प्रथमावृत्तिः
सूत्रम्॥
लुङ्लङ्लृङ्क्ष्वडुदात्तः॥ ६।४।७१
पदच्छेदः॥
लुङ्लङ्लृङ्क्षु ७।३ ७५ अट् १।१ ७५ उदात्तः १।१ ७५ अङ्गस्य ?
समासः॥
लुङ्॰ इत्यत्र इतरेतरद्वन्द्वः
अर्थः॥
लुङ्, लङ्, लृङ्, इत्येतेषु प्रतः अङ्गस्य अट्-आगमः भवति, उदात्तश्च सः भवति।
उदाहरणम्॥
लुङ् - अकार्षीत्, अहार्षीत्। लङ् - अकरोत्, अहरत्। लृङ् - अकरिष्यत्, अहरिष्यत्
काशिका-वृत्तिः
लुङ्लङ्लृङ्क्ष्वडुदात्तः ६।४।७१
लुङ् लङ् लृङित्येतेषु परतो ऽङ्गस्य अडागमो भवति, उदात्तश्च स भवति। लुङ् अकार्षीत्। अहार्षीत्। लङ् अकरोत्। अहरत्। लृङ् अकरिष्यत्। अहरिष्यत्।
लघु-सिद्धान्त-कौमुदी
लुङ्लङॢङ्क्ष्वडुदात्तः ४२५, ६।४।७१
एष्वङ्गस्याट्॥
न्यासः
लुङ्लङ्लृङ्क्ष्वडुदात्तः। , ६।४।७१
"उदात्तश्च स भवति" इति। आगमानुदात्तत्वे प्राप्त उदात्तत्वं विधीयते।
एतच्चोदात्तवचनम्? अभेदका इह शास्त्रे गुणाः" (पु।प।वृ।५७) इत्यस्यार्थस्य ज्ञापकम्()।
कथं कृत्वा? यदि च भेदका गुणाः स्युः, तदोदात्तयुक्तेनैवाटं समुच्चारयेत्()। पश्यत्वाचार्यः--"अभेदका इह शास्त्रे गुणाः" इति, यतः स्वरान्तरनिवृत्त्यर्थमुदात्तवचनं कृतवान्()।
किमेतस्य ज्ञापनेन प्रयोजनम्()? "वृद्धिरादैच्()"
१।१।१ इत्यत्रोदात्तादिभेदभिन्नानामपि वृद्धिसंज्ञा सिध्यतीति॥
बाल-मनोरमा
लुङ्?लङ्?लृङ्?क्ष्वडुदात्तः ५५, ६।४।७१
लुङ्लङ्लृङ्क्ष्वु। अङ्गस्येत्यधिकृतम्। तादह--एषु परेषु अङ्गस्येति। अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः। "लावस्थायामेवाऽडागम" इति तु पक्षान्तरं भाष्ये स्थितम्।