"क एष प्रणवो नाम" इति।
इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात्? प्रश्नः। "पादस्य वा" ["पादस्य चेल्यादिना"--प्रांउ।पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। "वान्त्यमक्षरम्()" इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। "उपसंगृह्र" इति। गृहीत्वेत्यर्थः।
तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत्? तदादि। अक्षरञ्च शेषञ्चेति [इति--नास्ति प्रांउ।पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्(), तदाचि च तदक्षरशेषञ्च,
तदक्षरशेषं यत्रान्त्यात्? स्वरात्? परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति।
यत्रान्त्यात्? स्वरात्? परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्()।
योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत्? त्रिमात्रनोकारम्(),
ओङ्कारं वा विदवाति तत्? प्रणवं कथयन्ति। "जिन्वतो३म्()" इति। जयतेः परस्य लट्(), तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। "सुम्नयो३म्()" इति।
सुम्नशब्दात्? क्यच्(), "क्याच्छब्दसि"
३।२।१७० इति उप्रत्ययः, "देवसुम्नयोर्यजुषि काठके"
७।४।३८ इति आभावः,
सुम्नाअयुस्? इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः।
ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति,
तत्? किं टिग्रहणेन? इत्यत आह--"टिग्रहणम्()" इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ
१।१।५१न्त्यस्यैव स्यात्()। अतष्टिग्रहणं क्रियते--सर्वस्यैव टेर्यथा स्यादिति। "अन्त्यस्य मा भूत्()" इति।
ओङ्कारस्यानेकाल्त्वात्? सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्()॥