सूत्रम्
लुङ्सनोर्घसॢ॥ २।४।३७
काशिका-वृत्तिः
लुङ्सनोर् घस्ल्̥ २।४।३७
लुङि सनि च परतो ऽदो घस्ल्̥ आदेशो भवति। ल्̥दित्करणम् अङर्थम्। लुङि अघसत्, अघसताम्, अघसन्। सनि जिघत्सति, जिघत्सतः, जिघत्सन्ति। घस्ल्̥भावे ऽच्युपसङ्ख्यानम्। प्रात्ति इति प्रघसः।
लघु-सिद्धान्त-कौमुदी
लुङ्सनोर्घसॢ ५६०, २।४।३७
अदो घसॢ स्याल्लुङि सनि च। ऌदित्वादङ्। अघसत्। आत्स्यत्॥ हन हिंसागत्योः॥ २॥ हन्ति॥
न्यासः
लुङसनोर्घस्लृ। , २।४।३७
"अघसत्" इति। लृदित्त्वात् पुषादिसूत्रेण
३।१।५५ च्लेरङ्गादेशः। "जिघत्सति" इति। "सः स्याद्र्धधातुके"
७।४।४९ इति सकारस्य तकारः।
"घस्लृभावेऽच्युपसंख्यानम्" इति। घस्लृभावे कत्र्तव्येऽचि तस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन घस्लृभावेऽच्यपि भवति। "प्रघसः" इति। पचाद्यच्॥
बाल-मनोरमा
लुङ्?सनोर्घस्लृ २५८, २।४।३७
लुङ्सनोर्घस्लृ। "अदो जग्धिः इत्यतोऽद इत्यनुवर्तते। तदाह--अद इति। लृदित्त्वस्य प्रयोजनमाह-- लृदित्()त्वादिति। हनधातुरिनिट्। प्रणिहन्तीति। शपो लुक्। नस्याऽनुस्वारपरसवर्णौ। "नेर्गदे"ति णत्वम्।
तत्त्व-बोधिनी
लुङ्?सनोर्घस्लृ २२७, २।४।३७
जिघत्सति। प्रणिहन्तीति। "नेर्गदे"ति णत्वम्।