ग्रहादिभ्यः धातुभ्यः अप् प्रत्ययो भवति। घञो ऽपवादः। निश्चिनोतेः तु अचो ऽपवादः। ग्रहः। वरः। दरः। निश्चयः। गमः। निश्चिग्रहनं स्वरार्थं। विशिरण्योरुपसङ्ख्यानम्। वशः। रणः। घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्। प्रतिष्ठन्ते ऽस्मिनिति प्रस्थः पर्वतस्य। प्रस्नाति अस्मिन् प्रस्नः। प्रपिबन्ति अस्याम् इति प्रपा। आविध्यन्ति तेन इति आविधः। विहन्यन्ते ऽस्मिनिति विघ्नः। आयुध्यते अनेन इति आयुधम्।
"वृ" इति वृङ्वृञोः सामान्येन ग्रहणम्। "दृ"इति। "दृङ आदरे" (धा।पा।१४११)। "निश्चिनोतेस्तवचोऽपवादः" इति। "एरच्"
३।३।५६ इति प्राप्तस्य। अथ निश्चिग्रहणं किमर्थम्, यावता नास्मादच्यपि वा विहिते कश्चिद्विशेषोऽस्ति, तदेव हि रूपमुभयत्रापि समापद्यत इत्याह-- "निश्चिग्रहणं स्वरार्थम्" इति। अनुदात्तार्थमित्यर्थः। ननु च "हस्तादाने चेरस्तेये"
३।३।४० इति चिनीतेर्घञ् विधीयमानो न स्यात्, निष्पूर्वादपि प्राप्नोति,
अतस्तद्बाधनार्थमपि निश्चिग्रहणं युक्तम्? नैतदस्ति; निष्पूर्वादपि हि चिनोतेश्चैष घञ् पूर्वविप्रतिषेधेनेष्यते। ननु च स्वरार्थमपि निश्चिग्रहणं नोपपद्यतएव, तथापि "गतिकारकोपपदात् कृत्"
६।२।१३८ इत्युत्तरपदप्रकृतिस्वरे प्राप्ते" अन्तः"
६।२।१४२ , "थाथघञ्क्ताजबित्रकाणाम्"
६।२।१४३ इत्यन्तोदात्तत्वेनैव भाव्यते।
तथा चापि प्रत्ययेऽपि सत्यनुदात्तत्वेनैव भवितव्यम्? नैष दोषः;निश्चिग्रहणसामथ्र्यात थाथादिस्वरस्तस्मिन् विषये न भवति। तस्मिन्नसत्युत्तरपदे प्रकृतिभावेनावस्थितेऽपोऽनुदात्तत्वाद्धातोश्चान्तोदात्तत्वान्निश्चय इति पदं कृत्स्वरेण मध्योदात्त्#ं भवति, अचि सत्यन्तोदात्तं स्यात्।
"वशिरण्योः" इत्यादि। "वश कान्तौ" (धा।पा।१०८०), "रण" (धा।पा।४४५) इति शब्दार्थः, अणरणेत्यादयः शब्दार्थाः (धा।पा।४४४-४५३) धातवः। तयोर्वशिरण्योरप उपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् -- चकारोऽत्रानुक्तसमुच्चयार्थः क्रियते, तेन वशिरण्योरप्यब्भविष्यति।
"घञर्थे क" इत्यादि। घञर्थो भावः कर्त्तृवर्जितञ्च कराकम्, तत्र कप्रत्ययस्य विधानं कत्र्तव्यं स्थाद्यर्थम्। एतत्तु "कृत्यल्युटो बहुलम्"
३।३।११३ इत्येव सिद्धम्। "पा" इति लुग्विकरणपरिभाषया (व्या।प।५०) पानार्थस्य ग्रहणम्, न रक्षणार्थस्य। "प्रस्थः" इति। "आतो लोप इटि च"
६।४।६४ इत्याकारलोपः। "प्रश्नः" इति। "ष्णा शौचे" (धा।पा।१०५२)। "आविधः" इति। "व्यध ताडने" (धा।पा।११८१)। "ग्रहिज्या"
६।१।१६ ईत्यादिसूत्रेण सम्प्रसारणम्। "विघ्नः"इति। "गमहन"
६।४।९८ इत्यादिनोपधालोपः, "हो हन्तेः"
७।३।५४ इत्यादिना कुत्वम्। "आयुधम्" इति। "युध सम्प्रहारे" (धा।पा।११७३)॥