बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषये ऽन्तोदात्तं भवति। विश्वदेवः। विश्वयशाः। विश्वमहान्। पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तत्वं प्राप्तम्।
बहुव्रीहौ इति किम्? विश्वे च ते देवाः विश्वदेवाः।
संज्ञायाम् इति किम्? विश्वे देवा अस्य विश्वदेवः। विश्वामित्रः, विश्वाजिनः इत्यत्र संज्ञायां मित्राजिनयोः
६।२।१६४ इत्येतद् भवति परत्वात्। बहुव्रीहौ इत्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात्।
"पूर्वपदकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्()" इति। "बहुव्रीहौ प्रकृत्या"
६।२।१। इत्यादिना वि()ओ च ते देवा वि()आवेवा इति विशेषणसमासः, तत्पुरुषोऽयम्()। अत्र समासान्तोदात्तत्वमेव भवति। "वि()आदेवः" इति। अत्र पूर्वपदप्रकृतिस्परत्वेनाद्यदात्तत्वमेव भवति। वि()आशब्दसय क्वन्प्रतययन्तस्य नित्स्वरेणाद्युदात्तत्वम्()।
"वि()आआमित्रः" इति। "बहुवरीहौ वि()आं संज्ञायाम्()"
६।२।१०६ इति पूर्वपदान्तोदात्तस्यावकाशः--वि()आदेवः, वि()आयशा इति। "संज्ञायां मित्त्राजिनयोः"
६।२।१६४ इत्युत्तरपदान्तोदात्तत्वस्यावकाशः--कुलमित्त्रम्(), कुलाजिनमिति; वि()आआमित्त्रः, वि()आआजिन इत्यत्रोभयं प्राप्नोति, "संज्ञायां मित्राजिनयो"
६।२।१६४ इत्येतत्तु भवति विप्रतिषेधेन॥