तेन इत्येव। तृतीयासमर्थात् सम्पादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः सम्पत्तिः। आवश्यके णिनिः। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेन विशेषतः शोभते इत्यर्थः।
"गुणोत्कर्षः सम्पत्तिः" इति। सम्पादिनीत्यत्र प्रकृतिभागस्यार्थमाचष्टे। पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। "आवश्यके णिनिः" इति। अवश्यं सम्पद्यत इति "आवश्यकाधमर्णयोर्णिनिः"
३।३।१७०। "विशेषतशोभते" इति। शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात्()॥
सम्पादिनि। तेनेत्येवेति। संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी। तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः।