शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ कितिशिष्टः। शिष्टवान्। ङिति आवां शिष्वः। वयं शिष्मः। इत्त्वे कृते शासिवसिघसीनां च
८।३।६० इति षत्वम्।
अङ्हलोः इति किम्? शासति। शशासतुः। शशासुः।
क्वौ च शास इत्त्वं भवति इति वक्तव्यम्। आर्यान् शास्ति इति आर्यशीः। मित्रशीः। यस्मात् शासेः अङ् विहितः शासु अनुशिष्टौ इति, तस्य एव इदं ग्रहणम् इष्यते। आङः शासु इच्छायाम् इति अस्य न भवति। आशास्ते। आशास्यमानः।
क्विप्प्रत्यये तु तस्य अपि भवति इति वक्तव्यम्। आशीः, आशिषौ, आशिषः। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्
८।२।१०४ इति निपातनाद् वा सिद्धम्।
"अन्वशिषत्()" इति। "सर्त्तिशास्त्यर्तिभ्यश्च"
३।१।५६ इति च्लेरङादेशः "शिष्वः, शिष्मः" इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्()। "शासति" इति। "जक्षित्यादयः षट्()"
६।१।६ इत्यभ्यस्तसंज्ञा, "अदभ्यस्तात्()"
७।१।४ इति झेरदादेशः। "शशासतुः, शशासुः" इति। लिट()तुस्युसि रूपे।
"क्वौ च शासः" इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः।
तत्रेदं व्याख्यानम्()--यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्? क्विब्लोपस्य विधानम्,
तथापि लुप्तेऽपि तस्मिन्? प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति।
"वर्णाश्रये प्रत्ययलक्षणं नास्ति" (व्या।प।९६) इत्येतत्तु प्रायिकम्()। तथा हि--वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा--"अतृणेट्()" इति। अत्र "तृ ह इम्()"
७।३।९२ इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति।
कथम्()? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम्()--"हलादौ क्ङिति" इति।
तेन यद्यपि क्विब्? वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते,
किं तर्हि? प्रत्ययरूपत्वेन।
"आर्यशीः" इति। सकारस्य रुत्वे कृते "र्वोरुपधाया दीर्घः"
८।२।७६ इति दीर्घः।
अथ "आशास्ते,
आशास्यमानः" इत्यत्र कथमित्त्वं न भवति? इत्याह--"यस्माच्छासेः" इत्यादि द्वाविमौ शासी--एकः परस्मैपदी, अपरस्त्वात्मनेपदी,
तत्र यस्मात्? शासेरङ् विहितं तस्येवं ग्रहणम्()। स च "शासु अनुशिष्टौ" (धा।पा।१०७५) इत्यस्य "सत्तिशास्त्यर्त्तिभ्यश्च"
३।१।५६ इति विधीयते, तत्र "परस्मैपदेषु"
३।१।५५ इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्()।
कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्()। संसर्गे हि सति विशेषपरिच्छेदो भवति,
तथा हि--"सकिशोरा धेनुरानीयताम्()" इत्युक्ते किशोरेण संसर्गाद्? वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः,
अतस्तेन संसर्गाद्? विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः,
किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति,
तत्? कुतोऽङ्संसर्गाद्? विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि "वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम्()" इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्()।
यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्(), एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति,
तथा क्विप्प्रत्ययेऽपि न स्यात्()? इत्यत आह--"क्विप्प्रत्यये ति" इत्यादि। "क्षियासीः" इत्यादि।
अथ वा नैव तस्या ह्रपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः,
आन्तरतम्याद्दीर्घो मा भूदिति चेत्()? नैतदस्ति;
"भाव्यमानोऽण्? सवर्णान्न गृह्णाति" (व्या।प।
३५) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः।
अथासन्देहार्थः कस्मान्न भवति? "शास यङङलोः" इत्युच्यमाने सन्देहः स्यात्()--किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः,
यदयम्? "तदशिष्यं संज्ञाप्रमाणत्वात्()"
१।२।५३ इति निर्देशं करोति, ततो निश्चीयते--इकारोयम्(), न हीकारः, नापि यकार इति॥