प्रथमावृत्तिः
सूत्रम्॥
तिङ्शित्सार्वधातुकम्॥ ३।४।११३
पदच्छेदः॥
तिङ्शित् १।१ सार्वधातुकम् १।१ धातोः ५।१ ३।१।९१ प्रत्ययः १।१ ३।१।१ परश्च १।१ ३।१।२
समासः॥
श् इत् यस्य सः शित्, बहुव्रीहिः। तिङ् च शित् च तिङ्शित्, समाहारः द्वन्द्वः।
अर्थः॥
धातोः विहिताः तिङः शितश्च प्रत्यया सार्वधातुक-संज्ञकाः भवन्ति।
उदाहरणम्॥
नयति, स्वपिति, रोदिति। पचमानः, यजमानः।
काशिका-वृत्तिः
तिङ्शित्सार्वधातुकम् ३।४।११३
तिङः शितश्च प्रययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पचमानः। यजमानः। सार्वधातुकप्रदेशाः सार्वधातुके यक्
३।१।६७ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तिङ् शित्सार्वधातुकम् ३८८, ३।४।११३
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥
न्यासः
तिङ्शित्सार्वधातुकम्। , ३।४।११३
"भवति, नयति" इति। तिङः सार्वधातुकसंज्ञायां तन्निबन्धनः कत्र्तरि शप्, तस्यापि शितः सार्वधातुकत्वात् "सार्वधातुकार्धधातुकयोः" ७।३।८४) इति गुणः। "रोदिति" इति। पूर्ववच्छपो लोपः, "रुदादिभ्यः सार्वधातुके"
७।२।७६ इतीट्। "पवमानः, यजमानः" इति। "पूङ्यजोः शानन्"
३।२।१२८ ,तस्य सार्वधातुकत्वात् शप्, तस्यापि सार्वधातुकत्वाद्धातोर्गुणः॥
बाल-मनोरमा
तिङ्?शित्सार्वधातुकम् १६, ३।४।११३
तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह-- तिङ्()शित्। धातोरित्यधिकृतं। तदाह--धात्वधिकारोक्ता इति। तेन "हरी"नित्यत्र शसः सार्वधातुकत्वं न, "अन्यथा तिङ्()शित्सार्वधातुक"मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वे "घेर्ङिती"ति गुणः स्यात्।
तत्त्व-बोधिनी
तिङ्शित्सार्वधातुकम् १३, ३।४।११३
धात्वदिकारोक्ता इति कम्?। हरीन्। शसः "सार्वधातुकमपि"दिति ङित्त्वे "घेर्ङिती"ति गुणः स्यात्, लिहः श्रिय इत्यादिशसन्तेषु "सार्वधातुके य"गिति यक्क स्यात्। केचित्तु वारिणी इत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः। तन्न। क्ङितीति निषेधात्, इगन्तत्वप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च।