"अवश्यपच्यम्()" इत्यादि।
"डुपचष्? पाके" (धा।पा।९९६), "वच परिभाषणे" (धा।पा।१८४२), "आवश्यकाधमण्र्ययोर्णिनिः"
३।३।१७० इत्यनुवृत्तौ "कृत्याश्च"
३।३।१७१ इत्यावश्यके ण्यत्()।
मयूरव्यंसकादित्वात्? २।१।७१ समासः, "लुभ्येदवश्यमः कृत्ये तुम्काममनसोरपि" (काशिका ६।१।१४४) इत्यनयेष्ट()आऽवश्यमो मकारलोपः॥
ण्य आवश्यके। अवश्यंभाव--- आवश्यकम्। मनोज्ञादित्वाद्वुञ्। "अव्ययानां भमात्रे टिलोपः"। अवश्यपाच्यमिति। "आवश्यकाधमण्र्ययोर्णिनिः""कृत्याश्चे"ति ण्यत्। आवश्यकशब्दोऽर्थद्योतनार्थो न तु प्रयोगार्थः। तेनाऽर्थप्रकरणादिगम्येऽपि तस्मिन् ण्यत्, कुत्वाऽभावश्च भवति। यथा "अशोच्यानन्वशोचस्त्व"मिति। केचित्तु---शोचितुमर्हाः शोच्याः, न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते, तच्चिन्त्यम्। "अर्हे कृत्यतृचश्चे"ति ण्यति "चजोः" कुत्वप्रसङ्गात्। "चजो"रिति कुत्वं "निष्ठायामनिटः" इति वार्तिकमते तु सम्यगेवेति दिक्।