चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम्, अहारितमाम् इत्यत्र तलोपस्य असिद्धत्वात् तरप्तमपोर् न लुग् भवति। चिणो लुकित्येतद् विषयभेदाद् भिद्यते।
"चिण उत्तरस्य प्रत्ययस्य" इति।
अथ प्रत्ययस्यैतत्कुतो लभ्यते? "अङ्गस्य"
८।४।१ इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्()।
यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्(),
अकारितमामित्यत्र तरप्तममोर्लुक्? कस्मान्न भवति? इत्याह--"अकारितराम्()" इत्यादि। योऽसौ तशब्दस्य लुक्(), तस्य तरप्तमपोर्लुकि कत्र्तव्ये "असिद्धवदत्राभात्()"
६।४।२२ इत्यसिद्धत्वम्()। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति।
ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह--"चिणो लुगित्येतत्()" इत्यादि। "चिणो लुक्()" इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्()। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ "तिङश्च"
५।३।५६ इत्यनेन, तदन्तात् "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे"
५।४।११ इत्यामौ कृते, अकारितमाम्(), अकारितमामिति भवति॥
चिणो लुक्। "चिण" इति पञ्चमी। तदाह--चिणः परस्येति। चिणः परश्च अर्थात्तशब्द एव भवति। चिणभावे च्लेः सिचि रूपमाह्-- अप्यायिष्टेति रूपम्। शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः। तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः। षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम्। परिषेवत इत्यत्र "सात्पदाद्यो"रिति निषेधे प्राप्ते आह-- परिनिविभ्य इति। सिषेवे इति। आदेशसकारत्वात्षत्वमिति भावः। अयं सोपदेशोऽपीति। षेवृधातुरित्यर्थः। तद्भाष्यविरुद्धमिति। सेक्सृप्सृस्तृसृजस्तृ()स्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः। रेवृ प्लवगताविति। प्लवेति न धात्वन्तरमिति सूचयन्नाह --प्लवगतिः- प्लुतगतिरिति। अयपयेत्यादिरेवत्यन्ता गताः। अवत्यन्ता इति। "अव रक्षणे" इत्येतत्पर्यन्ता इत्यर्थः। मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः। अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः।
चिणो लुक्। परस्य लुक् स्यादिति। "तदशब्दस्ये"ति कैश्चित्पठ()ते, तदार्थिकार्थकथनम्, तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक्-- "प्रत्ययस्य लुकश्लुलुपः" इति वचनात्तशब्दस्यैवेति स्पष्टत्वात्। अयमिति। षेवृ धातुः। भाष्यविरुद्धमिति। यदि सोपदेशः स्यात्तदा स्त्यायतिरिवाऽयमपि षोपदेश लक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः। प्लवगताविति। केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम्। "प्लवे"ति धात्वन्तरत्वे "विभाषऽऽङि रुप्लुवो"रित्यत्र प्लुवः पक्षे घञ्()विधानं व्यर्थं स्यात्, ल्पेवेत्येतस्माद्धञि आप्लावशब्दस्य सिद्धत्वात्। तथा "रुआवतिश्रणोती"ति सूत्रेण प्लवेतरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात्, तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोः "सन्यतः" इत्यनेन सिद्धमिति किं तदुपादानेनेति। ममव्येति। "यस्य हलः" इति लोपस्तु न भवति, "यस्येति सङ्घातग्रहण"मिति सिद्धान्तितत्वात्। वर्णंग्रहणे त्वर्थवद्ग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक्। लुटि-- मव्यिता। आशिषि-- मव्यात्। "हलो यमा"मिति धातुयकारस्य वा लोपः। सूक्ष्र्य ईर्क्ष्य। णलि-- सुषूक्ष्र्य। ईक्ष्र्याचकार। ईष्र्याचकार। एभ्यः क्विपि "लोपो व्योटरिति यलोपे, "स्कोः" इति कलोपे जश्त्वचत्र्वयोः-- सूर्ट् इत्येव रूपम्। हय गतौ। जहाय। हय्यात्। शिथिलीकरणमिति। "सोममभिषुणोती"त्यादौ दर्शनात्। सुराया इति। तत्प्रकरणे "संधानं स्यादभिषवः" इत्यमरोक्तेः।