शीङो ऽङ्गादुत्तरस्य झादेशस्य अतः रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्य एव स्याददादेशो न स्यादित्यत एव अयम् आदेशस्य आगमो विधीयते। सानुबन्धग्रहणम् आङ्लुगर्थम्। तेन इह न भवति, व्यतिशेश्यते।
शीडः परस्य झादेशस्यातो रुडागमः स्यात्। शेरते। शेषे। शयाथे। शेध्वे। शये। शेवहे। शेमहे। शिश्ये। शिश्याते। शिश्यिरे। शयिता। शयिष्यते। शेताम्। शयाताम्। अशेत। अशयाताम्। अशेरत। शयीत। शयीयाताम्। शयीरन्। शयिषीष्ट। अशयिष्ट। अशयिष्यत॥ इङ् अध्ययने॥ २०॥ इङिकावध्युपसर्गतो न व्यभिचारतः। अधीते। अधीयाते। अधीयते॥
इडादौ सिचि वा वृद्धिः परस्मैपदे परे। पक्षे गुणः। और्णावीत्, और्णुवीत्, और्णवीत्। और्णाविष्टाम्, और्णुविष्टाम्, और्णविष्टाम्। और्णुविष्ट, और्णविष्ट। और्णुविष्यत्, और्णविष्यत्। और्णुविष्यत, और्णविष्यत॥
"झादेशस्यातो रुडागमो भवति" इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्(), षष्ठीनिर्देशेन चेहार्थः,
तत्? कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्()? नैतदस्ति; "तस्मादित्युत्तरस्य"
१।१।६६ इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। "शेरते" इति। "शूङः सार्वधातुके गुणः"
७।४।२१। ननु चात्र रुटा व्यवहितं सार्वधातुकम्(), तत्कुतो गुणः,
न ह्रयं सार्वधातुकभक्तस्तत्? कथं व्यवधायको न स्यात्(), अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्रते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्(); तथा हि--"छे च" (६।१।
७३) इत्यत्रोक्तम्()--"नावयवावयवः समुदायावयवो भवति" इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि--देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते।
तस्मात्? सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्रते, अतो नास्ति व्यवधानम्()।
यत्पुनः "छे च"
६।१।७१ इत्यत्रोक्तम्()--नावयवावयवः समुदायावयवो भवतीति,
तत्? तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्(), स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्रत इति कृत्वा।
कस्मात्? पुनर्न गृह्रते? ह्यस्वानुकर्षणसामथ्र्यात्()। तत्र हि चकारेण ह्यस्वोऽनुकृष्यते--ह्यस्वमात्रस्यागमित्वं यथा स्यात्(), ह्यस्वन्तस्य मा भूदिति। यदि ह्यस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्()। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्रते, तदा ह्यस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्यस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्()। ततश्च ह्यस्वानुकर्षणमनर्थकं स्यात्()।
अथ किमर्थमदादेशस्य रुङ्? विधीयते, न झकारस्य विधीयताम्(), तत्रायमर्थः--अत #इति षष्ठी प्रकल्पयितव्या न भवति;
झ इत्यस्य षष्ठ()न्तस्य प्रकृतत्वात्()? अत आह--"रुडयम्()" इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्(); अनिगन्तत्वात्()। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते;
परादिरपि क्रियमाणो यदि झकारस्यैव स्यात्? किमनिष्टं स्यात्()? इत्याह--"यदि" इत्यादि।
झकारस्यैव रुट्? स्यात्? तदाऽदादेशो न स्यात्()। ततो यथा शयान्तै--इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्(); रुटा व्यवहितत्वात्()। तस्मादस्य दोषस्य परिहारार्थम्()--अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्();
झकारस्य क्रियमाणो रुट्? तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्()! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते--अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते,
तदयमर्थो भवति--यदि रुडागमो झकारस्यैव स्यात्? तदादादेशस्तस्यैव न स्यात्()।
कस्य तर्हि स्यात्()? तस्यैव रुटः स्यात्(); "आदेः परस्य"
१।१।५३ इति वचनात्()। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्()।
रुटो विधानसामथ्र्यान्न भविष्यतीति चेत्()? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्()। "बहुलं छन्दसि"
७।१।८ इत्यत्र रुजागमो यथा स्यात्()। न ह्रदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्()विधेः प्रयोजनम्()। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। "शीङः" इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः--व्यतिशेस्यत इति॥