इङो धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। अध्यायः। उपेत्यास्मादधीते उपाध्यायः। अपादाने स्त्रियाम् उपसङ्ख्यानं तदन्ताच् च वा ङीष्। उपाध्याया, उपाध्यायी। शृ̄ वायुवर्णनिवृतेषु। शारो वायुः। शारो वर्णः। शारो निवृतम्। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः।
"अचोऽपवादः" इति। "एरच्"
३।३।५६ इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। "अध्यायः" इति। कर्मणि घञ्।
"तदन्ताच्च वा ङीष्" इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम्-- "वोतो गुणवचनात्"
४।१।४४ इत्यत्र वेति योगविभाघः कत्र्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा "पुंयोगादाख्यायाम्"
४।१।४८ इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।
"शृ वायुवर्णनिवृतेषु" इति। "शृ हिंसायाम्" (धा।पा।१४८८) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, "कृत्यल्युटो बहुलम्"
३।३।११३ इति बहुलग्रहणं वाऽऽश्रित्य कत्र्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।
"अकृतनीशारः" इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्॥
उपेत्येति। गुरुसमीपमेत्येत्यर्थः। अपादान इति। पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः। "घञनुक्रमणमजपोर्विषये" इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम्। उपाध्यायेति। यां स्वयमद्यापयति तस्यामिदं रुपद्वयम्। पुंयोगे तु ङीषेव। आनुगागमश्च पाक्षिक इत्युक्तम्। करणे क्त इति। वृञ् वरण इत्यस्मादित्यर्थः। नीशार इति। "उपसर्गस्य घञी"ति दीर्घः। ननु "प्रदक्षिणप्रसव्यगामिनां शाराणा"मिति कथं प्रयोगः?, "वायुवर्णे" इत्यर्थपरिगणनादिति चेत्। अत्राहुः-- अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति।