प्रथमावृत्तिः
सूत्रम्॥
अतो दीर्घो यञि॥ ७।३।१०१
पदच्छेदः॥
अतः ६।१ १०४ दीर्घः १।१ १०२ यञि ७।१ १०२ सार्वधातुके ७।१ ८७ अङ्गस्य ६।१ ६।४।१
अर्थः॥
अकारान्तस्य अङस्य दीर्घः भवति, यञादौ सार्वधातुके परतः।
उदाहरणम्॥
पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः।
काशिका-वृत्तिः
अतो दीर्घो यञि ७।३।१०१
अकारान्तस्य अङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अतः इति किम्? चिनुवः। चिनुमः। यञि इति किम्? पचतः। पचथः। सार्वधातुक इत्येव, अङ्गना। केशवः। केचिदत्र तिङि इत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति।
लघु-सिद्धान्त-कौमुदी
अतो दीर्घो यञि ३९२, ७।३।१०१
अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥
न्यासः
अतो दीर्घो यञि। , ७।३।१०१
तपरकरणमुत्तरार्थम्()। खट्वाभिरित्यत्र "बहुवचने झल्येत्()"
७।३।१०३ इत्येत्त्वं मा भूदित्येवमर्थम्()।
"अङ्गना" इति। प्रशस्तान्यङ्गान्यस्याः सन्तीति लोमादिना
५।२।९९ नप्रत्ययः। "केशवः" इति।
केशा यस्य सन्तीति "केशाद्? वोऽन्यतरस्याम्()"
५।२।१०८ इति वप्रत्ययः।
"केचिदत्र तिङीत्यनुवत्र्तयन्ति" इति। "भूसुवोस्तिङि"
७।३।८८ इत्यतः। तेषां भववानिति क्वसौ सार्वधातुके दीर्घत्वेन न भवितव्यमिति; क्वसोरतिङन्तत्वात्()। "भगवान्()" इति। भवतेर्लिट्(), कवसुः, "छन्दस्युभयथा"
३।४।११७ इति तस्य पक्षे सार्वधातुकत्वम्(), तेन "कत्र्तरि शप्()"
३।१।६८ भवति, "सान्तमहतः संयोगस्य"
६।४।१० इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ (६।१।६८; ८।२।२३)।
आदिति वक्तव्ये दीर्घग्रहणम्()--दीर्घ एव यथा स्यात्(), यदन्यत्? प्राप्नोति, तन्मा भूदिति।
किञ्चान्यत्? प्राप्नोति? "विचार्यमाणानाम्()"
८।२।९७, "अनन्तरस्याप्येकैकस्य प्राचाम्()" "प्रश्नाख्यानयोः"
८।२।१०५ इति प्लुतः।
अथ प्रकृतोऽजागमः कस्मान्न विधीयते? तत्राप्यकः सवर्णे दीर्घत्वेन
६।१।९७ वहीति "क्सस्याचि"
७।३।७२ इति लोपः स्यात्(), अतिजराभ्यामित्यत्राचीति जरस्भावः स्यात्(); तन्निवृत्त्यर्थ दीर्घग्रहमं कृतम्()। स चात्र प्लुतः प्रसज्येत॥
बाल-मनोरमा
अतो दीर्घो यञि २०, ७।३।१०१
उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि। "अङ्गस्ये"त्यधिकृतमता विशेष्यते। तदन्तविधिः। "तुरुस्तुशम्यम" इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते। तदादिविधिः। तदाह-- अदन्तस्येत्यादिना। भवामीति। न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं, "यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग"मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात्। भवावः भवाम इति। लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे। "न विभक्ता" विति सस्य नेत्त्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह-- स भवतीत्यादि। "अथ प्रहासे चे"ति सूत्रस्योदाहरति--एहीति। सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम्। भो जामातः ! एहि = आगच्छ, "ओदनं भोक्ष्ये" इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः। कुतैत्यत आह--भुक्तः सोऽतिथिभिरिति। स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः। अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः। मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः। #एतम् एत चेति। हे जामातरौ ! आगच्छतम्, "ओदनं भोक्ष्यावह#ए" इति मन्येथे इति, भो जामातरः ! "ओदनं भोक्ष्यामहे" इति मन्यध्वे इति चार्थः। अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः। मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे--मन्यस इत्यादिना। अनुवर्तत इति। "प्रहासे चेति सूत्रे" इति शेषः। एतु भवानिति। युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः। इति लट्प्रक्रिया।
तत्त्व-बोधिनी
अतो दीर्घो यञि १६, ७।३।१०१
"तुरुस्तुशम्यमः" इति सूत्रात्सार्वधातुक इत्यनुवर्तते। सार्वधातुके किं?। केशवः अङ्गना।
"अत आ" इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यता स्यादित्येवमर्थम्। अन्यथाऽपाक्षीरोदनं देवदत्त !, ननु पचामि बोरित्यत्रानन्त्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात्। केचित्तु-- "अत आ" दिति सुवचं, तपरकरणसामथ्र्याद्विकारनिवृत्तिर्भवेदिति प्लुतस्याऽप्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्यादि तु "स्थानेऽन्तरतमः" इत्यनेनैव सिद्धम्। अत एव "वृषाकप्यग्नी"ति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तु "स्थानेऽन्तरतमः" इत्येव सिद्धमिति मनोरमादावुक्तम्। ततश्च प्रयोजनाऽभावात्तपरकरणमनणि विध्यर्थमिति नाशह्कनीयमेव। यदि तु "हल्ङ्याब्भ्यः" इत्यत्र आ-आबितिवत्, "अत आ" इत्यत्रापि आ-आ इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरत्याहुः॥ "प्रहासे चे"ति सूत्रस्योदाहरणमाह-- एहि मन्ये इति। "ओदनं भोक्ष्ये" इति त्वं मन्यस इत्यर्थः॥ एतम् एत वेति। "एतं मन्ये ओदनं भोक्ष्येथे", "एत मन्ये ओदनं भोक्ष्यध्वे" इत्यन्वयः। भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः॥