समुद्रशब्दातभ्रशब्दाच् च घः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतो ऽपवादः। समुद्रिया नदीनाम्। अभ्रियस्येव घोषाः। अभ्र। शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात्।
ननु च "अजाद्यन्तम्"
२।२।३३ "अल्पाच्तरम्"
२।२।३४ इत्यभ्रशब्दस्य पूर्वनिपातेन भवितव्यम्,
तत्कथमपूर्वनिपातः? इत्याह---- "अम्रशब्दस्य" इत्यादि॥