मन्त्रविषये घस ह्वर नश वृ दह आत् वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग् भवति। घस अक्षन् पितरो ऽमीमदन्त पितरः। ह्वर इति ह्वृ कौटिल्ये मा ह्वार्मित्रस्य त्वा। णश धूर्तिः प्रणङ् मर्त्यस्य। वृ इति वृङ्वृञोः सामान्येन ग्रहनम् सुरुचो वेन आवः। दह मा न आ धक्। आतिति आकारान्तग्रहनम्। प्रा पूरने आप्रा द्यावापृठीवी अन्तरिक्षम्। वृच् मा नो अस्मिन् महाधने परा वृग् भारभृद्यथा। कृ अक्रन् कर्म कर्मकृतः। गमि {सद्यः पुंष्टि निरुन्धानासो} अग्मन्। जनि अज्ञत वा अस्य दन्ताः। ब्राह्मने प्रयोगो ऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्।
सिच इत्यनुवत्र्तमाने पुनर्लिग्रहणं "आदिः सिचोऽन्यतरस्याम्"
६।१।१८१ इत्यादेःसिच्कार्यस्य निवृत्त्यर्थम्, उत्तरार्थञ्च। "अक्षन्" इति। "अद भक्षणे" (धा।पा।१०११) लुङ, "लुङसनोर्धस्लृ"
२।४।३७ इति घस्लादेशः। ततः "च्लि लुङि"
३।१।४३ इ#इत च्लिः, तस्यानेन लुक्, झेरन्तादेशः, "इतश्च"
३।४।१०० इकतीकारलोपः, "संयोगान्तस्य"
८।२।२३ इति तकारलोपः, "गमहन"
६।४।९८ इत्यादिनोपधालोपः, "शासिवसिघलसीनाञ्च"
८।३।६० इति षत्वम्, "झलां जश् झशि"
८।४।५२ इति जश्त्वम्, "खरि च"
८।४।५४ इति चत्र्वम्। ह्वरेत्यागन्तुकेनाकारेण निर्देशः। "मा ह्वः" इति। लुङ, तिङगुणरपरत्वानि, हल्ङ्यादिलोपः,
६।१।६६, "न माङयोगे"
६।४।७४ इत्यडागमाभावः। "प्राणड्" इति। "णश अदर्शने" (धा।पा।११९४), पूर्ववल्लुङादिकार्यम्, व्रश्चादिसूत्रेण
८।२।३६ षत्वम्, "झलां जशोऽन्ते"
८।२।३९ इति जस्त्वम्-- षकारस्य डकारः, तस्य "वावसाने"
८।४।५५ इति चर्त्वं टकारः,"उपसर्गादसमासेऽपि"
८।४।१४ इति णत्वम्। क्वचित् "प्राणग्" इति पाठः। तत्र "क्विन्प्रत्ययस्य कुः"
८।२।६२ इत्यतः कुरित्यनुवत्र्तमाने "नशेर्वा"
८।२।६३ इति कुत्वम्। "आवः" इति। वृञस्तिप्, गुणो रपरत्वम्, हल्ङ्यादिना
६।१।६६ सिपो लोपः। "धक्" इति। "दह भस्मीकरणे" (धा।पा।९११), सिप्,हल्ङ्यादिना
६।१।६६ सिपो लोपः। "दादेर्धातोर्घः"
८।२।३२ इति हस्य घः। "एकाचो बशो भष्"
८।२।३७ इत्यादिना दकारस्य धकारः, धकारस्य जश्त्वम्-- गकारः, तस्य चत्र्वम्-- ककारः, आडागमस्य "बहुलं छन्दस्यामाङ्योगेऽपि"
६।४।७५ इति निषेधः। "आप्रात्" इति। "प्रा पूरणे" (धा।पा।१०६१) इत्यस्मात् तिप्। "परावर्क" इति। वृजेस्तिप्, लघूपधगुणः,हल्ङ्यादिना
६।१।६६ लोपः। "रात्सस्य"
८।२।२४ इति नियमात् संयोगान्तलोपाभावः। जकारस्य पूर्ववत् कुत्वं गकारः, तस्य चर्त्वं ककारः। "अक्रन्" इति। कृञो झेरन्तादेशः, संयोगान्तलोपः। "अज्ञत" इति। जनेर्झस्य "आत्मनेपदेष्वनतः"
७।१।५ इत्यदादेशः, पूर्ववदुपधालोपः, "स्तोः श्चुना श्चुः"
८।४।३९ इतिश्चुत्वम्। क्वचित् "अज्ञन्" इति पाठः। तत्र झिः, ततः परस्मैपदं वधेयम्। "ब्राआहृणे प्रयोगोऽयम्" इति। योऽयमनन्तरं मन्त्रे जनेरुक्तः स ब्राआहृणो मन्त्रव्याख्यानग्रन्थः। मन्त्रे जनेर्लुक् च दृश्यत इति तद्विषयमुदाहरणं नोपन्यस्तम्। यदि तह्र्रमन्त्रे लुग्भवति मन्त्रग्रहणं किमर्थमित्याह-- "मन्त्रग्रहणम्" इत्यादि॥