ञिति निति च नित्यम् आदिरुदात्तो भवति। गर्गादिभ्यो यञ् गार्ग्यः। वात्स्यः। वासुदेवार्जुनाभ्यां वुन्
४।३।९८ वासुदेवकः। अर्जुनकः। प्रत्ययस्वरापवादो ऽयं योगः। प्रत्ययलक्षणम् अत्र न इष्यते, तेन गर्गाः, बिदाः, चञ्चाः इत्यत्र यञि कनि च लुप्ते न भवति।
"वासुदेवकः" इति। वासुदेवे भक्तिरस्येत्यर्थे वुन्()।
अथेह गर्गा, विदा इति "यञञोश्च"
२।४।६४ इति बहुषु लुकि कृते, चञ्चेव चञ्चेत्यत्र च "इवे प्रतिकृतौ" (५।३।
९६) इत्युत्पन्नस्य कनः "लुम्? मनुष्ये"
५।२।९७ इति लुपि कृते कस्मान्न भवति,
लुप्तेऽपि प्रत्यये "प्रत्ययलोपे प्रत्ययलक्षणम्? (१।१।
६२) इत्यस्ति प्राप्ति? इत्यत आह--"प्रत्ययलक्षणमत्र नेष्यते" इति।
तत्? कथं पुनरिष्यमाणो न भवति? "संज्ञायामुपमानम्()"
६।१।१९८ इत्यत्र वक्ष्यमाणाज्ज्ञापकात्()। अथ वा "न लुमताङ्गस्य"
१।१।६२ इत्यनेन यन्नाम किञ्चिदङ्गस्य कार्यमङ्गाधिकारे विहितमेव, तेन प्रतिषेधादिह प्रत्ययलक्षणं स्वीकार्यं न भविष्यति। एवमुत्तरात्रापि प्रत्ययलक्षणाभावो वेदितव्यः। "यञि कनि च लुप्ते" इति। चकाराद्()विदाधञि च॥