य
पर्वतमिव विशालं मस्तकम् अन्तरिक्षे उत्क्षिप्तम् | तत्पश्चात्
मेघनादादयः विक्रान्ताः रावणपुत्राः अपि रणे निषूदिताः |
अन्ते सङ्क्रुद्धः रावणः श्रीरामं निहन्तुं कृतनिश्चयः
तस्य पुरतः प्रतिष्ठितः | रावणः रथस्थः, रामस्तु पदातिः |
अतः रावणेन रामस्य समत्वं प्रापयितुं सुरेन्द्रः स्वरथं
सारथिना सह रामार्थं प्रेषितवान् | उभौ अपि रामरावणौ
नानाशत्रप्रहरणानां वर्षावं परस्परयोः कृतवन्तौ |
तेन सागराः क्षुब्धाः, सूर्यः निस्तेजः, वायुः स्तब्धः,
पृथिवी च अस्थिरा अभवत् | ननु चराचरा सृष्टिः तयोः
युद्धं विलोकयितुं गतिशून्या इव जाता | अन्ते श्रीरामेण सर्पाकृतिना
निशितेन बाणेनैकेन रावणस्य मस्तकं छिन्नम् | तथापि अहो
आश्चर्यम् !छिन्नस्य मस्तकस्य स्थाने अपरं मस्तकमुपजातम् |
तदपि मस्तकं रामेण छिन्नम् | पुनश्च नवं मस्तकमुपजातम् |
एवं शतं मस्तकानि रामेण उत्क्षिप्तानि, तदपि रावणस्य अन्तः
दुरापास्तः अलक्ष्यत | तदा चिन्ताक्रान्तः राघवः स्वसारथिं
मातलिमवदत् -
श्रीरामः -
निष्फला बाणा अद्य कथम् ?
किं नु समाप्तं मम पुण्यं वा तन्मम बाहुबलम् ?
शरवर्षावे महादारुणे
तरुवदरिर्मे पुनर्वर्धते
जीवति शत्रू रामस्यायं रामाग्रेऽपि कथम् ?१
चमत्कृतिरियं नावगम्यते
छिन्ने शीर्षेऽपरं जायते
रावणाङ्गमथ भवतीदं वा शीर्षखनिर्नूनम् ?२
शतमपि शिरसामेवं छिन्नम्
नभसि विधूतं पद्भ्यां मथितम्
पुनरारूढो रथे रावणो नवं पुनश्च बलम् ||३
इन्द्रसारथे, वीर, मातले,
किं नु रहस्यं कथयैतन्मे
अपमानान्मे विद्यावज्ञाऽसह्यतरा नूनम् !४
हतो दूषणो, विराधो मया
मारीचो वा खरो लीलया
तेऽमी बाणा निहतो वाली, यैर्निमिषे तूर्णम् ||५
भयेन यस्मात् सिन्धुरपास्तो
भयादरार्होऽयमसौ तूणो
विजयिशराणामद्याभावस्तस्मिन्नेव कथम् ?६
पश्य रावणं रुधिरक्लिन्नम्
सिंहवदेनं तदपि नदन्तम्
अभिमानोऽयं मूर्तो जातोऽवध्यो मेऽपि कथम् ?७
सचिन्ता हि स्युर्देवदेवताः
तप्यन्तु कथं तपो मुनिवराः ?
अपि मन्येऽहं शरसन्धानं सकलं मे विफलम् ?८
४८
BACK TO TOP
४९ हे सुराः, राघवलीलेयम्
`निष्फला बाणा अद्य कथम् ?'
इति विषादवचनानि श्रीरामस्य इव महावीरस्य मुखात्
श्रुत्वा इन्द्रसारथिः मातली किञ्चिद् विहस्य प्राह, `प्रभो,
किमेवम् अज्ञवद् ब्रवीषि ?यः रावणान्तसमयः देवैः
निश्चितः सः अधुना प्राप्तः | अतः तस्य वधार्थं पितामहास्त्रं
प्रयुङ्क्ष्व' इति |
मातलेः शब्दैः एतैः श्रीरामस्य स्मरणमिव जातम् |
अगस्तिमुनिवर्यैः प्रदत्तः देदीप्यमानः शरः तेन धनुषि प्रयुज्य
प्रत्यञ्चाम् आकर्णम् आकृष्य रावणस्य दिशा विसृष्टः |
मूर्तिमान् कालः इव दुर्धरः अमोघः स शरः रावणस्य हृदयं
विव्याध | तत्क्षणमेव तस्य हस्तात् चापबाणौ अपि गलितौ | मदान्धः,
मायावी, लङ्काधिपतिः राक्षसराजः स रावणः प्राणेभ्यः वियुक्तः
धरणीम् अवसन्नः | तस्य सैन्यं शतधा विकीर्णं दिशि दिशि पलायितम् |
रामस्य ऋक्षवानरसैनिकाः रामस्य जयम् उदीरयामासुः | देवाः
रामस्य उपरि पुष्पवृष्टिमकुर्वन् | गन्धर्वाप्सरसः महता
कण्ठेन गातुं प्रारभन्त -
गन्धर्वाप्सरसः -
हे सुराः, राघवलीलेयम्
रावणो यातो यमसदनम् ||
प्रसन्नवदना दिशः सर्वथा
कम्पविमुक्ता धरणी जाता
रविप्रभा सा पुनरविचलिता
आगता मङ्गलवेलेयम् ||१
`साधु, साधु' इति मुनिजनवचनम्
वाद्यवादनं किन्नररब्धम्
हर्षोल्लसितं सकलं भुवनम्
सुराणां रिपुर्गतो निधनम् ||२
रणे प्रचलितं विजयनर्तनम्
कपयो जयिनो भूपतिसहितम्
एते विदधति रामपूजनम्
ददानाः सुमनपत्रहारम् ||३
उच्चैर्गर्जत जयजयकारम्
अस्यत कल्पतरोः सुमहारम्
क्षिप्यत मणिभूषणसम्भारम्
विजयते त्रैलोक्ये सत्यम् ||४
श्यामराघवो धर्मपरोऽयम्
स्वयं श्रीहरिश्चक्रधरोऽयम्
विश्वविधाता विश्वासुरयम्
मानवं धरति रामरूपम् ||५
अयमुत्पत्तिस्थितिलयकर्ता
पङ्कजनाभस्त्रिभुवनगोप्ता
शरण्य एकः खलसंहर्ता
आश्रयो ब्रह्माण्डस्यायम् ||६
निधाय हृदये वत्सलाञ्छनम्
रक्षति सततं साधुसज्जनम्
पालयते सततं सत्पक्षम्
केवलो वेत्ति स आत्मानम् ||७
कमला सीता, श्रीविष्णुरयम्
सर्वज्ञोऽपि स अज्ञ इवायम्
लोकहितार्थं कुरुते युद्धम्
दर्शयत्यतुलरामचरितम् ||८
४९
BACK TO TOP
५० लीनते, चारुते, सीते
`रावणो यातो यमसदनम्'
श्रीरामः बिभीषणं रावणस्य और्ध्वदेहिकं संस्कारं
विधातुमादिशत् | स आह, `मरणान्तानि वैराणि | अस्माकं
कार्यमपि समाप्तम् | अतः भवान् अग्रजस्य अन्त्यसंस्कारं
विदधतु | यथा स तव सम्बन्धी, तथा ममापि' इति | रावणस्य
निधनेन तस्य अन्तःपुरे कोलाहलः जातः | श्रीरामः आत्मनः
रणकर्कशं रूपं त्यक्त्वा अभिरामरूपं धृतवान् | सः
हनुमन्तमवदत्, `हे वीर, भवान् जानकीं गत्वा तस्यै
विजयवार्ताम् अस्माकं कुशलं च निवेदय' इति | हनुमतः
रावणवधादिवृत्तं निशम्य सीता हर्षातिशयात् निःशब्दा
जाता | सा केवलमाह, `भक्तवत्सलस्य भर्तुः दर्शनम्
इच्छामि' इति |
हनुमतः तस्याः अवस्थायाः वर्णनं श्रुत्वा प्रभोः अपि
नयने बाष्पाकुले जाते | सः बिभीषणमादिशत्, `भवान्
जानकीं मम समीपं त्वरितम् आनयतु' इति | सीता रामसंमुखे
अवस्थिता | उभौ अपि परस्परम् अनिमिषनेत्राभ्याम् अपश्यतः |
अनन्तरं राजा रामचन्द्रः जानकीं मृदुवाण्या अब्रवीत् -
श्रीरामः -
बहुयत्नैस्त्वं पुनर्वीक्षिता कान्ते
लीनते, चारुते, सीते ||
भीषणं समाप्तं युद्धम्
दण्डितोऽपराधोऽशेषम्
क्रोधोऽपि च यातो विलयम्
तन्मयाऽऽचरितं यदभूदुचितं नृपतेः ||१
सङ्गरे कृतं रिपुहननम्
प्रतिकृतं रिपोरपकृत्यम्
उन्नतं पुनर्मे शीर्षम्
तव सौभाग्यात् कपयो जयिनो युद्धे ||२
सर्वथा रक्षितं वचनम्
मद्यशो लाञ्छनान्मुक्तम्
वीक्षिता प्रिया प्रत्यक्षम्
मम शौर्येणाऽनमयमहं दैवं मे ||३
तव कृते सागरस्तीर्णः
वानरः कृतार्थो जातः
सुग्रीवो विजयं प्राप्तः
सुरललनास्ता गायन्ति शुभं भद्रे ||४
त्वन्निमित्तमेतद् वृत्तम्
न तु पुनस्त्वदर्थं विहितम्
लाञ्छनं मया मे मृष्टम्
रघुवंशोऽयं गतसन्मानं लभते ||५
दृग्व्यथा यं हि पीडयते
दीपोत्सवमेष न तनुते
अपघाताशङ्का चित्ते
कथमयि कान्ते, त्वयि विश्वासं कुर्वे ||६
कपटिको रावणः कामी
सोऽवसत् त्वया सह पापी
नयनोत्था कुटिला भृकुटी
न च सुस्पष्टं वक्तुमतो शक्तिर्मे ||७
साधितं मया कर्तव्यम्
दशदिशो याहि स्वच्छन्दम्
मा प्रार्थय मम वाऽऽदेशम्
सखि, सम्बन्धो नष्टोऽद्यासौ सीते ||८
५०
BACK TO TOP
५१ स्वामिनी सदा मे
`सखि, सम्बन्धो नष्टोऽद्यासौ सीते'
इति रामस्य वज्रकठोरैः शब्दप्रहारैः जानकी
कामप्यवस्थां गता | तस्याः लोचनाभ्यां निरन्तरः
अश्रुप्रवाहः इव समजायत | सा रामचरणौ स्पृष्ट्वा,
ताभ्यां शप्त्वा पुनः पुनः स्वशुद्धतां प्रत्यजानात् |
तथापि कर्तव्यकठोरः रामचन्द्रः तूष्णीमेव अतिष्ठत् |
अन्ते देवतातुल्या सा जानकी लक्ष्मणम् अब्रवीत्, `
हे लक्ष्मण, अधुना मदर्थे चितां रचय | देहत्यागात्
उपायान्तरं न विद्यते' इति |
चिता सिद्धा | श्रीरामं प्रदक्षिणीकृत्य अग्निज्वाला इव
सा सीता अग्निमेव प्रविवेश | `हा, हा' इति करुणोद्गाराः
सकलसैन्यात् श्रुताः | किन्तु क्षणान्तरेण तां चितां विदार्य
सीतां गृहीत्वा स्वयम् अग्निदेवः आविर्बभूव, श्रीरामं
च उवाच, `हे राम, सीता उत्पत्तिपरिपूता | किमस्याः
पावनान्तरैः | तां स्वीकुरुष्व इति अहं त्वाम् आज्ञापये' इति |
श्रीरामस्य नयनाभ्यां बाष्पौघः इव प्रावहत् |
सः तं हव्यवाहनंविज्ञापयामास -
श्रीरामः -
लोकसाक्ष्यतः संशुद्धा सती जानकीयम्
स्वामिनी सदा मे साक्षात् धरित्रीसुतेयम् ||
किं न ज्ञातमेतस्या मे परमशुद्धशीलम् ?
किं तथापि जनयति लोकाधिपो लोकरोषम् ?
लोकनायकानां शक्तिर्लोकमान्यतेयम् ||१
जानकीमयोध्यानगरीमीदृशीमनेष्यम्
विषयलुब्धमिति मां लोका अमंस्यन्त नूनम्
प्रजास्नेहभावमवश्यं तदानीमहास्यम् ||२
प्रजा रञ्जयति यः ससुखं स राजा मतो मे
राजधर्म उपदिशते मां तत्त्वमीदृशं मे
प्रजा ईश्वरीयं रूपं कोटिशो मदर्थम् ||३
प्राणदानमपि कर्तव्यं प्रजायाः सुखार्थम्
मनसि वर्तते मे श्रद्धा दृढा सर्वदेयम्
मोचनं हि सीताऽऽश्लेषादतो मे सुशक्यम् ||४
प्रवृत्ते तु सीतारुदने संयमावसानम्
कथं क्लेदयेऽहं नेत्रे ?स्थितं सर्वसैन्यम्
स्तम्भितो मया बाष्पौघः पक्ष्मणोर्निगूढम् ||५
एक एव सीताहृदये नरो राम आस्ते
जानकीतरा वा नारी राममनसि नास्ते
अग्निदेव, त्वच्चरणाभ्यां शपे भूय एवम् ||६
विषयलम्पटो दुःशीलो यदपि रावणोऽसौ
अनुल्लङ्घ्यसीमाबद्धो विकटसागरोऽसौ
न हि स्पृष्ट्मस्याश्छायागतं तेन गात्रम् ||७
अग्निदेव, शिरसावन्द्यस्त्वादेश आस्ते
राघवोऽपि सीतादिव्यादद्य धन्य आस्ते
पुनर्लोकजननीं लभते ह्ययोध्याप्रजेयम् ||८
५१
BACK TO TOP
५२ त्रिवारजयकारं राघव
`स्वामिनी सदा मे साक्षात् धरित्रीसुतेयम्'
इत्युक्त्वा श्रीरामः जानकीं स्वीचकार | सर्वापि सेना
प्रमुदिता | अनन्तरं श्रीरामः बिभीषणम् आदिदेश, `हे
बिभीषण, मदर्थे त्यक्तजीवितेभ्यः एतेभ्यः वीरेभ्यः रत्नभूषणानि
प्रदाय सन्तोषयतु भवान् | पश्चाद् भवान् स्वयं स्वराज्यम्
उपभुङ्क्ताम्' इति | तदानीं रामः भरतदर्शनाय समुत्सुकः
आसीत् | बिभीषणेन पुष्पकविमानम् आनायितम् | श्रीरामः
सीतालक्ष्मणाभ्यां सह अयोध्यां प्रस्थितः | गगनोत्पतिते तेषां
विमाने सर्वे सैनिकाः रामस्य जयजयकारम् उदघोषयन् | मार्गे
विविधान् भूप्रदेशान् सीतायै दर्शयन् रामः अल्पविश्रामार्थं
भरद्वाजस्य ऋषेः आश्रमं प्राप | तस्मिन्नेव दिने तेषां
वनवासस्य चतुर्दश वर्षाणि समाप्तानि | भरतस्तु नगरात् बहिः
तापसः इव उषित्वा अयोध्यायाः शासनं करोति स्म | श्रीरामः
हनुमन्तं प्रहित्य भरताय स्वागमनस्य वार्तां प्रादात् | भरतस्य
सन्तोषस्य सीमा एव नासीत् | शत्रुघ्नेन सकला नगरी पताकातोरणैः
अलङ्कारिता | महार्हाणि विभूषणानि वसनानि च परिधाय सर्वे
नगरजनाः श्रीरामसीतालक्ष्मणानां दर्शनार्थं, स्वागतार्थं
च सिद्धाः समजायन्त | शनैः शनैः पुष्पकविमानं धरणीम्
अवततार | रामादीनां दर्शनमात्रे एव तेषां जयजयकारशब्दः
धरणीं च गगनं च व्याप्नोत् | भरतः पुरःसृत्य श्रीरामस्य
चरणौ जग्राह, तस्य सुपूजिते पादुके पुनः तस्य चरणयोः न्यवेशयत्
च | आनन्दाश्रुभिः क्लिन्नाभ्यां लोचनाभ्यां श्रीरामं पश्यन्
असौ तं स्वराज्यं प्रतिग्रहीतुं विज्ञापयामास | श्रीरामः भरतं
दृढम् आश्लिष्यत् | अनन्तरं सीतारामलक्ष्मणाः तिस्रः अपि जननीः
अवन्दन्त | एतेषां सर्वेषां मिलनमहोत्सवः सर्वेषाम् एव हर्षाय
अजायत | सर्वाः प्रजाः समेत्य एव श्रीरामस्य जयजयकारं कर्तुम्
आरभन्त -
अयोध्यावासिनो जनाः -
त्रिवारजयकारं राघव, त्रिवारजयकारम्
पुष्पकयानादिहावतीर्णं स्वर्गसुखं मूर्तम् ||
तवाऽऽशंसते चिरं जीवनम्
सरयूसरितः पुण्यं सलिलम्
पुलकितपवनः पुलकितभुवनम्
अहल्येव चोद्धृता साम्प्रतं नगरीयं नूनम् ||१
भग्नो विरहो यथा पिनाकम्
महोऽनुष्ठितः स्वयंवरसमम्
मङ्गलोत्सुकं त्वयोध्यापुरम्
अर्पयते ते साश्रुलोचनम् प्रीतिपुष्पहारम् ||२
पावनाच्च तव दृष्टिस्पर्शात्
उत्सवोऽयमारब्धो हर्षात्
चतुर्दशाब्दा विगताः स्मरणात्
स्वीकुरुष्व सिंहासनमेतत् तव प्रभो, सिद्धम् ||३
शिरसि जलं ते सप्तनदीनाम्
अभिषेकान्ते यातु तीर्थताम्
अनुशासन्तस्ते धर्माज्ञाम्
पठन्तु मुनयो वैदिकमन्त्रान् पुनरपि ते सार्थम् ||४
पितुर्वाञ्छितं यातु पूर्तताम्
रामशासनं पुरे वर्तताम्
तत् कौसल्या स्वयं वीक्षताम्
देव्या सह त्वं सपुत्रपौत्रं भुङ्क्ष्व स्वाधिकारम् | ५
यद् यद् रचितं स्वप्ने प्रजया
अनुभूतं तद् प्रत्यक्षतया
राजा रामो राज्ञी सीता
चतुर्वेदवत् राघवबन्धूनर्चति लोकोऽयम् ||६
रामशासने सति वसुधायाम्
अङ्कः केवलमिन्दुकलायाम्
स्त्रीनयने कज्जलरेखायाम्
कृतौ परिणमेदयोध्यापुरे वचनस्थं सत्यम् ||७
वर्षतु काले मेघो विपुलम्
सस्यशालिनी धराऽनवरतम्
चरतु ससेवं जनः स्वधर्मम्
शान्तिः शान्तिर्मुनिभिरभीष्टा दधतामाकारम् ||८
५२
BACK TO TOP
५३ यच्छतु वरमेकं प्रभुर्मे
`राघवस्य जयजयकारम्'
उद्घोषयन्तः एव प्रजाजनाः तं राजमन्दिरम् अनयन् | एकस्मिन्
सुमुहूर्ते सीतारामौ राज्ये अभिषिक्तौ | एवं रामराज्यस्य शुभारम्भः
जातः | राज्याभिषेकार्थम् आगताः सर्वे जनाः श्रीरामेण यथोचितैः
पारितोषिकैः सत्कृताः | अनन्तरं श्रीरामेण सुग्रीवाङ्गदादयः सर्वे
वानरवीराः महार्हैः अलङ्कारवस्त्रैः संमानिताः | सुग्रीवं तावत्
रामः आत्मनः पञ्चमं बन्धुमेव अमन्यत | ते सर्वे वानरवीराः
द्वित्राणि मासानि यावत् अयोध्यायाम् अवसन् | तदनन्तरं श्रीरामः
सुग्रीवं किष्किन्धां प्रतिगन्तुम् अन्वजानात् | तथा च बिभीषणाय
अगणितानि भूषणानि प्रदाय तमपि लङ्कागमनाय अनुजज्ञे |
समारोहेऽस्मिन् वर्तमाने हनुमान् ससंभ्रमम् एत्य श्रीरामस्य
चरणौ गृहीत्वा भावस्निग्धेन स्वरेण तं व्यज्ञापयत -
श्रीहनुमान् -
यच्छतु वरमेकं प्रभुर्मे
पदयोरनयोर्भक्तिरविचला शुद्धा भवतु सदा मे||
विचलतु न कदा चरणाभ्यां ते
चञ्चलमेतन्मनो रघुपते,
यावद् रामकथा भुवि तावद्, आयुर्भवतु विभो मे ||१
वदने नित्यं राघवचरितम्
अस्तु श्रवणे रामकीर्तनम्
हे रघुनन्दन, रामादितरश्छन्दो नास्तु विभो मे ||२
वीरोत्तम, ते पावनचरितम्
गायन्त्वप्सरसो हि मदर्थम्
वितरतु देवस्तच्छ्रवणार्थममरत्वं चिरदासे ||३
कृत्वा राघवचरितनिपानम्
स्थाने स्थाने मेघ इवाहम्
शतधाराभिर्वर्षेयमहं रामकथामिह लोके ||४
रामकथाया गानं मननम्
तद्रामस्यामूर्तदर्शनम्
स्वामी रूपं स्वं दर्शयताम् यत्र यदा काङ्क्षे ||५
यावद् भुवनं यावद् वचनम्
तावद् रामायणं नूतनम्
सप्तसुस्वरै रामकथायाः स्वादो देयो मे ||६
अगणितवदनान्यगणितभाषाः
एतेभ्यो मे नाऽन्याऽपेक्षा
श्रीरघुनन्दनचरितगुरुत्वं तैरभिधेयं मे ||७
सूक्ष्मतममहं धृत्वा देहम्
कुर्वीय त्रिभुवनसञ्चारम्
तथापि लाभो रामकथाया भवतु स्थाने स्थाने ||८
५३
BACK TO TOP
५४ हे नाथ, दोहदं परिपूरय मे त्वरितम्
`यच्छतु वरमेकं प्रभुर्मे'
इति श्रीहनुमतः प्रार्थना श्रीरामेण अनुज्ञाता |
रामकथया सह हनुमान् अपि अजरामरः अजायत | तथापि
श्रीरामलीलाचरितम् अद्यापि न समाप्तम् |
श्रीरामे सिंहासनाधिष्ठिते सर्वत्र आनन्दः एव विराजते
स्म | ननु पृथिवीतले मूर्तः स्वर्गः अवतीर्णः आसीत् |
श्रीरामचन्द्रस्य सहवासे देवतासमानयाः सीतायाः अपि
दिनानि सुखेन सह एव उदयन्ति स्म, सुखेन सह एव अस्तं यान्ति
स्म | एकदा जानकीरामौ अशोकवने उपविष्टौ आस्ताम् | तदा
तस्याः पाण्डुरच्छायां देहकान्तिं मन्दमन्थरां
देहलतिकां च विलोक्य श्रीरामः मन्दस्मितं कृत्वा तां
पप्रच्छ, सीते, अपि त्वं किमपि वाञ्छसि ?' इति |
भर्तुः प्रश्नस्य अभिप्रायं विज्ञाय सापि भर्तारं सलज्जं
सस्मितं प्राह -
सीता -
रदनयोर्वर्तते सलज्जमाशा सार्थम्
हे नाथ, दोहदं परिपूरय मे सकलम् ||
कामये काननं यातुं सुविहारार्थम्
कामये शकुनिवद् गातुमहं स्वच्छन्दम्
गुञ्जति श्रवणयोर्वंशी मधुरालापम् ||१
कामये ललयितुं मृगशावं निष्पापम्
मत्प्रियं तदमलं नयनयुगं सुविशालम्
परिचुम्ब्य तं तृणं भोजयामि सानन्दम् ||२
वल्कलं भवतु मे जलेन सर्वं क्लिन्नम्
गर्गरी कटितले करे च सिञ्चनपात्रम्
अस्तु मे मस्तके तथा घटान्तरभारम् ||३
कामये निखातुं कन्दफलानि समूलम्
तत्त्वचं लीलया निपुणतया व्यपनेतुम्
स्वादितुं समीहे तदमृतवत् सरसान्नम् ||४
विश्रमं समीहे सहकारतले सायम्
मञ्जरी तदीया निपततु भाले स्वैरम्
दूरतः करिष्यति वनराजो निर्घोषम् ||५
कार्मुकं गृहीत्वा बद्ध्वा पृष्ठे तूणम्
इच्छामि वनान्ते पर्यटितुं मृगयार्थम्
विशसती चरेयं श्वापदमीक्षितमात्रम् ||६
कामये प्रभाते स्थित्वा वेदिसमीपम्
होतृभिर्विदग्धैः साधयितुं वेदान्तम्
हुतभुजस्तेजसा भवतु वदनमारक्तम् ||७
हे नाथ, हससि किं मूढामिव मामेवम्
पूरय प्रभो, मे तावदिदं निर्बन्धम्
युज्यते प्रभो, किम् अकालपरिहासोऽयम् ?||८
५४
BACK TO TOP
५५ वद यामि लक्ष्मण क्व नु किमहम्
`हे नाथ, दोहदं परिपूरय मे त्वरितम्'
इति जानकी स्वदोहदं रामचन्द्राय न्यवेदयत् | सः अपि `तव
इप्सितम् अचिरेण एव पूरयिष्यामि' इति तां प्रत्यजानात् | तयोः
एतस्य सुखसंवादस्य परेद्युः एव भद्रः नाम गुप्तचरः
रामचन्द्राय राज्यवृतं निवेदयन् आह, `हे राजन्,
सेतुबन्धनं रावणवधं च अधिकृत्य प्रजाजनाः तुभ्यं
धन्यवादान् प्रयच्छन्ति, तथापि - `
तथापि किम् ?यत् सत्यं तत् निःशङ्कं वद' इति
आज्ञप्तः स आह, `एकम् एव तवाचरणं प्रजाजनेभ्यः न
रोचते | रावणस्य गृहे कतिपयमासान् स्थिता जानकी त्वया
पत्नी इति कथं स्वीकृता इति ते न अवगच्छन्ति | कीदृशः नाम
आनन्दः तादृशया तया सह प्रणयलीलया भवान् लभते `
इति ते पृच्छन्ति' इति | रामचन्द्रस्य मस्तके वज्रस्य प्रहारः
जातः इव | तथापि स्वप्राणैः शप्त्वा सः लक्ष्मणम्
आज्ञापयामास, `हे लक्ष्मण, जानकीं वाल्मीकिमुनेः
आश्रमस्य समीपं विसर्जय |' इति | न वा लक्ष्मणः, न वा
रामचन्द्रस्य कोऽपि अन्यः भ्राता रामाज्ञायाः उल्लङ्घनं
कर्तुं प्रबभूव | रामस्य आदेशानुसारं लक्ष्मणः जानकीं
रथेन वनं निनाय | `मम दोहदाः एव रामेण पूर्यन्ते'
इत्येव सीता अमन्यत | यदा तु लक्ष्मणः तस्यै सत्यम् अकथयत्
तदा सीता पुनः एकवारं दुःखसागरे निमग्ना | गद्गदस्वरेण सा
लक्ष्मणमाह -
सीता -
वद यामि लक्ष्मण, क्व नु किमहम् ?
पतिचरणौ क्वेक्षे भूयोऽहम् ?
भवति कठोरा करुणा हि यदा
अरुणं ग्रसते तमिस्रा यदा
जयते वरुणं पावको यदा
वृन्ततो हि च्यवते शाश्वतिकम् ||१
पीडितौ मया पितरौ व्यर्थम्
नाहं कन्या न वा कलत्रम्
काशं गणयति कनकं हीनम्
तपसि विरक्ता सिद्धिरियम् ||२
असत्यमग्नेर्वचनं जातम्
नास्तिकमीशो गणयति भक्तम्
त्यक्त्वा यद्यपि पतिव्रताऽहम्
पदतले कम्पते भूमितलम् ||३
उज्झितुकामाः प्राणा देहम्
तदाङ्गानि किं वहन्ति भारम् ?
आह्वयते मां गङ्गासलिलम्
चिरयते कुत्र तच्चरमपलम् ?४
समाप्तमायुः सीतोपरता
अद्य पुनरहं माता जाता
रघुकुलदीपककृते जीविता
फलधरत् शीर्यते कुसुममिदम् ||५
मरुभूमौ वा विजने विपिने
वंशाङ्कुरमिदमहं वर्धये
सुखं वर्ततां रामो नगरे
जानकी जनेभ्यो ध्वस्तेयम् ||६
गच्छ पुरं प्रति सौमित्र त्वम्
विध्यति शरवत् मां मे वचनम्
रामो नृपतिर्न पतिर्मेऽयम्
स्खलति वदन्ती रसनेयम् ||७
मम मातॄणामितो वन्दनम्
इतोऽभिवन्दे श्रीरघुनाथम्
ददामि तुभ्यं चाशीर्वचनम्
न क्षमे भाषितुं त्वधिकतरम् ||८
५५
BACK TO TOP
५६ रघुवरनगरी बालौ यातम् रामाख्यानं गायतमेवम् ||
`वद यामि लक्ष्मण क्व नु किमहम्'
अस्य सीतायाः प्रश्नस्य समाधानं लक्ष्मणः कर्तुं न
शशाक | गर्भवतीं जानकीं तत्रैव विहाय लक्ष्मणः विदीर्णेन
अन्तःकरणेन सह अयोध्यां प्रत्यवर्तत | कर्तव्यकठोरः
श्रीरामः कर्तव्यमिति राज्यम् अशात् |
सीता तु सौभाग्यवशात् वाल्मीकिमुनिना आसादिता | सः
तस्याः स्वकन्यायाः इव पालनं कृतवान् | यथासमयं सीता
पुत्रयुग्मं प्रासूत | भूतपिशाचादीनां प्रभावात् तौ
रक्षितुं वाल्मीकिः तयोः देहयोः परितम् अभिमन्त्रितौ कुशलवौ
पर्यवर्तयत | तथा च कुशलवौ इत्येव तयोः अभिधाने चकार |
वाल्मीकिमुनेः निपुणेऽवेक्षणे तौ बालकौ ववृधाते | शनैः
शनैः शिशुवयः अतीत्य तौ द्वादशवर्षीयौ कुमारौ सञ्जातौ |
तत्र अयोध्यायां श्रीरामेण सर्वश्रेष्ठः राजसूयः
नाम यज्ञः समारब्धः | यज्ञसमारोहं तं वीक्षितुं
सहस्रशः नृपाः, मुनयः प्रजाजनाश्च अयोध्यायां
समुपस्थिताः | मुनिश्रेष्ठः वाल्मीकिः अपि कुशलवाभ्यां नाम
स्वशिष्याभ्यां सह तत्र आययौ | त्रिकालदर्शिना वाल्मीकिना
कुशलवौ आज्ञापितौ -
वाल्मीकिः -
रघुवरनगरी बालौ यातम्
रामाख्यानं गायतमेवम् ||
मुनिजनपूजितसदने सदने
महाजनानां भवने भवने
मार्गे मार्गे राजपत्तने
युवयोर्गीतं विहरतु स्वैरम् ||१
विधाय नवफलमूलाहारम्
स्वरं चात्मनो रसेन पिपृतम्
समानयेथां स्वरेण स्वरम्
पालयतं लयतालविधानम् ||२
लभेथे यदा लोकमान्यताम्
लभेत श्रीरघुनाथो वार्ताम्
श्रोतुमुत्सुकोऽसावत्मकथाम्
प्रेषयिष्यते वां निमन्त्रणम् ||३
सर्गानुक्रममवधारयतम्
भावरसमयं भवतु गायनम्
गायन्तौ भागशः प्रतिदिनम्
समापयेथामिदमाख्यानम् ||४
मा कथयेथां नामग्रामम्
आत्मानौ मे शिष्यौ ब्रूतम्
स्वरे विधत्तं स्मितं सुमधुरम्
यदेवोचितं तदेव वदतम् ||५
शृणुते भूपो यदा स्वयमिदम्
भवतु संयतं मुद्राभिनयम्
नेदं काव्यं सुधानिधिरयम्
आदरिष्यते रघुनाथस्तम् ||६
मा स्वीकुरुतं धनं काञ्चनम्
न वा दक्षिणां न च वा दानम्
किं मुनेर्धनेन प्रयोजनम्
सकलमीप्सितं रघुवरार्पणम् ||७
||श्रीरामचन्द्रार्पणमस्तु ||
५६
BACK TO TOP
%1
% File name : giitaraamaayaNa.itx
%--------------------------------------------
% Text title : Samskrit giitaraamaayaNa
% Author : Prof. Sitaram B. Datar, Andheri, Mumbai, India
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : Based on G. D. Madgulkar's composition of Marathi Geetaramayan
% Transliterated by : Sunder Hattangadi, sunderh@hotmail.com
% Proofread by : Sunder Hattangadi, sunderh@hotmail.com
% Latest update : November 20, 2011
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% https://sanskritdocuments.org
% https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% 2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to (sanskrit at cheerful dot c om) .