चितः इत्येव। चितस् तद्धितस्य अन्त उदात्तो भवति। गोत्रे कुञ्जाऽदिभ्यश्च्फञ्
४।१।९८ कौञ्जायनाः। मौञ्जायनाः।
किम् अर्थम् इदम्? परम् अपि ञित्स्वरं बाधित्वा ऽन्तोदात्तत्वम् एव यथा स्यादिति।
"कौञ्जायनाः" इति। "कुञ्जादिभ्यश्च्फञ्()" (४।१।
९८) इति च्फञन्तात्? "व्रातच्फञोरस्त्रियाम्()"
५।३।११३ इत्यागतस्य अप्रत्ययस्य "तद्राजस्य बहुषु"
२।४।६२ इत्यादिना लुक्()।
"किमर्थम्()" इति। पुर्वेणैव सिद्धमिति मन्यमानस्य प्रश्नः। "परमपि" इत्यादि। च्फञो हि चकारः "व्रातच्फञोरस्त्रियाम्()"
५।३।११३ इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्धौ। यद्येवं नोच्येत तदा परत्वान्()ञित्स्वरः स्यात्()। तस्मात्तमपि बाधित्वान्तोदात्तत्वमेव यथा स्यादित्येवमर्थं क्रियते॥