उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतो ऽभ्यासस्य सम्प्रसारणं भवति। वचि उवाच। उवचिथ। स्वपि सुष्वाप। सुष्वपिथ। यज इयाज। इयजिथ। डुवप् उवाप। उअवपिथ। ग्रह्यादीनाम् तत्र ग्रहेरविशेषः। जग्राह। जग्रहिथ। ज्या जिज्यौ। जिज्यिथ। वयि उवाय। उवयिथ। व्यध विव्याध। विव्यधिथ। वश उवाश। उवशिथ। व्यच विव्याच। विव्यचिथ। वृश्चतेः सत्यसति वा योगे न अस्ति विशेषः। योगारम्भे तु सति यदि सम्प्रसारणम् अकृत्वा हलादिशेषेण रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति। अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानी मुरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम्
६।१।३६ इति प्रतिषेधो भवति इत्यस्ति विशेषः। वव्रश्च। वव्रश्चिथ। पृच्छति भृज्जत्योरविशेषः। अकिदर्थं च इदम् अभ्यासस्य सम्प्रसारणं विधीयते। किति हि परत्वाद् धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद् द्विर्वचनम्, ऊचतुः, ऊचुः इति। अधिकारादेव उभयेषां ग्रहणे सिद्धे पुनरुभयेषाम् इति वचनं हलादिः शेषम् अपि बाधित्वा सम्प्रसारणम् एव यथा स्यातिति। विव्याध।
"उवयिथ" इति।
क्रादिनियमादिट्? प्राप्तः "उपदेशेऽत्वतः"
७।२।६२ इति प्रतिषिद्धः "ऋतो भारद्वाजस्य" (७।२।
६३) इति नियमात्? पुनर्भवति।
"ग्रहेरविशेषः" इति।
यस्मात्? सति सम्प्रसारणे हलादिशेषेण
७।४।६० रेफनिवृत्तौ जग्राहेति ग्रहेर्यद्रूपं भवति, सत्यपि सम्प्रसारण उरत्वरपरत्वहलादिशेषेष्वपि कृतेषु तदेव भवति। "जिज्यौ" इति। "आत औ णलः"
७।१।३४। "जिज्यथ" इति। "आतो लोप इटि च"
६।४।६४ इत्याकारलोपः। "वृश्चतेः सत्यसति वा योगे नास्ति विशेषः" इति। यद्यन्यार्थो योग आरभ्यते न वृश्चत्यर्थः, ततो वृश्चत्यर्थमेतद्वचनं न भवतीति सत्यप्येतस्मिन्नन्यार्थवचने वृश्चतेरभ्यासस्य नैव सम्प्रसारणेन भवितव्यम्()।
न ह्रसति तदर्थे वचने केनचित्? प्रकारेण सम्प्रसारणमुपपद्यत इत्यभिप्रायः ततश्चासत्यस्मिन्? योगे वव्रश्चेति यद्रूपं भवति सत्यपि तदेवेति नास्ति वृश्चतेर्विशेषः। एतच्च वृत्तिकारमतेनोक्तम्()। भाष्यकारमतेन त्वाह--"योगारम्बे" इत्यादि। तस्यायं भावः--सति वचऽनेन्यार्थो क्रियमाणे तस्य वृश्चत्यर्थतापि भवति; वृश्चतेरहपि ग्रह्रादिष्वन्तर्भावात्()। ततश्च तदर्थोऽप्ययं योगारम्भ इति तदभ्यासस्यापि सम्प्रसारणेन भवितव्यमिति तुशब्दो वृत्तिकारमताद्विशेषं दर्शयति। "यदि सम्प्रसारणमकृत्वा" इत्यादि। ननु चोभयग्रहमस्य प्रयोजनं वक्ष्यति--हलादिशेषं
७।४।६० परमपि बाधित्व#आ सम्प्रसारणमेव यथा स्यादितदि,
तत्? कुतोऽस्य पक्षस्य सम्भवः? उभयग्रहणरहिते योगे सतीत्यभिप्रायः। "अथ रेफस्य" इत्यादि। उभयग्रहणसहिते योगे सतीति भावः। "उरदत्वस्य स्थानिवद्भावात्()" इति।
केन पुनः स्थानिवद्भावः? "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इति।
कः पुनरसौ? प्रत्ययोऽचः परः, यन्निमित्तमोरत्वं स्यात्()।
अह्गस्य योऽभ्यास इति विज्ञायमाने सामथ्र्यात्? प्रत्यय आश्रितो भवति;
विना तेनाह्गव्यपदेशाभावात्? वृत्तिकारमतं चेषितव्यम्();
अन्यथा तत्रोभयग्रहणाभावात्? हलादिशेषेण
७।४।६० प्रागेव सम्प्रसारणाद्रेफे निवर्त्तिते वकारस्य सम्प्रसारणं स्यात्()। ततश्च उव्रश्चेत्यनिष्टं रूपं स्यात्()।
"पृच्छतिभृज्जत्यीरविशेषः" इति। ग्रहेरिव वेदितव्यः। "अकिदर्थम्()" इत्यादि।
किं पुनः कारणमकिदर्थं मिदं व्याख्येयम्()? इत्यत आह--"किति" इत्यादि।
यस्मात्? किति परत्वात्? सम्प्रसारण कृते कृतसम्प्रसारणस्य पुनः प्रसङ्गविज्ञानाद्()द्विर्वचने कृतेऽन्तरेणाप्येतद्वचनम्(), ऊचतुरित्यादि सिद्ध्यत्येव। तस्मान्नेदं किदर्थम्(), अपि त्वकिदर्थमेवेति।
अथ किमर्थमुभयेषामित्युच्यते,
यावता स्वरितलिङ्गासङ्गादेवोभयेषामित्यस्यानुवृत्तिर्भविष्यति? न चानुवृत्तौ सत्यां ङिति वच्यादीनामपि सम्प्रसारणं प्राप्नोतीत्येतच्च नाशङ्कनीयम्(); यदि वच्यादीनामपि ङिति सम्प्रसारणं स्याद्योगविभागोऽनर्थकः स्यात्(); मण्डूकप्लुतिन्यायेन वा व्रच्यादीनामनुवृत्तिर्भविष्यति,
तत्कुतोऽस्य दोषस्यावसरः? इत्याह--"अधिकारादेव" इत्यादि।
अधिकारादेवोभयग्रहणे सिद्धे पुनरुभयेषांग्रहणात्? पुनःश्रुतिर्भवति। तस्याश्चैतदेव प्रयोजनम्()---यत्र सम्प्रसारणं चान्यच्च प्राप्नोति तत्र सम्प्रसारणमेव यथा स्यात्(), मा भूदन्यदिति। तेन विव्याध, विव्यधिथ इत्यत्र हलादिशेषं
७।४।६० परमपि बाधित्वा सम्प्रसारणमेव भवति;
अन्यथात्र परत्वात्? प्राक्? प्रवर्तमानेन हलादिशेषेण यकारस्य निवृत्तौ कृतायां वकारस्य सम्प्रसारणमापद्येत, ततश्च--उव्याध उव्यधिथेत्यनिष्टं रूपं स्यात्()॥
लिट()भ्यासस्येति। वच्यादयो-- वचिस्वपियजादयः। ग्रह्रादयस्तु-- "ग्रहिज्यावयी"त्यादयः। यद्यपि ग्रहिपृच्छतभृज्जतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते। जग्राह। पप्रच्छ। बभ्रज्ज। वृश्चतेस्तु विशेषः,--- संप्रसारणस्याऽकरणे वव्रश्चेत्यत्र वकारस्य संप्रसारणं स्यात्, कृते तु संप्रसारणे "न संप्रसारणे" इति निषेधप्रवृत्तिरिति। लटीति किम्?। विवक्षति। पिपक्षति। वचिस्वपि। आगणान्ता यजादयः।
"यजिर्वपिर्वहिश्चैव वसिर्वेञ्? व्येञ इत्यपि। ह्वेञ्()वदी ()आयतिश्चेति यजाद्याः स्युरिमे नव"। कितीति किम्?। इयष्ठ। डुवप्।"ड्वितः क्रिः"। उप्त्रिमम्।