ध्या ख्या पृ̄ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति। ध्यातः। ध्यातवान्। ख्यातः। ख्यातवान्। पूर्तः। पूर्तवान्। मूर्तः। मूर्तवान्। मत्तः। मत्तवान्। रदाभ्याम्, संयोगादेः इति च प्राप्तः प्रतिषिध्यते।
"ध्यै चिन्तायाम्()" (धा।पा।९०८), "ख्या प्रकथने" (धा।पा।१०६०), "चक्षिङः ख्याञ्()"
२।४।५४ इति च--द्वयोरपि ग्रहणम्()। ननु च चक्षिङादेशस्य सानुबन्धकत्वान्निरनुबन्धकग्रहणपरिभाषया (व्या।प।
५३) न प्राप्नोतीति? नैष दोषः; इह हि निष्ठातकारस्य परत्वप्रतिपादने पञ्चमी युक्ता,
यथा--"रदाभ्याम्? ८।२।४२ इति। तत्र पञ्चमीनिर्देशे कत्र्तव्ये यः षष्ठीनिर्देशः क्रियते, स सम्बन्धसामान्यं प्रतिपादयितुम्()। न च सम्बन्धिन मन्तरेण सम्बन्धसामान्यमुपपद्यते। न च सानुबन्धके परित्यज्यमाने सम्बन्धिभेदः सम्भवतीति युक्तं तस्यापि ग्रहणम्(),
"पृ? पालनपूरणयोः" (धा।पा।१४८९), "मुच्र्छा मोहसमुच्छ्राययोः" (धा।पा।२१२), "मदी हर्षे" (धा।पा।१२०८)। एषु ध्याख्याप्रभृतिषु--आद्ययोः "संयोगादेः"
८।२।४३ इत्यादिना नत्दे प्राप्ते, इतरेषामपि "रदाभ्याम्()"
८।२।४२ इत्यादिना, प्रतिषेधोऽयमारभ्यते। "पूर्त्तः" इति। "श्रयुकः किति"
७।२।११ इतीट्प्रतिषेधः, "उदोष्ठ()पूर्वस्य"
७।१।१०२ इत्युत्त्वम्(), पूर्ववद्दीर्घः। "मूर्त्तः" इति "राल्लोपः"
६।४।२१ इति च्छकारलोपः, "आदितश्च"
७।२।१६ इतीट्प्रतिषेधः। "मत्तः" इति। अत्रापि "()आईदितो निष्ठायाम्()"
७।२।१४ इति॥
न ध्याख्या। पञ्चम्यर्थे षष्ठी। तदाह-- एभ्य इति। ध्यात इति। ध्यैधातोः क्तः। "आदेचः" इत्यात्वम्। अत्र "संयोगादेरातः" इति प्राप्तं नत्वं न। ख्यात इति। ख्याञादेशपक्षे यण्वत्त्वात् "संयोगादेरातः" इति प्राप्तं नत्वं न। ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् "संयोगादेरातः" इति नत्वस्य न प्रसक्तिः। स्वतः सिद्धख्याधातोस्तु आद्र्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव। पूर्त इति। पृ()धातोः क्तः। "श्र्युकः किती"ति नेट्। "उदोष्ठ()पूर्वस्ये"ति उत्त्वं,रपरत्वम्। इह "रदाभ्या"मिति प्राप्तं नत्वं न। मुर्छाधातोः क्ते आह--राल्लोप इति। छस्य लोप इति भावः। मूर्त इति। "आदितश्चे"ति नेट्। छलोपे "रदाभ्या"मिति प्राप्तं नत्वं न। "हलि चे"ति दीर्घः। मत्त इति। "मदी हर्षग्लेपनयोः" अस्मात् क्तः। "()आईदितः" इति नेट्। अत्र "रदाभ्या"मिति प्राप्तं नत्वं न।