अवश्यं भावः आवश्यकम्। उपाधिरयं, न उपपदम्। अवश्यं भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोः णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि शतम् दायी सहस्रं दायी। निष्कं दायी।
"आवश्यकम्िति। मनोज्ञादित्वाद्()वुञ्। "उपाधिरयम्िति। प्रत्ययार्थविशेषणमित्यर्थः। "नोपपपदम्" इति। उपपदत्वे तु कारी, हारीति रूपं नस्यादित्यभिप्रायः।"ओरावश्यके"
३।२।१२५ इत्यत्र प्रतिपादितमेवावश्यमुपाधिः, नोपपदमिति;तदिहापि तद्वदेवोपाधिकत्वमावश्यकस्य वदितव्यम्। तेन सह निर्द्देशादाधमण्र्यमप्युपाधिरेव, नोपपदमिति। यद्यावश्यकमपाधिर्नोपपदम्, "उपपदमतिङ्"
२।२।१९ इति समासो न स्यात्, न चान्यल्लक्षणमस्ति येनेह समासः स्यादिति यो मन्येत्, तं प्रत्याह-- "मयूरव्यंसकादित्वात् समासः" इति "सहरुआं दायी"इति।"अकेनोर्भविष्यदाधमण्र्ययोः"
२।३।७० इति षष्ठ()आं प्रतिषिद्धायां द्वितीयैव भवति॥