बहुव्रीहौ समासे निष्ठान्तम् उपसर्गपूर्वं पूर्वपदम् अनतरस्याम् अनतोदात्तं भवति। प्रधौतमुखः, प्रधौतमुखः प्रधौतमुखः। प्रक्षालितपादः, प्रक्षालितपादः। यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गम्
६।२।१६६ इत्येतद् भवति, न चेत् पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः
६।२।४९ इत्येतद् भवति।
निष्ठा इति किम्? प्रसेचकमुखः।
उपसर्गपूर्वम् इति किम्? शुष्कमुखः।
"प्रक्षालितपादः" इति। "क्षल शौचकर्मणि" (धा।पा।
१५९७) अस्माण्णयन्तात्? क्तः। पक्षालितशब्दः "गतिरनन्तरः"
६।२।४९ इत्याद्युदात्तः। "प्रधौतमुखम्()" इति। "धावु गतिशुद्ध्योः" (धा।पा।
६०१) अस्मात्? क्तः। "च्छ्वोः शूडनुनासिके च"
६।४।१९ इत्यूठ्(), "एत्येधत्यूठ्()सु"
६।१।८६ इति वृद्धिः।
"यदि मुखशब्दः" इत्यादि। मुखशब्दोऽयं स्वाङ्गवाच्यपि। तत्र यद्ययमिह स्वाङ्गवाची तदानेन पूर्वपदान्तोदात्तत्वमेव। मुक्ते पक्षे "मुखं स्वाङ्गम्()"
६।२।१६६ इत्युत्तरपदाद्युदात्तत्वं भवति। अत्र निष्ठोपसर्गपूर्वमन्यतरस्यांग्रहणानुवृत्तेर्यदाऽन्तोदान्तत्वं भवति तदा "गतिरनन्तरः"
६।२।४९ इत्येतत्()। तेन स्वाङ्गवाचिनि मुखशब्दे त्रयः स्वरा भवन्ति। अनेन पूर्वपदान्तोदात्तत्वम्(), "मुखं स्वाह्गम्()"
६।२।१६६ इत्यनेनोत्तरपदन्तोदात्तत्वम्(), "गतिरनन्तरः" (६।२।
४९) इति प्रकृतिभावात्? पूर्वपदस्याद्युदात्तत्वम्()। "न चेत्()" इत्यादि। यदि मुखशब्दोऽत्र स्वाङ्गावची न भवति तदा "मुखं स्वाङ्गम्()"
६।२।१६६ इत्यस्यायं विषयो न भवतौति "गतिरनन्तरः"
६।२।४९ इति विधिना मुक्ते प्रवर्तते। तेन स्वाङ्गवाचिनि मुखशब्दे द्वौ स्वरौ भवतः--पूर्वपदस्याद्युदात्तत्वम्(), अन्तोदात्तत्वञ्च।
"प्रसेचकमुखम्()" [प्रसेचकमुखः--काशिका] इति। अत्र पूर्वपदप्रकृतिस्वर एव भवति। प्रसिच्यत इति प्रसेचकः "कृत्यल्युटो बहुलम्()"
३।३।११३ इति कर्मणि ण्वुल्(), "कुगतिप्रादयः"
२।२।१८ इति समासः, "तत्पुरुषे तुल्यार्थे"
६।२।२ इत्यादिनाऽव्ययप्रकृतिभावः। तेन प्रसेचकशब्द आद्युदात्त इति। "शुष्कमुखः" इति। "शुषः कः"
८।२।५१ इति निष्ठायां कादेशः। प्रत्ययस्वरेण शुष्कशब्दोऽन्तोदात्तः। बहुव्रीबौ प्रकृतिभावेन नित्यमेवान्तोदात्तो भवति॥