विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम्, तस्य पूर्वशब्देन तदन्तविधिः। सपूर्वात् प्रतिपदिकात् पूर्वशब्दान्तातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं कृतम् अनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। सुप् सुपा इति समासं कृत्वा तद्धित उत्पाद्यते। योगद्वयेन च अनेन पूर्वादिनिः
५।२।८५, सपूर्वच् च
५।२।८६ इति परिभाषाद्वयं ज्ञाप्यते, व्यपदेशिवद्भावो ऽप्रातिपदिकेन, ग्रहणवता प्रातिपदिकेन तदन्तविधिर् न अस्ति इति।
सहशब्दो विद्यमानवचनः। अत एवाह--"विद्यमानं पूर्वम्()" इति। "वोपसर्जनस्य"
६।३।७१ इति सहस्य सभावः।
"कृतपूर्वो कटमिति" ननु च निष्ठ()आ कर्मणोऽभिहितत्वाद्()द्वितीयाऽतर न प्रापनोति? नैष दोषः; नेयं कर्मणि निष्ठा,
किं तर्हि? भावे। यदापि कर्मणि तदापि न दोषः; निष्ठया हि सामान्यं कर्माभिहितम्(), न विशेषकर्म। तस्माद्विशेषकर्मणोऽनभिहितत्वाद्()द्वितीया भविष्यति। ननु च पूर्वं कृतमित्यनेकपदावयवत्वाच्च वाक्यमिदम्()। वाक्यस्य चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञा नास्ति।
तत्कथमतः प्रत्ययः? इत्याह--"सुप्सुपा" इत्यादि।
"योगद्वयेन च" इत्यादि। यदि "व्यपदेशिवद्भावोऽप्रातिपदिकेन" (शाक। प।
६५) इत्येषा परिभाषा न स्यात्? तदा "सपूर्वात्पूर्वादिनिः" इत्येकयोगं कुर्यात्? किं योगविभागेन! एकयोगे हि सति केवलादपि व्यपदेशिवद्भावेन प्रत्ययो भविष्यति।
तदेवमेकयोगेन सिद्धे यत्? "पूर्वादिनिः"
५।२।८५ इति पृथग्योगं करोति, तज्ज्ञापयति--अस्तीयं परिभाषा "व्यपदेशिवद्भावोऽप्रातिपदिकेन" (शाक। प। ६५) इति। यदि वा "ग्रहणवता" (व्या। प।
८९) इत्यादिका परिभाषा न स्यात्? "सपूर्वाच्च" इतीमं योगं न कुर्यात्()। "पूर्वादिनिः"
५।२।८५ इत्यनेनैव हि कृतपूर्वीत्यादावपि भविष्यति तदन्तविधिना।
तदेयं पूर्वयोगेणैव पूर्वशब्दादपि सिद्धे प्रत्यये यत्? "सपूर्वाच्च" इतीमं योगं करोति तज्ज्ञापयति---अस्तीयं परिभाषा "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न भवति" (व्या। प। ८९) इति॥
सपूर्वाच्च। "अनेने"ति, पूर्वसूत्रं चानुवर्तते। विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थे इनिः स्यात्। "पूर्वान्ताच्चे"त्येतत्फलितम्। कृतपूर्वबीति। कृतपूर्वशब्दयोः "सुप्सुपा"इति समासः। इह प्रातिपदिकाधिकारात् "पूर्वादिनि"रित्यनेनैव पूर्वशब्दान्तप्रातिपदिकात्कृतपूर्वशब्दादिनौ सिद्धे "सपूर्वाच्चे"त्येतत् "ग्रहणवता प्रातिपदिकेन तदन्ततविधिर्ने"ति परिभाषां ज्ञापयति। "कृतपूर्वी"त्येतत्सिद्धये "पूर्वान्ताच्चे"ति स्वीकृते तेनैव व्यपदेशिवद्भावेन पूर्वीत्यपि रूपे सिद्धे "पूर्वादिनिः"इत्येतत् "व्यपदेशिवद्भावोऽप्रातिपदिकेने"ति परिभाषां ज्ञापयति।