षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति। स तक्षाणं तिष्ठन्तमब्रवीत्। स तक्षणम् तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्। ऋभुक्षणमिन्द्रम्। निगमे इति किम्? तक्षा, तक्षाणौ, तक्षाणः।
अत्र दीर्घग्रहणेन "अचश्च" (१।२।
२८) इत्यस्याः परिभाषाया उपस्थाने सत्यच्? सन्निधापितः। "नोपधायाः"
६।४।७ इत्यधिकारादुपधापि। "षपूर्वस्य" इति। षः पूर्वो यस्मादिति बहुव्रीहिः। तत्र यद्युपधाऽन्यपदार्थत्वेनाश्रीयेत, "षपूर्वस्य" इत्यस्त्रीलिङ्गेन निर्देशो नोपपद्यते, तस्मादजत्रान्यपदार्थत्वेनाश्रीयत इत्याह--"षपूर्वस्याचः" इत्यादि। "उपधायाः" इत्येतदचः समानाधिकरणं विशेषणम्()। ऋभुक्षाणाम्()" इति। ऋभृक्षोऽस्यास्तीति द्वितीयैकवचनम्(), "पथिमथ्यृभुक्षाणाम्()"
७।१।८५ इत्यनुवत्र्तमाने "इतोऽत्सर्वनामस्थाने"
७।१।८६ इत्यत्त्वम्()। पूर्वग्रहणमुत्तरार्थम्()।
इह तु "वा षो निगमे" इत्येतावत्युच्यमाने षकारात्? परस्याचः "नोपधायाः"
६।४।७ इति विकल्पेन दीर्घत्वं लक्ष्यत एव॥