चितो ऽन्त उदात्तो भवति। भञ्जभासमिदो घुरच्
३।२।१६१ भङ्गुरम्। भासुरम्। मेदुरम्। आगस्त्यकौण्डिनययोरगस्तिकुण्डिनच्
२।४।७०। कुण्डिनाः। चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते। बहुपटुः। उच्चकैः।
"भङगुरम्()" इत्यादौ प्रत्ययस्वरस्यापवादोऽन्तोदात्तत्वं विधीयते। "कुण्डिनाः" इति। अत्र तु स्थानिवद्भावः स्वरस्य। कुण्डिनोशब्दस्यायमादेशः, स च प्रतययस्वरेण मध्योदात्त इति तदादेशोऽपि मध्योदात्त एव सात्()। कुण्डमस्यास्तीतीनिः,
तदन्तात्? स्त्रियां "ऋन्नेभ्यो ङीप्()"
४।१।५ इती ङीप्()।
कुण्डिन्या अपत्यानि बहुनीति गर्गादित्वात्? यञ्? ४।१।१०५, तस्य बहुषु लुक्()। परिशिष्टस्य कुण्डिनजादेशः।
"चिति प्रतयये" इत्यादि।
कथं पुनः प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं लभ्यते? यथा लभ्यते तथाख्यायते--इह चित इति समुदायसम्बन्धेऽवयवादेषा षष्ठी। चितोऽवयवस्य सम्बन्धी यः समुदायः तस्यान्तोदात्तत्वं भवतीत्यर्थः। अथ वा चित इति मत्वर्थीयाच्प्रत्ययान्तमेतत्--चिदस्यास्तीति चितः, तस्यान्तोदात्तत्वं भवतीत्यर्थः। तेन प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं सिध्यति। यदि तर्हि चित इति मत्वर्थीयाकारप्रत्ययान्तमेतत्(), तर्हि सुब्व्यत्ययेन षष्ठ्याः प्रसङ्गे प्रथमा भविष्यति। "बहुपटवः" इति।
ईषदसमाप्ताः पटव इति "विभावा सुपो बहुच्? पुरस्तात्तु"
५।३।६८ इति बहुच्()। "उच्चकैः" इति।
"अव्ययसर्वनाम्नामकच्? प्राक्टेः
५।३।७२ इत्यकच्()॥