अधिकारोऽयम्। इतः अग्रे आपञ्चमाध्यायपरिसमाप्तेः (५।४।१६०) वक्ष्यमाणाः प्रत्ययाः तद्धितसंज्ञाः भवन्ति।
अधिकारो ऽयम्। आपञ्चमाध्यायपरिसमाप्तेः यानित ऊर्ध्वम् अनुक्रमिस्यामः तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति, यूनस्तिः
४।१।७७ युवतिः। बहुवचनम् अनुक्ततद्धितपरिग्रहार्थम्। पृथिव्या ञाञौ
४।१।८५, अग्रादिपश्चाड् डिमच्
४।३।२३ इत्येवम् आदि लब्धं भवति। तद्धितप्रदेशाः कृत्तद्धितसमासाश्च
१।२।४६ इत्येवम् आदयः।
"युवतिः" इति। तद्धितसंज्ञायां सत्यां "कृत्तद्धित"
१।२।४६ इत्यादिना प्रातिपदिकसंज्ञा भवति। अथ "तद्धिताः" इति न सम्भवति बहुवचननिर्देशः, यथैव हि "प्रत्ययः"
३।१।१ इत्येकवचननिर्देशेऽपि वक्ष्यमाणानां बहूनामपि सन्नादीनां सर्वेषां सा संज्ञा भविष्यति,
तथाऽत्राप्येकवचनेनैव निर्देशः कत्र्तव्यः? इत्यत आह-- "बहुवचनम्" इत्यादि। एकवचन एव कत्र्तव्ये यद्बहुवचनं क्रियते तस्यैतत्प्रयोजनम्--अनुक्ता ये तद्धिता लक्षणवाक्यैरनभिहितास्तेषामपि परिग्रहो यथा स्यात्। ततः "पृथिव्या ञाञौ" (वा।३७६) इत्यादि न कत्र्तव्यं भवति। बहुवचननेनैवानुक्ततद्धितपरिग्रहार्थेन तेषां सिद्धत्वे महत्याः संज्ञायाः करण एतत् प्रयोजनम्, अन्वर्थसंज्ञा यथा विज्ञायेत-- तेभ्यो हितास्तद्धिताः। तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते; तेषां व्युत्पाद्यत्वेन प्रकृतत्वात् तेन तत्रैव भवन्त्यणादयो यत्र च भवन्तस्तेषामुपकारिणो भवन्ति, नान्यत्रेति। तेनाभिधानलक्षणत्वं तद्धितानामुपपन्नं भवति।
अथ तद्धिताधिकारः स्त्रीप्रत्ययानामादित एव कस्मान्न क्रियते? किमेव सति भवति? तद्धितानामुपपन्नं तद्धितानन्तत्वात् प्रातिपदिकमिति "ङ्याप्प्रातिपद#इकात्"
४।१।१ इत्यत्र ङ्याब्ग्रहमं न कत्र्तव्यं भवति, "प्राचां ष्फ तद्धितः"
४।१।१७ इत्यत्र च तद्धितग्रहणम्, "यस्येति च"
६।४।१४८ इतीकारग्रहणञ्च;
तद्धित इत्येवं सिद्धत्वात्? अशक्यमेवं कर्त्तुम्; एवं हि क्रियमाणे तत्र ङ्याब्ग्रहणस्य यत् पूर्वं प्रयोजनमुक्तं तन्न स्यात्; ङीब्ङीष्ङीनाञ्च ङकारस्येत्संज्ञा "अतद्धिते"
१।३।८ इति प्रतिषेधात्। इह च पट्वीति "ओर्गुणः"
६।४।१४६ इति गुणः स्यात्। तस्माद्यथान्यासमेवास्तु॥