याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषाम् अन्त्यो यः टिः स प्लवते यज्ञकर्मणि। स्तोमैर्विधेमाग्नये३। जिह्वामग्ने चकृषे हव्यवाह३म्। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्य एव इष्यते, तदर्थम् अन्तग्रहणम्।
इहान्तग्रहणं टेरित्येतस्य निवत्र्तकं वा स्यात्()? विशेषणं वा? पूर्वस्मिन्? पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्()। इतर()स्मस्त्वन्तग्रहणमनर्थकम्(), न ह्रनन्त्यष्टिः सम्भवति; "अचोऽन्त्यादि टि"
१।१।६३ इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह--"अन्तग्रहणं किम्()" इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह--"याज्या नाम" इत्यादि। गतार्थम्()॥