सूत्रम्
मनोर्जातावञ्यतौ षुक् च॥ ४।१।१६१
काशिका-वृत्तिः
मनोर् जातावञयतौ षुक् च ४।१।१६१
मनुशब्दादञ् यतित्येतौ प्रत्यौ भवतः, तत् सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर् गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थो ऽत्र न अस्त्येव। तथा च मानुषाः इति बहुषु न लुग् भवति। अपत्यविवक्षायां तु अणैव भवितव्यम्। मानवी प्रजा। अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस् तेन सिध्यति माणवः।
न्यासः
मनोर्जातावञ्यतौ षुक् च। , ४।१।१६१
"तथा च" इत्यादि। यस्मादपत्यार्थोऽत्र नास्ति, एवञ्च कृत्वा मानुषा इति बहुषु लुग्न भवति। अपत्यार्थे तु सति "यञञोश्च"
२।४।६४ इति बहुषु लुक् प्रसज्येत।
"अपत्ये कुत्सिते" इत्यादि। मूर्धन्योपसंख्यानपरोऽयं श्लोकः। अण्प्रत्ययोऽपत्यविवक्षायाम् "तस्यापत्यम्"
४।१।९२ इत्येनैव सिध्यति।
ननु च मूर्धन्योऽपि च बहुलग्रहणानुवृत्त्या सिध्यत्येव? एवं तर्हि बहुलग्रहणानुवृत्तेर्लभ्य एवार्थः श्लोकेन कथ्यते। स चापि मूर्धन्यो विशिष्ट एव विषये मूढादावपत्ये भवति, न सर्वत्र। अनधीतवेदत्वदज्ञो मूढः। मूढत्वादेव प्रतिषिद्धाचरणाद्वा कुत्सितो यः स ब्राआहृणजातीयो माणव उच्यते॥
बाल-मनोरमा
मनोर्जातावञ्यतौ षुक्च ११६७, ४।१।१६१
मनोर्जातौ। मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः। तदाह--समुदायार्थो जातिरिति। नात्राऽपत्यग्रहणं संबध्यत इति भावः। अन्यथा "मानुषा" इत्यत्र "यञञोश्चे"ति लुक्स्यादिति बोध्यम्।
तत्त्व-बोधिनी
मनोर्जातावञ्यतौ षुक्च ९६५, ४।१।१६१
मानुषः। मनुष्य इति। जातिशब्दावेतौ। "अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः"। णत्वविधानार्थमिदम्, अमः सिद्धत्वात्। अनधीतवेदत्वान्मूढत्वं, विहिताननुष्ठानाच्च कुत्सितत्वम्। इदं च वचन "ब्राआहृणमाणवे"ति णत्वनिपातनाल्लब्धमित्याहुः।