इच्च उच्च तौ इदुत्तौ। इकारोकारायुपधे यस्य स तथेक्तः। "निदुर्वहिः" इत्यादि। सम्भवदर्शनार्थमेतत्(), न परिगणनम्(); वयावर्त्त्याभावात्()। "मातुः करोति, पितुः करोति" इति। अत्र यथा न भवति तथा वक्ष्यति। "पुंस्कामा, मुहुःकामा" इति। अत्रापि यथा न भवति तथा वक्ष्यति। "चतुष्कपालम्(), चतुष्कष्टकम्()" इति। चतुःशब्दस्य कपालकण्टकशब्दाभ्यां बहुव्रीहिः, समाहारे द्विगुर्वा। "अकारान्तोत्तरपदो ["पदद्विगुः"--प्रांउ।पाठे] द्विगुः स्त्रियां भाष्यते" (वा।१५६) इति स्त्रीलिङ्गता न भवति; "पात्रादीनां प्रतिषेधः" (वा।१५९) इति वचनात्()। "मातुः करोति, पितुः करोति" इति देश्यम्()। मातुपितृशब्दाभ्यां षष्ठ()एकवचनम्(); "ऋत उत्()"
६।१।१०७ इत्युत्त्वमेकादेशः, रपरत्वम्(), "रात्सस्य"
८।२।२४ इति सलोपः, रेफस्य विसर्जनीयः।
स च रेफस्याप्रत्ययत्वात्? प्रत्ययविसर्जनीयो न भवति, अतः षत्वं प्राप्नोति।
तत्कस्मान्न भवति? इत्याह--"कस्कादिषु" इत्यादि। परोहारः।
एकादेशश्चासो निमित्त्? चेति कर्मधारयः।
यद्येकादेशादिणो निमित्तभूतात्? षत्वं स्यात्(), कस्कादिषु भ्रातुष्पुत्रशब्दस्य ग्रहणं न कुर्यात्(); अनेनैव सिद्धत्वात्(), कृतं च, एतदेव ज्ञापयति--एक#आदेशनिमित्तात् षत्वं न भवतीति।
"पुम्मुहुसाः" इत्यादि।
वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--उत्तर
८।३।४२ सूत्रेऽन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतं विज्ञायेत। सा व्यवस्थितविभाषा, तेन पुंमुहुसोर्न भवति। अन्येषां तु नित्यमेव भविष्यति। पुमित्यस्य प्रहणं रुत्वादेशपक्षमाश्रित्य कृतम्()।
सकारादेशपक्षे हि विसर्जनीयाभावात्? प्रतिषेधसर्जनीय"
८।३।३४ इति सकारः। जिह्वामूलीयस्तु यथा न भवति तथा पूर्वमेव प्रतिपादितम्()। "मुहुकामा" इति। षत्वे प्रतिषिद्धे जिह्वामूलीयो भवति।
क्वचित्? "मुहुस्कामा" इति। सकारः पठ()ते। तत्र यथा पुंस्कामेत्यत्र जिह्वामूलीयाभावः प्राक्प्रतपादितस्तथेहापि प्रतिपाद्यः। "नैष्कुस्यम्(),
दौष्पुरुध्यम्()" इति ब्राआहृणादित्वात्? ष्यञि कृते तन्निमित्तायां च वृद्धाविदुदुपधत्वाभावात्? षत्वं न प्राप्नोति। "निश्ष्कुलम्(), दुश्ष्पुरुषः" इत्यत्रापि "गुरोरनुतः"
८।२।८६ इत्यादिना प्लुते विहिते नैव तत्प्राप्नोति, इदुदुपधत्वाभावादिति यो देशयेत्(), तं प्रत्याह--"नैष्कुल्यम्()" इत्यादि। वुद्धे स्तावद्वहिरङ्गत्वं तद्धितापेक्षत्वात्(), तद्धितो भवाद्यर्थापेक्षत्वाद्वहिरङ्गः। तेन तदाश्रिताऽपि वृद्धिर्वहिरङ्गा भवत#इ। प्लुतोऽपि दूरद्धूतावावर्थे वाक्यस्य विधीयमानत्वाद्विहिरङ्गः, षत्वं तु वर्णस्य पदसम्बान्धिनो दिधीयत इतयल्पापेक्षीत्यन्तरङ्गम्()।
तेनान्तरङ्गे षत्वे कत्र्तव्ये वृद्धिप्लुतयोर्थहिरङ्गयोरसिद्धत्वात्? प्रदत्र्तत एव षत्वम्()। [अयं भाहगः कांउ।पाठे नास्ति] तपरकरणमाशीः करोति, गोः करोति, धूः करोतीत्यत्र मा भूदित्येवमर्थम्()॥[अयं भाहगः कांउ।पाठे नास्ति]
"इदुदुपधस्य" इत्यादिना द्विस्त्रिश्चतुरिति ग्रहणं प्रत्याचष्टे। एतद्धि एवमर्थं क्रियते--द्विरादीनामेव विसर्जनीयस्य षत्वं यथा स्यात्(), पञ्चकृत्वः करोतीत्यत्र मा भूदिति। ननु च "इदुदुपश्रस्य"
८।३।४१ इत्यस्मिन्ननुवत्र्तमाने कृत्वोऽर्थो विवयो यसय पदस्य तस्य यो विसर्जनीय इत्येवं कृत्वोऽर्थविषयेण पदेन विसर्जनीयो यदा विशेष्यते, तदान्यस्य न प्राप्नोति; द्विरादेरन्यस्येदुदुपधस्य कृत्वोऽर्थवृत्तेः पदस्यासम्भवात्()। तस्मादन्तरेणापि द्विरादीनां ग्रहणम्(), तेषामेव हि विसर्जनीयस्य षत्वं भविष्यति। द्विस्त्रिश्चतुरिति शक्यमकर्तुम्()।
"कृत्वसुजर्थे षत्वं ब्रावीति कस्मात्()" इति।
अस्मिन्? षत्वविक्लपविधाने हेतुं कृत्वोऽर्थवचनस्य पृच्छति।
कस्मात्? "कृत्वोऽर्थे" इत्येवमुक्त्वेमं षत्वविकल्पं ब्रावीति? किं तत्? प्रयोजनं यतो हेतोरिह षत्वविकल्पविधौ कृत्वोऽर्थग्रहणं करोतीत्यर्थः। अत्र वक्ष्यमाण एवाभिप्रायः। अतो हेतुमाह--"चतुष्कपाले" इत्यादि। असति कृत्वोऽर्थग्रहणे चतुश्कपालेऽपि विभाषा षत्वं स्यात्(), नित्यं चोष्यते। तस्मादत्र विभाषा षत्वं मा भूदित्येवमर्थं कृत्वोऽर्थ इत्युच्यते। येनाभिप्रायेण परं पृष्टवान्(), तमाविष्कर्त्तुमाह--"ननु सिद्धं तत्र पूर्वेण" इति। नान्वित्यभ्युपगमे। एतदनेन दर्शयति--भवत्वनेन षत्वं विभाषा, तथापु पूर्वसूत्रेण नित्यं भविष्यति षत्वमस्य श्रवणम्(); यस्माद्यदाप्यनेन षत्वं न भवति तदापि पूर्वसूत्रेण "इदुदुपधस्य चाप्रत्ययस्य"
८।३।४१ इत्यनेन चतुष्कपाले सिद्धं षत्वमिति।
"सिद्धे ह्रयं विधत्ते" इति। सिद्धे प्राप्त इत्यर्थः। एतदाचष्टे--"इदुदुपधस्य" इत्यादिना नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विदधात। नाप्राप्ते तस्माद्येन नाप्राप्तिन्यायेन (व्या।प।४९) तस्यायं बाधकः स्यादिति। तदनेन यदुक्तम्()--"सिद्धं तत्र पूर्वेण" इति, तन्निराकृतम्()। तस्माद्विभाषानिवृत्त्यर्थ कृत्वोऽर्थग्रहणम्()। स्यादेतत्()--कृत्वोऽर्थविवक्षायां सुचि कृते तस्य यदा विसर्जनीयः क्रियते तदा पूर्वेण न प्राप्नोति, अप्रत्ययस्येति
८।३।४१ प्रतिषेधात्(); तपश्च "सिद्धे ह्रयं विधत्ते" इति यत्तन्नोपपद्यते,
तत्कुतो ह्रनेन विकल्पेन नित्यं षत्वं बाध्येत? इत्याह--"यदापि कृत्वोऽर्थे" इत्यादि। चतुःशब्दो वत्र्तत इति शेषः। अस्य च "सिद्धे ह्रं दिधत्ते चतुरः षत्वम्()" इत्यनेन प्रकृतेन सम्बन्धः। अस्यार्थः--एतदुक्तं भवनि, न केवलं यदा कृत्वोऽर्थवृत्तिश्चतुःशब्दस्तदा पूर्वेण प्राप्ते सतीमं षत्वविकल्पं विधत्ते, अपि तु यदा कृत्वोऽर्थस्तदापीति। अत्रैवोपपत्तिमाह--"लुप्ते कृत्वोऽर्थोये" इत्यादि। इत्यादि। हिशब्दो हेतौ। कृत्वोऽर्थे भवः कृत्वोऽर्थीयः,क सुच, गहादित्वाच्छः।
यस्मात्? "रात्सस्य" (८।२।
२४) इति लुप्ते कृत्वोऽर्थीये रेफस्याप्रत्यस्य विसर्जनीयो भवति तस्मात्? कृत्वोऽर्थेऽपि पूर्वेण नित्ये षत्वे प्राप्त इमं षत्वविकल्पं विधतते। ततश्च सर्वेत्र कृत्वोऽर्थेऽप्यकृत्वोऽर्थेऽपि नाप्राते पूर्वेण षत्वे विकल्प आरभ्यत इति तस्य बाधक एव स्यात्()। एवञ्चासति कृत्वोऽर्थग्रहणे चतुष्कपाले विभाषा षत्वं प्रसज्येत।
तस्मात्? तन्निवृत्त्यर्थं कृत्वोऽर्थग्रहणमिति ["इति" नास्ति--प्रांउ।पाठः] स्थितमेतत्()।
"एवम्()" इत्यादि। यदि कृत्वोऽर्थग्रहणं क्रियते,
एवं तर्हि तस्मिन्? सति किमिदानीं द्विस्त्रिश्चतुरित्यनेन कार्यम्()? न किञ्चित; व्यावर्त्त्यभावात्()। तस्मान्न कत्र्तव्यमिदमित्त्येवाभिप्रायः।[मेदेत्यभिप्रायः--प्रांउ।
पाठः] स्यादेतत्()--असत्यस्मिन्? पञ्चकृत्वः करोतीत्यादावपि विभाषा षत्वं स्यात्(),
अतस्तन्निवृत्तिरनेन क्रियते इति? अत आह--"अन्यो हि" इत्यादि। "इदुदुपधस्य"
८।३।४१ इत्यनुवत्र्तते, "कृत्वोऽर्थे" इति चोच्यते, न च द्विरादिभ्योऽन्य इदुदुपधः कृत्वोऽर्थे वत्र्तते;
तस्मात्? सामथ्र्यादेषामेव भविष्यति, नान्येषामित्यनर्थकं द्विरादीनां ग्रहणम्()।
"अक्रियमाणे" इत्यादिना असति हि द्विरादिग्रहणे यो दोषस्तं दर्शयति। यदि द्विरादिग्रहणं न क्रियेत, तदा विसर्जनीयस्य प्रकृतस्वात्स एव कृत्वोऽर्थग्रहणेन विशेष्यते--कृत्वोऽर्थे यो वत्र्तते विसर्जनीय इति।
कः पुनरेवं सति दोषः स्यात्()? इत्यत आह--"चतुरो न सिध्यति" इति। "तथा" इति। तथैवं कृत्वोऽर्थग्रहणेन विसर्जनीये विशेष्यमाणे चतुःशब्दस्य विभाषा षत्वं न सिध्यति।
किं कारणं न सिध्यति? इत्यत आह--"रेफस्य" इत्यादि। हिशब्दो हेतौ, यस्माच्चतुरः "रात्सस्य"
८।२।२४ इति सुचः सकारे लुप्ते प्रकृत्यवयवस्य रेफस्य विसर्जनीयः, तस्मान्न सिध्यति। न ह्रसौ विसर्जनीयः कृत्वोऽर्थे वत्र्तते।
अथ क्रियमाणेऽपि तस्मिन्? कस्मादेव दोवो न भवति? इत्यत आह--"तस्मान्()" इत्यादि।
तस्मिन्? द्विस्त्रिश्चतुरित्येत()स्मस्तूपादोयमाने कृत्वोर्थग्रहणं चतुःशदस्य विशेषणं न्यायं भवति।
तथा हि--तस्य श्रुतत्वात्? स एव विशेष्यते, कृत्वोऽर्थ यो वत्र्तते चतुःशब्द इति। लुप्तेऽपि कृत्वोऽर्थीये चतुःशब्दः कृत्वोऽर्थे वत्र्तत इति न भवति द्विरादिग्रहणे क्रियमाणेऽपि दोषः। तस्माद्()द्विरादिग्रहणं कत्र्तव्यम्()--कृत्वोऽर्थग्रहणं तस्य विशेषणं यथा स्यात्()। एतदपि न भवति तस्य प्रयोजनमिति दर्शयन्नाह--"प्रकृतं पदं तदन्तम्()" इति। तदन्तं विसर्जनीयान्तम्()। अतः "तस्यापि तद्विशेषणं न्याय्यम्()" उपपत्तिमाह--तदन्तत्वं तु पदस्य विसर्जनीयेन विशेष्यत्वाल्लभ्यते। अपिशब्दोऽवधारणे। तस्यैवेत्यर्थः।
कुत एतत्()? व्याप्तिन्यायात्()। विसर्जनीये हि विशेष्यमाणे चतुरो न सिध्यति, पदे तु विशेष्यमाणे सर्वत्र भवति।
तस्मात्? तदेव विशेषयिष्यामः--कृत्वोऽर्थे यद्वत्र्तते पदमिति। पदे विशेष्यमाणे चतुरः षत्वं सिध्यत्येव। लुप्तेऽपि कृत्वोऽर्थीये चतुरित्येतत्पदं कृत्वोऽर्थे वत्र्तत इति। तस्मान्नार्थो द्विरदिग्रहणेनेति श्लोकवात्र्तककारेम प्रत्याख्यातं द्विरादिग्रहणम्()।
सूत्रकारस्य त्वयमभिप्रायः--विसर्जनीयस्य कार्यित्वात्? पदेन विशेष्यमाणत्वाच्च प्राधान्यम्()। तत्रासति द्विरादिग्रहणे प्राधान्यादविसर्जनीय एव कृत्वोऽर्थग्रहणेन विशेष्यत ति।
त()स्मस्तु सति तदुपादानसामथ्र्यात्? साक्षात्? क्षुतत्वाच्च द्विरादेरेव पदस्यैतद्विशेषणम्(), न तु स्वरितत्वादनुमितस्य विसर्जनीयसय। तस्माद्युक्तं द्विरादिग्रहणं कर्त्तुमिति।
"एवं तु" इत्यादिना ग्रन्थेन द्विस्त्रिश्चतुग्र्रहणं सूत्रकारमतेन स्थापयति। "पूर्वेण" इति। "इदुदुपधस्य"
८।३।४१ इत्यादिना।
तत्रैतत्? स्यात्()--"इदुदुपधस्य" इत्यस्यावकाशः--निष्कृतम्(), दुष्कृतमिति; अस्यावकाशः--द्विष्करोतीत्यादौ;
चतुष्करोतीत्यत्र परत्वात्? पूर्वविधिं बाधित्वाऽयमेव विकल्पो भविष्यति? इत्यत आह--"पूर्वत्रासिद्धे" इत्यादि।
किं कारणं नास्तीति? अत आह--"अभावादुत्तरस्य" इति॥