यत्प्रत्यये परतः पादस्य पदित्ययम् आदेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः।
अतदर्थे इति किम्? पादार्थम् उदकं पाद्यम्। पद्भाव इके चरतावुपसङ्ख्यानम्। पादभ्यां चरति पदिकः। पर्पादिभ्यः ष्ठन्
४।४।१० इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणम् इह इष्यत्, तेन पणपादमाषशतद् यत्
५।१।३४ इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्।
"पद्याः" इति। "विध्यत्यधनुषा"
४।४।८३ इति यत्()।
"पाद्यम्()" इति।
पादशब्दात्? "तादर्थ्ये यत्()"
५।४।२४ इत्यनुवर्तमाने "पादार्घाभ्याञ्च"
५।४।२५ इति यत्()।
"पद्भावे" इत्यादि।
पद्भावे कत्र्तव्येऽ()स्मश्चरत्यर्थे य इक्? तस्मिन्? कृते पद्भावस्योपसंख्यानम्()=प्रतिपादनं कत्र्तव्यमित्यर्थः।
तत्रेदं प्रतिपादनम्()--पदिति योगविबागात्? सिद्धमिति। पर्पादिष्वेव "पादः पच्च्" (४।४।
१०) इति पाठात्? सिद्धमिति वा।
"शरीरावयवस्य" ["शरीरावयववचनस्य--काशिका] इत्यादि।
कुतः पुनरेतल्लभ्यते? केचिदाहुः--पूर्वसूत्रे सामथ्र्याच्छरीरावयवसय पादशब्दस्य ग्रहणम्()। तत्राज्यातिप्रभृतीनि त्रीण्युत्तरपदानि गमनार्थानि, चतुर्थं तु हननार्थम्()। तेषु गमनाधिषु प्राण्यङ्गस्यैव पादशब्दस्य करणभावः सम्भवति, नैतरस्य।
तस्मात्? तत्र प्राण्यह्गवाचिनः पादशब्दस्य ग्रहणम्(), इहपि तदेवानुवत्र्तत इति युक्तम्()--शरीरावयवस्य ग्रहणमिति। यद्येवम्(), तदा "ऋचः शे" (६।३।
५५) इत्यत्रापि शरीरावयवस्य ग्रहणं स्यात्()? नैष दोषः; ऋक्सम्बन्धिन शरारावयववचनस्यासम्भवात्()। चतुर्थभागवचनः पादशब्दोऽत्रि ग्रहिष्यते। "तेन" इत्यादि। यत एवं शरारावयववचनपादशब्दस्येह ग्रहणम्(), तेन "पणपादमाष"
५।१।३४ इत्यादो सूत्रे यः पादशब्दस्तस्य न पदादेशो भवति; न ह्रसौ शरीरावयववचनः,
कि तर्हि? परिमाणवचनः।
कुत एतत्()? पणादिभिः परिमाणवचनैः साहचर्यात्()। "द्विपाद्यम्(), त्रिपाद्यम्()" इति। "तेन क्रीतम्()"
५।१।३६ इत्यर्थे यत्प्रत्ययः॥
पद्यत्य। पद--यति--अतदर्थे इति च्छेदः। पद्या इति। विध्यत्यधनुषेति यत्प्रत्ययः। पाद्यमिति। "पादार्घाभ्यां चे"ति तादर्थ्ये यत्प्रत्ययः।
इके चरताविति। चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः।
पद्याइति। "विध्यत्यधनुषे"ति यत्। पाद्यमिति। "पादार्घाभ्यां चे"ति यत्। पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्रते, न परिमाणवचनः। तेन "द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, त्रिपाद्य"मित्यत्र "पणपादमाषे"ति यति पदादेशो न भवति। एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम्।