"अदेर्धातोरप्प्रत्ययो भवति" इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्()विधीयमानो घञोऽपवादो वेदितव्यः। "विघसः, प्रघसः" इति। "घञपोश्च"
२।४।३८ इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,
कः पुनरेवं सति गुणो भवति? अदेरपि घस्लुभावो न कत्र्तव्यो भवति? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम्-- "नौ ण च"
३।३।६० इत्यदेर्यथा स्यात्, घसेर्मा भूदिति॥