तत्र इत्येव। स्प्तमीसमर्थात् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने ते ऽपि भवन्ति, सर्वविधीनाम् छन्दसि व्यभिचारात्। नमो मेध्याय च विद्युत्याय च नमः। आपादपरिसमाप्तेः छन्दो ऽधिकारः। भवाधिकारश्च समुद्राभ्राद् धः
४।४।११७ इति यावत्।
"अणादीनां घादीनाञ्चापवादः" इति। "तत्र भवः"
४।३।५३ इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्,
ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह--- "सति दर्शने" इत्यादि।
कथं पुनरेवं लभ्यते? इत्याह---"सर्वविधीनाम्" इत्यादि। सर्वविधिव्यभिचारस्तु "बहुलं छन्दसि"
३।२।८८ इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥