पूर्वम्: ६।३।११८
अनन्तरम्: ६।३।१२०
सूत्रम्
शरादीनां च॥
६।३।११९
काशिका-वृत्तिः
शरादीनाम् च
६।३।१२०
शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती। शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। संज्ञायाम्
८।२।११
इति मतोर्वत्वम्। यवादित्वात् व्रीह्यादिभ्यो न भवति।
न्यासः
शरादीनां च।
, ६।३।११९
अबह्वर्थोऽयमारम्भः। "शरावती" इति। "नद्यां मतुप्()"
४।२।८४
इति मतुप्()॥
बाल-मनोरमा
शरादीनां च
१०२७, ६।३।११९
शरादीनां च। " मतौ दीर्घः संज्ञाया"मिति शेषः। अबह्वच्कत्वात्पूर्वेण न प्राप्तिः। शरावतीति। शरा अस्यां सन्तीति विग्रहः। नदीविशेषस्य नाम।