सहिरयं सोधभूतो गृह्यते। तस्य सकारस्य मूर्धन्यादेशो न भवति। परिषोढः। परिसोढुम्। परिसोढव्यम्। सोढभूतग्रहणं किम्? परिषहते।
सेधतेः। न षत्वमिति। "न रपरे"त्यतो नेत्यनुवृत्तेरिति भावः। गङ्गां विसेधतीति। गच्छतीत्यर्थः। इह "उपसर्गात्सुनोती"ति षत्वं न भवति। अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि। तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव। षिधू इति। ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह---शास्त्रं शासनमिति। माङ्गल्यं तु-- शुभकर्म। षिध गत्यामितिवदस्यापि रूपाणि।
सेधतेर्गतौ। श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव-- "विषेषिधीति"। न च सेदेति शपा निर्देशाद्यङलुकि "उपसर्गात्सुनोती"ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयथ्र्यापत्तेरिति दिक्। षिधू शास्त्रे। माङ्गस्यं- मङ्गलक्रिया। स्वार्थे ष्यञ।