श्वयतेः ईदितशनिष्थायाम् इडागमो न भवति। शूनः। शूनवान्। ईदितः ओलजी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओदितश्च
८।२।४५ इति निष्थातकारस्य नकारः। दीपी दीप्तः। दीप्तवान्। डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य। स हि नत्वार्थः, नत्वं च निष्थातो ऽनन्तरस्य विधीयते। उड्डीनः। उड्डीनवान्। निष्ठायाम् इत्यधिकारः आर्धधातुकस्य इड्वलादेः
७।२।३५ इति यावत्।
"शूनः" इति। वच्यादि
६।१।१५ सूत्रेण सम्प्रसारणम्(), "हलः"
६।४।२ इति दीर्घः। "लग्नः" इति।
नत्वस्यासिद्धत्वात्? "चोः कुः"
८।२।३० इति कुत्वम्()। "उड्डीनः" इति।
"ङिङ्? विहायसा गतौ" (धा।पा।११३५)।
"ननु ङीङ उदात्तत्वान्निष्ठायामिट् प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः; हि उड्डयित इत्यनिष्टं रूपं स्यादिति यो मन्येत, तं प्रत्याह--"ङीङः" इत्यादि। "ओदिताम्()" इति। स्वादीनामित्यर्थः। "स्वादय ओदितः" इति वचनात।
स्वादयः "षूङ्? प्राणिगर्भविमोचने" (धा।पा।१०३१) इत्यादयः।
कथं कृत्वा ज्ञापकः? इत्याह--"स हि" इत्यादि। स्वदीनां ह्रोदितां मध्ये तस्यैवमर्थः पाठः--निष्ठातकारस्यौदित उत्तरस्य नत्वं यथा स्यात्()।
स्यादेतत्()--इट()पि कृते नत्वं भविष्यति? इत्याह--"नतवं च" इत्यादि। "तस्मादित्युत्तरस्य"
१।१।६६ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थस्यानुवृत्तेरोदितो धातोरनन्तरस्य निष्ठातकारस्य नत्वं विधीयते।
तत्र यदि ङीङ परस्या निष्ठाया इट्? स्यात्(), तदा सत्यप्योदित्त्वे इटा व्यवहितत्वान्नत्वेन न भवितव्यम्()। नित्योदितां मध्ये तस्य पाठोऽनर्थकत्वान्न कृतः स्यात्(), स चास्ति;
तस्मात्? स एव पाठो ज्ञापकः? नैतदस्ति; एवं ह्रानन्तर्यपरिभाषा बाधिता भवति, शास्त्रं चानिष्टं स्यात्(), एतच्चायुक्तम्(); न ह्रनिष्टार्था शास्त्रे प्रक्लृप्ति(भो प।सू।१०७) रस्ति। तस्माद्यथानन्तर्यपरिभाषा न बाध्यते शास्त्रञ्च नानिष्टं भवति, ओद#इतां मध्ये ङीङ पाठश्च सफलो भवति--स प्रकरोऽभ्युपगन्तव्यः। ततश्चौदितां मध्ये ङीङः पाटो ज्ञापक एव। अपरः प्रकारः--"ओदितश्च"
८।२।४५ इत्यत्रौदित इत्येतद्()द्विरावत्र्तयिष्यते "तस्मादित्युत्तरस्य"
१।१।६६ इत्यस्याः परिभाषाया द्विरुपस्थानार्थम्(),
तत्रास्या यद्()द्वितौयमुपस्थानं तस्यैतत्? प्रयोजनम्()--ङीङोऽप्यनन्तरस्यैव निष्ठातकारस्य नत्वं यथा स्यादिति।
यदि च ङीङो निष्ठायामिट्? स्यात्? इटा व्यवहितत्वान्नत्वं न स्यात्()। न च शक्यते वक्तुम्()--व्यवधानेऽपि पाठसामथ्र्याद्भविष्यतीति।
एवं हि परिभाषाया द्विरुपस्थानमनर्थकं स्यात्? एतच्चायुक्तम्(); तस्मादोदितां मध्ये ङीङः पाठो ज्ञापक एव।
()इआग्रहणं शक्यमकर्तुम्(), ओदित्करणादेव निष्ठायामिण्न भविष्यति, ओदित्त्वं हि नत्वार्थं क्रियते, नत्वं च निष्ठातोऽनन्तरस्य विधीयते;
यदि च ततः परस्या निष्ठाया इट्? स्यात्? ओदित्त्वमनर्थकं स्यात्()? वैचित्र्यार्थं ()इआग्रहणं वेदितव्यम्()॥