उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययओ न भवति। द्व्यचश् छन्दसि
४।३।१४८ इति प्राप्तः प्रतिषिध्यते। मौञ्जं शिक्यम्। गार्मुतं चरुम्। वार्ध्री बालप्रग्रथिता भवति। बैल्वो ब्रह्मवर्चसकामेन कार्यः। तपरकरणं तत्कालार्थम् धूममयानि अभ्राणि। मतुब्निर्देशस् तदन्तविधिनिरासार्थः। इह एव स्यात् वैणवी यष्टिः इति।
"मौञ्जम्" इति। मुञ्जाशब्दस्य पूर्वपदाद्युदात्तत्वेन तस्मादौत्सर्गिक एवाण्। "गार्मुत्म्" इति। "मुग्रोरुतिःट (पं।उ।१।९६), "{गर्मुत्-- द।उ। ग्रो मुट् च" (पं।उ।} गोर्मुट् च" (पं।उ।१।९७) इति प्रत्ययस्वरेण गर्मुच्छब्दोऽन्तोदात्तः। तस्मात् "अनुदात्तादेश्च"
४।३।१३८ इत्यञ्। "ब्राआर्ध्री"इति। "वृधिवपभ्यां रन्" (द।उ।८।४५) ब्राध्र्रशब्दो नित्स्वरेणाद्युदात्तः, तस्मात् "प्राग्दीव्यतोऽण्"
४।१।८३, "टिड्ढाणञ्"
४।१।१५ इति ङीप्। "बैल्वम्" इति। "बिल्वादिभ्योषऽण्"
४।३।१३४।
अथ मतुषा निर्देशः किमर्थः? न नोद्वध्र्रबिल्वादित्येवोच्येतेत्यत आह-- "मतुब्निर्देशः"इति।"नोत्वद्वध्र्रबिल्वात्"
४।३।१४९ इत्युच्यमान उदिति वर्णग्रहणं स्यात्। अत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतीति तस्मात्तन्निषेधाय मतुब्निर्देशः। कः पुनस्तदन्तविधौ सति दोषः स्यादित्यत आह-- "इहै व" इत्यादि। एवकारेण मुञ्जादिभ्यो न स्यादिति दर्शयति। "वैष्णवी" इति। बिल्वादित्वादण्॥