भूते इत्येव। बूते ऽर्थे वर्तमानाद् धातोः लुङ् प्रत्ययो भवति। अकार्षीत्। अहार्षीत्। वसतेर् लुङ् रात्रिविशेषे जागरणसन्ततौ वक्तव्यः। क्व भवानुषितः। अहमत्रावात्सम्।
ङकारः "नित्यं ङितः"
३।४।९९ इति विशेषणार्थः। उकारः "लुङलङलृङक्ष्वडुदात्तः"
६।४।७१ इति विशेषणार्थः। भूतसामान्ये चायं लुङ वेदितव्यः; भूतविशेषणेऽनद्यतन्यां लङलिटोर्विधानात्। "अकार्षीत्" इति। "सिचि वृद्धिः परस्मैपदेषु"
७।२।१ इति वृद्धिः; पूर्ववदीट्।
"वसतेः" इत्यादि। "वस निवासे" (धा।पा।
१००५) इत्यस्मादनद्यतने लङि प्राप्ते लुङ वक्तव्यः। दिवसः सकलोऽतिक्रान्ताया रात्रेश्चतुर्थो याम आगामिन्याश्च प्रथमो यामः-- इत्येषोऽनद्यतनः कालः।
तत्र रात्रिविशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्थितः क्व भवानुषितः? इति केनचित् पृष्टः कश्चित्, स तस्मिन् रात्रविशेषे दिवा वा प्रतिवचनं प्रयच्छन् लुङं प्रयुङ्क्ते-- "अहमत्रावात्सम्" इति।
स च न प्राप्नोति; यस्मादसौ ततो रात्रिशेषात् पूर्वभागं प्रहरत्रयलक्षमधिशयितः, सोऽस्यानद्यतनकालः, ततश्चानद्यतने लङ स्यात्; तसमाल्लुङ् वक्तव्यः = व्याख्येयः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "जागरणसन्ततौ" इति। यद्यसौ रात्रिशेषं सकलं सन्तत्याऽविच्छेदेन जागरितवानेवं लुङ् भवति। मुहूत्र्तमपि यद्यस्मिन् रात्रिविशेषे शयितवांस्ततो लङेव-- आहमत्रावसमिति। "अवात्सम्" इति। लुङ्, मिप्, "तस्थस्थ"
३।४।१०१ इत्यादिनाम्भावः, "वदव्रज"
७।२।३ इत्यादिना वृद्धिः; "सः स्यार्धधातुके"
७।४।४९ इति सकारस्य तत्वम्॥