पूर्वम्: ८।२।१०
अनन्तरम्: ८।२।१२
सूत्रम्
संज्ञायाम्॥
८।२।११
काशिका-वृत्तिः
संज्ञायाम्
८।२।११
संज्ञायां विषये मतोः वः इत्ययम् आदेशो भवति। अहीवती। कपीवती। ऋषीवती। मुनीवती।
न्यासः
संज्ञायाम्?।
, ८।२।११
"अहीवती" इति। "नद्यां मतुप्()"
४।२।८४
इति चातुरर्थिको भतुप्(), "शरादीनाञ्च"
६।३।११९
दीर्घः॥