पूर्वम्: ३।३।२१
अनन्तरम्: ३।३।२३
सूत्रम्
उपसर्गे रुवः॥
३।३।२२
काशिका-वृत्तिः
उपसर्गे रुवः
३।३।२२
उपसर्गे उपपदे रौतेर् धातोर् घञ् प्रत्ययो भवति। अपो ऽपवादः। संरावः। उपरावः।
उपसर्गे इति किम्?
रवः।
न्यासः
उपसर्गे रुवः।
, ३।३।२२
"अपोऽपवादः" इति। "ऋदोरप्"
३।३।५७
इति प्राप्तस्य। उत्तरसूत्रेणाप्युवर्णान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः॥
तत्त्व-बोधिनी
उपसर्गे रुवः
१५२१, ३।३।२२
रव इति। "ॠदोर"बित्यप्।