"आदेशप्रत्यययोः" (८।३।
५९) इति "उपसर्गात्? सुनोति"
८।३।६५ इति च प्राप्तस्य षत्वस्यार्य प्रतिषेधः। "सेसिच्यते" इति। "आदेशप्रत्यययोः"
८।३।५९ इति प्राप्तिः। "अभिसेसिच्यते" इति।
अत्र "उपसर्गात्? सुनोति"
८।३।६५ इत्यादिना।
कथं पूनरत्र प्रतिषेधः प्रवत्र्तते? यावता "उपसर्गात्()"
८।३।६५ इत्यादिना सूत्रेण षत्वं प्रतिषेधविषये विधीयते। अत्रोपसर्गस्थान्निमित्ताद्या प्राप्तिः सा यथा "सात्पदाद्योः"
८।३।११३ इतीमं पदादिलक्षणप्रतिषेधं बाधते, तथा "सिचो यङि" (८।३।
११२) इत्यतच्च? इति देश्यमाशङ्क्याह--"उपसर्गाथा प्राप्तिः" इत्यादि। येन नाप्राप्तिन्यायेन (व्या।प।४९) पदादिलक्षणस्यैव प्रतिषेधस्य बाधा युक्ता, तत्र प्राप्त एवोपसर्गार्थमारभ्यते, "सिचो यङि" (८।३।
११२) इत्येतस्मिन्? पुनः प्राप्ते चाप्राप्ते च।
अथ वा--"पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्()" (व्या।पा।
९) इत्येवमुपसर्गात्? षत्वप्राप्तिः सिचः पदादिलक्षणमेव प्रतिषेधं बाधते, न तु सिचो यङीत्यभिप्रायः॥