छन्दसि विषये आडागमो दृश्यते। यत्र हि विहितः ततो ऽन्यत्र अपि दृश्यते। आङजादीनाम्
६।४।७२ इत्युक्तम्, अनजादीनाम् अपि दृश्यते। सुरुचो वेन आवः। आनक्। आयुनक्। आवः इति वृञो लुङि मन्त्रे घसह्वर इति लेर्लुकि कृते च भवति। तथा आनकिति नशेः। आयुनकिति युजेर् लङि।
"यतो विहितस्ततोऽन्यत्रापि भवति" इति।
अपिशब्दात्? तत्रापि। "आवः" इति। गुणे रपरत्वपे च कृते तिपो हलङ्यादिना
६।१।६६ लोपः, रेफस्य विसर्जनीयः। "तथा" इत्यादि। यथा "आवः" इति "मन्त्रे घसह्वर"
२।४।८० इत्यादिना लेर्लुकि कृते भवति, तथानगिति लेर्लुकि कृते नशेर्भवतीत्यर्थः। तत्र "नर्शर्वा"
८।२।६३ इति कुत्वम्()। "आयुनक्()" इति।
"युजिर्? योगे" (धा।पा।
१४४४) रुधादित्वात्? श्नम्(), "चोः कुः"
८।२।३० इति कुत्वम्()--गकारः, तस्य चत्र्वम्()--ककारः। "बहुलं छन्दस्यामाङ्योगेऽपि"
६।४।७५ इति वक्ष्यति, तस्यैवायं प्रपञ्चः॥